SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ ३२४ जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ४/१४३ पन्नत्ता, तेसिणंसुवण्णरुप्पमएसुफलगेसुबहवेवइरामयानागदन्तगा पन्नत्ता, तेसुणंवइरामएसु नागदन्तेसुबहवेकिण्हसुत्तवग्धारिअमललदामकलावाजाव सुकिल्लसुत्तवग्धारिअमल्लदामकलावा, तेणं दाम तवणिज्जलंबूसगा चिठ्ठति'त्ति सर्वं विजयद्वारवद्वाच्यम्, अनन्तरोक्तं गोमानसिकासूत्रेऽतिदिशति-एवं-मनोगुलिकान्यायेन गोमानस्यः-शय्यारूपाः स्थानविशेषावाच्याः, नवरं दामस्थाने धूपवर्णको वाच्यः, अथास्या एव भूभागवर्णकमाह-'तासि ण०' तयोः सुधर्मयोः सभयोः अन्तर्बहुसमरमणीयो भूमिभागः प्रज्ञप्तः, अत्र मणिवर्णादयो वाच्याः, उल्लोकाः पद्मलतादयोऽपिच चित्ररूपाः, अत्र विशेषतो यद्वक्तव्यं तदाह-'मणिपे-ढिआइत्यादि, अत्र सुधर्मयोर्मध्यभागेप्रत्येकं मणिपीठिकावाच्या, द्वेयोजने आयामविष्कम्भाभ्यायोजनं बाहल्येन। 'तासिण'मित्यादि, तयोमणिपीठिकयोरुपरिप्रत्येकंमाणवकनाम्निचैत्यस्तम्भेमहेन्द्रध्वजसमाने प्रमाणतोऽष्टिमयोजनप्रमाण इत्यर्थः वर्णकतोऽपि महेन्द्रध्वजवत्, उपरिषट् क्रोशान् अवगाह्य उपरितनषट्कोशान् वर्जयित्वेत्यर्थःअधस्तादपिषट्क्रोशान्वर्जयित्वामध्येऽर्धपञ्चमेषु योजनेषु गम्यं, जिनसक्थीनि, व्यन्तरजातीयानां जिनदंष्ट्राग्रहणेऽनधिकृतत्वात्, सौधर्मेशान- - चमरबलीन्द्रानामेव तदग्रहणात्, शेषो वर्णकश्चात्र जीवाभिगमोक्तो ज्ञेयः, स चायं 'तस्स णं माणवगचेइअस्स खम्भस्स उवरि छक्कोसे ओगाहित्ता हिठ्ठावि छक्कोसे वज्जित्ता मज्झेअद्धपञ्चमेसु जोअणेसु एत्थणंबहवेसुवण्णरुप्पमयाफलगापन्नत्ता, तेसुणंबहवेवइरामया नागदन्तगाप०, तेसुणंबहवे रययामया सिक्कगाप०, तेसुणंबहवेवइरामयागोलयवट्टसमुग्गया पन्नत्ता, तेसु णं बहवे जिणसकाहाओ सण्णिखित्ताओ चिट्ठन्ति, जाओ णं जमगाणं देवाणं अन्नेसिंच बहूणं वाणमंतराणं देवाण यदेवीण य अच्चणिज्जाओ वंदणि० पूयणिज्जाओ सक्कारणि सम्माणणि कल्लाणं मंगलं देवयं चेइअंपज्जुवासणिज्जाओ' इति, __अत्र व्याख्या- 'तस्स णमित्याद्यारभ्य वज्जित्ता' इति पर्यन्तं प्रायः प्रस्तुतसूत्रे साक्षाद् दृष्टत्वादनन्तरमेव व्याख्यातं, मध्येऽर्द्धपञ्चमेषुयोजनेषुअवशिष्टयोजनेष्वित्यर्थः, अत्रान्तरेबहूनि सुवर्णरूप्यमयानि फलकानि प्रज्ञप्नि, तेषु फलकेषु बहवो वज्रमया नागदन्तकाः प्रज्ञप्ताः, तेषु नागदन्तकेषु बहूनि रजतमयानि शिक्यकानि प्रज्ञप्तानि, तेषु शिक्यकेषु बहवो वज्रमया गोलको-वृत्तोपलस्तद्वद वृत्ताः समुदकाः-प्रसिद्धाः प्रज्ञप्ताः, तेषु समुद्गकेषुबहूनि जिनसक्थीनि सन्निक्षप्तानि तिष्ठन्ति, यानि यमकयोर्देवयोः अन्येषां च बहूनां यमकराजधानीवास्तब्यानां वानमन्तराणां देवानां देवीनां च अर्चनीयानि चन्दनादिना वन्दनीयानि स्तुत्यादिना पूजनीयानि पुष्पादिना सत्कारणीयानि वस्त्रादिना सन्माननीयानि बहुमानकरणतः कल्याणं मङ्गलं दैवतं चैत्यमिति पर्युपासनीयानीति, एतदाशात- नाभीरुतयैव तत्र देवा देवयुवतिभिर्न सम्भोगादिकमाद्रियन्ते नापि मित्रदेवादिभिहस्यिक्रीडादिपराः स्युरिति, ननु जिनगृहादिषु जिनप्रतिमानां देवानामर्चनीयत्वादिकमाशातनात्यागश्च युक्ती, तासां सद्भावस्थापनावपत्वेनाराध्यतासङ्कल्पप्रादुर्भावसम्भवात्, न तथा जिनदंष्ट्रादिषु, तेन कथं तौ घटते? पूज्यानामङ्गानि पूज्या इव पूज्यानीति सङ्कल्पस्यात्रापि प्रादुर्भावात् पूज्यत्वं महावैरोप-शमकगुणवत्वेन च, अस्मिन्नर्थे श्राद्धविधिवृत्तिसम्मति, तथाहि परीक्षाप्राप्तानिर्लोभतागुणं रत्नसारकुमारं प्रति चन्द्रशेखरवचः॥१॥ "हरिसेनानीहरिणैगमेष्यनिमिषाग्रणीः । युक्तमेव तव श्लाधां, कुरुते, सुरसाक्षिकम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003317
Book TitleAgam Suttani Satikam Part 13 Jambudwip pragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy