SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ ३३८ जम्बूद्वीपप्रज्ञाप्त-उपाङ्गसूत्रम् ४/१६६ तत्रदेशे स्थानेतस्मिन् तस्मिन् प्रदेशे-देशैकदेशेइत्यर्थः बहवः सरिकागुल्माः नवमालिकागुल्माः यावन्मगदन्तिकागुल्माःसन्तीतिशेषः, ते गुल्माः क्षेत्रानुभावतः सदैवपञ्चवर्णकुसुमंकुसुमयन्तिजनयन्तिइत्यर्थः, तेगुल्मास्तंमाल्यवतोवक्षस्कारपर्वतस्य बहुसमरमणिज्जं भूमिभागंवातविधुताग्रशालामुक्तपुष्पपुञ्चोपचारकलितं कुर्वन्ति, एतदर्थ प्राग्वत्, ततो माल्यं-पुष्पं नित्यस्यास्तीति माल्यवान्माल्यवान्नाम्ना देवश्चात्रमहर्द्धिकोयावत्पल्योपमस्थितिकः तेन तद्योगादयमपिमाल्यवान्, 'अथापरं चे' त्यादि, प्राग्वत् ।। इह द्विविधा विदेहाः, तद्यथा-पूर्वविदेहा अपरविदेहाश्च, तत्र ये मेरोः प्राक् ते पूर्वविदेहाः ते च शीतया महानद्या दक्षिणोत्तरभागाभ्यां द्विधा विभक्ताः, एवं ये मेरोः पश्चिमायांते अपरवि-देहास्तेऽपितथैव शीतोदया द्विधा विभक्ताः, एवं विदेहानांचत्वारो भागाः दर्शिताः, सम्प्रत्यमीषु विजयवक्षस्कारादिव्यवस्थालाघवार्थं पिण्डार्थगत्या सूत्रकृदयिष्यमाणरीत्या बोधनीयानांदुर्बोधा इति विस्तरतोनिरूप्यते, तत्रैकैकस्मिन् भागेयथायोगं माल्यवदादेर्गजदन्ताकारवक्षस्कारगिरेः समीपे एको विजयः तथा चत्वारः सरलवक्षस्कारास्तिप्रश्चान्तनद्यः, एषां सप्तानां वस्तूनामन्तराणि षट्, सर्वत्राप्यन्तराणि रूपोनानि भवन्ति तथाऽत्र, प्रतीतमेतच्चतसृनामङ्गुलीनामप्यन्तरालानि त्रीणिति, ततोऽन्तरे २ एकैकसद्भावात् षड्विजयाः। एते चत्वारो वक्षस्कारादय एकैकान्तरनद्याऽन्तरितास्ततश्चतुर्णामद्रीनामन्तरे सम्भवत्यन्तरनदीत्रयमितिव्यवस्था स्वयमवसातव्या, तथा वनमुखमवधीकृत्यैको विजयइति प्रतिविभागं सिद्धा अष्टौ विजयाः चत्वारो वक्षस्कारासितम्रऽन्तरनद्यो वनमुखं चैकमिति, इयमत्र भावनापूर्वविदेहेषु माल्यवतो गजदन्तपर्वतस्य पूर्वतः शीताया उत्तरत एको विजयः, ततः पूर्वस्यां प्रथमो वक्षस्कारः ततोऽपि पूर्वस्यां द्वितीयो विजयः ततोऽपि पूर्वस्यां प्रथमान्तरनदी, अनेन क्रमेण तृतीयोविजयः द्वितीयो वक्षस्कारः चतुर्थो विजयः द्वितीयान्तरनदी पञ्चमो विजयः तृतीयो वक्षस्कारः षष्ठोविजयः तृतीयान्तरनदी सप्तमो विजयः चतुर्थो वक्षस्कारः अष्टमो विजयः ततश्चैकं वनमुखं जगत्यासन्नं, एवं शीताया दक्षिणतोऽपि सौमनसगजदन्तपर्वतस्यपूर्वतोऽयमेव विजयादिक्रमो वाच्यः, तथा पश्चिमविदेहेषुशीतोदाया दक्षिणतो विद्युप्रभस्य पश्चिमतोऽप्ययमेवक्रमः, तथा शीतोदाया उत्तरतोऽपि गन्धमादनस्य पश्चिमत इति । अथ प्रादक्षिण्येन निरूपणेऽयमेव हि आधइति,प्रथमविभागमुखेकच्छविजयं विवक्षुराह मू. (१६७) कहि णं भंते ! जंबुद्दीवे दीवे महाविदेहे वासे कच्छेनामं विजए पन्नत्ते ?, गोअमा ! सीआए महानईए उत्तरेणं नीलवंतस्स वासहरपव्वयस्स दक्खिणेणं चित्तकूडस्स वक्खारपव्वयस्सपञ्चत्थिमेणंमालवंतस्स वक्खारपव्ययस्स पुरस्थिमेणंएत्थणंजंबुद्दीवेर महाविदेहे वासे कच्छे नाम विजए पन्नत्ते उत्तरदाहिणायए पाईणपडीणविच्छिण्णे पलिअंकसंठाणसंठिए गंगासिंधूहि महानईहिं वेयद्धेण य पव्वएणं छब्भागपविभत्ते सोलस जोअणसहस्साइं पंच य बानउए जोअणसए दोन्नि अएगूमवीसइभाए जोअणस्स आयामेणं दो जोअणसहस्साइं दोन्नि अतेरसुत्तरे जोअणसए किंचिविसेसूणे विक्खम्भेणंति कच्छस्सणं विजयस्स बहुमज्झदेसभाए एत्थणंवेअद्धे नामंपव्वएप०, जेणंकछंविजयंदुहाविभयमाणे २ चिट्ठइ, तंजहा दाहिणद्धकच्छं च उत्तरद्धकच्छं चेति, कहिणं भंते ! जंबुद्दीवे दीवे महाविदेहे वासे दाहिणद्धकच्छे नामं विजए पं०? गो० वेअद्धस्स पच्चयस्स दाहिणेणं सीआए महानईए उत्तरेणं चित्तकूडस्स वक्खारपव्वयस्स Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003317
Book TitleAgam Suttani Satikam Part 13 Jambudwip pragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy