________________
वक्षस्कारः - ४
सभायामलङ्कारपरिधानं, ततो व्यवसायः - पुस्तकदघाटनरूपः, ततः अर्चनिका - सिद्धायतनाद्यर्चा, ततः सुधर्मायां गमनं, यथा च परिवारणा - परिवारकरणं स्वस्वोक्तदिशि परिवारस्थापनं यथा यमकयोर्देवयोः सिंहासनयो । परितो वामभागे चतुःसहस्रसामानिकभद्रासनस्थापनं सैव ऋद्धिसम्पत् रूपनिष्पत्तिस्तु 'णिज् बहुलं नाम्रः कृगादिषु' इत्यनेन करणार्थे 'निवेत्यासशरयधट्टनवन्देरनः ' इत्यनेन चानप्रत्यये स्त्रलिङ्गीय आपप्रत्यये साधुः तथा वाच्यं 'जीवाभिगमादिभ्यः' ।
मू. (१४५) जावइयंमि पमाणंमि हुंति जमगाओ णीलवंताओ । तावइअमन्तरं खलु जमगदहाणं दहाणं च ॥
बृ. अथ यमकौ द्रहाश्च यावतां अन्तरेण परस्परं स्थितास्तन्निर्णेतुमाह - 'जावइयं' इत्यादि, यावति प्रमाणे - अन्तरमाने नीलवतो यमकौ भवतः खलु निश्चितं तावदन्तरं योजनसप्तभागचतुर्भागाभ्यधिकचतुस्त्रशदधिकाष्टशतयोजनरूपं यमकद्रहयोर्द्रहाणां च बोध्यमिति शेषः, उपपत्तिस्तु प्राग्वत् । अथ येषां हृदानामन्तरमानमन्तरमुक्तं तान् स्वरूपतो निर्द्दिशति
मू. (१४६) कहि णं भंते ! उत्तरकूराए नीलवन्तद्दहे नामं दहे प० गो० जमगाणं दक्खिणिल्लाओ चरिमंताओ अट्ठसे चोत्तीसे चत्तारि अ सत्तभाए जोअणस्स अबाहाए सीआए महानईए बहुमज्झदेसभाए एत्थ णं नीलवन्तद्दहे नामं दहे प० दाहिणउत्तरायए पाईणपडीणविच्छिण्णे जहेव पउमद्दहे तहेव वण्णओ ने अव्वो, नाणत्तं दोहिं पउमवरवेइआहिं दोहि य वनसंडेहिं संपरिक्खित्ते, नीलवंते नामं णागकुमारे देवे सेसं तं चेव नेअव्वं, नीलवंतद्दहस्स पुव्वावरे पासे दस २ जोअणाई अबाहाए एत्थ णं वीसं कंचणगपव्वया प०, एगं जोयणसयं उद्धं उच्चत्तेणं
वृ. 'कहि ण' मित्यादि, क्व भदन्त ! उत्तरकुरुषु २ नीलवदद्रहो नाम द्रहः प्रज्ञप्तः ?, गौतम यमकयोर्दाक्षिण्या चरमान्तादष्ट शतानि चतुस्त्रिंशदधिकानि चत्वारि च सप्तभागान् योजनस्य अबाधया कृत्वा इति गम्यं, अपान्तराले मुक्त्वेति भावः, शीताया महानद्या बहुमध्यदेशभागेऽत्रान्तरे नीलवदद्रहो नाम द्रहः प्रज्ञप्तः, दक्षिणोत्तरायतः प्राचीनप्रतीचीनविस्तीर्ण, पद्मद्रहश्च प्रागपरायतः उदगदक्षिणपृथुरिति पृथग्विशेषणं, यथैव पद्मद्रहे वर्णकस्तथैव नेतव्यः, नानात्वमिति विशेषोऽयं, द्वाभ्यां पद्मवरवेदिकाभ्यां द्वाभ्यां च वनखण्डाभ्या सम्परिक्षिप्तः, अयं भावः - पद्मद्रह एकया पद्मवरवेदिकया एकेन च वनखण्डेन परिक्षिप्तः, अयं तु प्रविशन्त्या निर्यान्त्या च शीतया महानद्या द्विभागीकृतत्वेनोभयोः पार्श्वयोर्वर्त्तिनीभ्यां वेदिकाभ्यां युक्त इति सम्यक्, अर्थश्च नीलवद्वर्षधरनिभानि तत्र तत्र प्रदशेषु शतपत्रादीनि सन्ति अथवा नीलवन्नामा नागकुमारो देवोऽत्राधिपतिरिति नीलवान् ह्रद इति, शेषं पद्मादिकं तदेव नेतव्यं, पद्मद्रह इव पद्ममानसङ्ख्यापरिक्षेपादिकं ज्ञातव्यमित्यर्थः । अथ काञ्चनगिरिव्यवस्थामाह
-
नीलवदद्रहस्य पूर्वापरपार्श्वयोः प्रत्येकं दशदशयोजनान्यबाधया कृत्वेति गम्यं, आपन्तराले मुक्त्वेति भावः, अत्रान्तरे दक्षिणोत्तर श्रेण्या परस्परं मूले सम्बद्धाः अन्यथा शतयोजनविस्तारानामेषां सहस्रयोजनमाने ब्रहायामेऽवकाशासम्भव इति, विंशति काञ्चनकपर्वताः प्रज्ञप्ताः, एकं योजनशतमूर्ध्वोच्चत्वेन, गाथाद्वयेनैतेषां विष्कम्भप रिक्षेपावाह
मू. (१४७)
मूलंमि जोअणसयं पन्नत्तरि जोअणाई मज्झमि । उवरितले कंचनगा पन्नासं जोअणा हुंति ॥
For Private & Personal Use Only
३२७
Jain Education International
www.jainelibrary.org