________________
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ४/१४३
द्वियोजनप्रमाणणिपीठिकोपरिस्थितत्वेन पूर्वे महान्तो महेन्द्रध्वजास्तदपेक्षया इमौ च क्षुल्लावित्यर्थादागतमिति, तयोः क्षुल्लमहेन्द्रध्वजयोरेकैकराजधानीसम्बन्धिनोरपरेण पश्चिमायां चोप्पालो नाम प्रहरणक्रोशः-प्रहरणभाण्डागारं तत्र बहूनि परिघरत्नप्रमुखाणि यावत्पदात् प्रहरणरत्नानि सन्निक्षिप्तानि तिष्ठन्ति, ‘सुहम्माण' मित्यदि, सुधर्मयोरुपर्यष्टाष्टमङ्गलकानि इत्यादि तावद् वक्तव्यं यावद् बहवः सहस्रपत्रहस्तकाः सर्वरत्नमया इत्यादि । सुधर्मसभातः परं किमस्तीत्याह - 'तासि 'मित्यादि, तयोः सुधर्मसभयोरुत्तरपूर्वस्यां दिशि द्वे सिद्धायतने प्रज्ञप्ते इति शेषः, प्रतिसभकैकसद्भावादिति, अत्र लाघवार्थमतिदेशमाह - एष एव - सुधर्मासभोक्त एव जिनगृहानामपि गमः - पाठोऽवगन्तव्यः, स चायम्
'ते णं सिद्धाययना अद्धतेरसजोअणाई आयामेणं छस्सकोसाइं विक्खम्भेणं नव जोअणाई उद्धं उच्चत्तेणं अनेगखम्भसयसण्णिविट्ठा' इत्यादि, यथा सुधर्म्मायास्त्रीणि पूर्वदक्षिणोत्तरवर्तीनि द्वाराणि तेषां पुरतो मुखमण्डपाः तेषां च पुरतः प्रेक्षाण्डपाः तेषां पुरतः स्तूपाः तेषा पुरतश्चैत्यवृक्षाः तेषां पुरतो महेन्द्रध्वजाः तेषां पुरतो नन्दापुष्करिण्य उक्तास्तदनु सभायां षड् मनोगुलिकासहस्राणि षड् गोमानसीसहस्राण्युक्तानि एवमनेनैव क्रमेण सर्वं वाच्यम्, अत्र च सुधर्मातो यो विशेषस्तमाह-‘नवरं इमं नाणत्तं' इत्यादि व्यक्तम्, अथ सुधर्मासभोक्तमेव सभाचुष्केऽतिदिशन्नाह'एवं अवसेसाणवि' इत्यादि, एवं सुधर्मान्यायेन अवशिष्टानामुपपातसभादीनां वर्णनं ज्ञेयं, कियत्पर्यन्तमित्याह-यावदुपपातसभायां - उत्पित्सुदेवोत्पत्युपलक्षितसभायां शयनीयं वर्णनीयं तच्च प्राग्वत्, तथा ह्रदश्च वक्तव्यो नन्दापुष्करिणीमानः, स चोत्पन्नदेवस्य शुचित्वजलक्रीडादिहेतुः, ततोऽभिषेकसभायां - अभिनवोत्पन्नदेवाभिषेकमहोत्सवसथानभूतायां बहु आभिषेक्यंअभिषेकयोग्यं भाण्डं वाच्यं, तथा अलङ्कारसभायां - अभिषिक्तसुरभूषणपरिधानस्थानरूपायां सुबहु अलङ्कारिकभाण्डं - अलङ्कारयोग्यं भाण्डं तिष्ठति, व्यवसायसभयोः - अलंकृतसुरशुभाध्यवसायानुचिन्तन्थानरूपयोः पुस्तकरले ततो बलिपीठे अर्चनिकोत्तरकालं नवोत्पन्नसुरयोर्बलिविसर्जनपीठे द्वे योजने आयामविष्कम्भाभ्यां योजनं बाहल्येन यावत्पदात् 'सव्वरयनामया अच्छा पासाईआ ४' ततो नन्दाभिधाने पुष्करिण्यौ बलिक्षेपोत्तरकालं सुधर्मासभां जिगमिषतोरभिनवोत्पन्नसुरयोर्हस्तपादप्रक्षालनहेतुभूते, अत एव सूत्रे प्रथमोक्ते अपि नन्दापुष्करिण्यौ प्रयोजनक्रमवशात् पश्चाद् व्याख्याते क्रमप्राधान्याद् व्याख्यानस्य, अथ यथा सुधर्मासभातः उत्तरपूर्वस्यां दिशि सिद्धायतनं तथा तस्योत्तरपूर्वस्यां दिशि उपपातसभा, एवं पूर्वस्मात् पूर्वस्मात् परं परमुत्तरपूर्वस्यां वाच्यं यावद्वलिपीठादुत्तरपूर्वस्यां नन्दा पुष्करिणीति, अत्र च 'जमिगाओ रायहाणीओ' इत्यादिसूत्रेषु द्विवचनेन, 'तासिं जाव उप्पिं माणवए चेइअखम्भे' इत्यादिसूत्रेष्वेकवचन्ने निर्देशः सूत्रकाराणां प्रवृत्तिवैचित्र्यादिति । वर्णिते यमिकाभिधे राजधान्यौ, अनायरधिपयोर्यमकदेवयोरुत्पत्यादिस्वरूपख्यानाय विस्तरारुचि सूत्रकृत् संग्रहगाथामाह
३२६
मू. (१४४) उववाओ संकप्पो अभिसेअविहूसणा य ववसाओ । अणिअसुधम्मगमो जहा य परिवारणाइद्धी ।।
वृ. 'उववाओ संकप्पो' इत्यादि, उपपातो - यमकयोर्देवयोरुत्पत्तिर्वाच्या, ततः उत्पन्नयोः सुरयोः शुभव्यवसायचिन्तनरूपः सङ्कल्पः, ततोऽभिषेकः - इन्द्राभिषेकः, ततः विभूषणा - अलङ्कार
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org