________________
३४०
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ४/१६७ पृथुत्वमीलने चत्वारियोजनसहस्राणि, अन्तरनद्यश्चषट्एकैकस्याश्चान्तरनद्या विष्कम्भःपंचविंशं योजनशतंततः सर्वान्तरनदीपृथुत्वमीलनेजातानि सप्तशतानिपंचाशदधिकानि, द्वेच वनमुखे एकैकस्य वनमुखस्यपृथुत्वमेकोनत्रिंशच्छतानिद्वाविंशत्यधिकानि, उभयपृथुत्वमीलनेजातानि अष्टापञ्चाशच्छतानिचतुश्चत्वारिंशदधिकानि, मेरुपृथुत्वंदशसहस्राणि, पूर्वापरभद्रशालवनयोरायामश्चतुश्चत्वारिंशत्सहस्राणि, सर्वमीलनेजातानिचतुःषष्टिसहस्राणिपंचशतानि चतुर्नवत्यधिकानि, एतज्जम्बूद्वीपविस्तारात् शोध्यते, शोधितेच सति जातं शेषं पंचत्रिंशत्सहस्राणि चत्वारि शतानि षडुत्तराणि, एकैकस्मिंश्च दक्षिणे उत्तरे वा भागे विजयाः षोडश, ततः षोडशभिर्भागे हृते लब्धानि द्वाविंशतिशतानि किंचिदूनत्रयोदशाधिकानि, त्रयोदशस्ययोजनस्यषोडशचतुर्दशभागा-त्मकत्वात्, एतावानेवैकैकस्य विजयस्य विष्कम्भः। ___अयंचभरतवद्वैताढयेन द्विधाकृतइति तत्रतंविवक्षुराह-'कच्छस्सण'मित्यादि, कच्छस्य विजयस्य बहुमध्यदेशभागे वैताढयः पर्वतः प्रज्ञप्तः, यः कच्छं विजयं द्विधा विभजंरस्तिष्ठति, तद्यथा-दक्षिणार्द्धकच्छं चोत्तरार्द्धकच्छंच, चशब्दौ उभयोस्तुल्यकक्षताद्योतनार्थी।
दक्षिणार्द्धकच्छंस्थानतःपृच्छन्नाह-'कहिण'मित्यादि, क्वभदन्त! जम्बूद्वीपेद्वीपेमहाविदेहनाम्नि वर्षे दक्षिणार्द्धकच्छो नाम विजयः प्रज्ञप्तः ?, गौतम ! वैताढयपर्वतस्य दक्षिणस्यां शीतायामहानद्या उत्तरस्यां चित्रकूटस्य वक्षस्कारपर्वतस्यपश्चिमायांमाल्यवतोवक्षस्कारपर्वतस्य पूर्वस्यांअत्रान्तरेजम्बूद्वीपेद्वीपेयावद्दक्षिणार्द्धकच्छोनाम विजयःप्रज्ञप्तः, उत्तरेत्यादिविशेषणद्वयं प्राग्वद् बोध्यं, अष्टौ योजनसहस्राणि द्वे च एकसप्तयुत्तरे योजनशते एकं चैकोनविंशतिभागं योजनस्यायामेन, एतदकोत्पत्तिश्चषोडशसहस्रपञ्चशतद्विनवतियोजनकलाद्वयरूपात्कच्छविजयमानात् पचाशदयोजनप्रमाणे वैताढयव्यासे (ऽपनीते ततोऽ)ीकृते भवति, शेषं प्राग्वद् अयं च कर्मभूमिरूपोऽकर्मभूमिरूपो वेति निर्णेतुमाह-'दाहिणद्ध'इत्यादि, दक्षिणार्द्धभरतप्रकरण इवेदं निर्विशेषं व्याख्येयं, अत्र मनुजस्वरूपं पृच्छति-'दाहिण'इत्यादि, कण्ठयं, अथास्य सीमाकारिणं वैताढय इति नाम्ना प्रतीतं गिरिं स्थानतः पृच्छति
__ 'कहिण'मित्यादि, स्पष्टं, नवरं द्विधा वक्षस्कारपर्वतौ-माल्यवच्चित्रकूटवक्षस्कारौ स्पृष्टः, इदमेव समर्थयति-पूर्वया कोट्या यावत्करणात् 'पुरथिमिल्लंवक्खारपव्वयंपञ्चस्थिमिल्लाए कोडीए पञ्चत्थिमिल्लं वक्खारपव्वयं'इति बोध्यं, तेन पौरस्त्यं वक्षस्कारं-चित्रकूटं नामानं पाश्चात्यया कोट्या पाश्चात्यं वक्षस्कारं-माल्यवन्तं, अत एव द्वाभ्यांकोटिभ्यां स्पृष्टः, भरतवैताढयसशकः रजतमयत्वात् रुचकसंस्थानसंस्थितत्वाच्च, नवरं वे बाहे जीवा धनुःपृष्ठं च न कर्त्तव्यमवक्रक्षेत्रवर्तित्वात्, लम्बभागश्च न भरतवैताढयसश इत्याह-विजयस्य कच्छादेर्यो विष्कम्भः-किंचिदूनतरयोदशाधिकद्वाविंशतिशतयोजनरूपस्तेन सद्दश आयामेन, कोऽर्थः?
विजयस्ययो विष्कम्भभागःसोऽस्यायामविभागइति, विष्कम्भः-पंचाशदयोजनरूपः, उच्चत्वं-पंचविंशतियोजनरूपं उद्वेधः-पंचविंशतिक्रोशात्मकस्तथैव-भरतवैताढयवदेवेत्यर्थः, उच्चत्वस्य प्रथमदशयोजनातिक्रमे विद्यधरश्रेण्यौ तथैव, नवरमिति विशेषःपंचपंचाशत २ विद्याधरनगरावासाः प्रज्ञप्ताः, एकैकस्यांश्रेणी-दक्षिणश्रेणौ उत्तरश्रेणौ वा, भरतवैताढयेतुदक्षिणतः पञ्चाशदुत्तरतस्तु षष्टिर्नगराणीति भेदः, आभियोग्यश्रेणी तथैवेति गम्यं, कोऽर्थः ? -विद्याधर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org