________________
३२२
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ४/१४३ राजप्रश्नीयादिषु प्रेक्षामण्डपमणिपीठिकातः स्तूपमणि पीठिकाया द्विगुणमानत्वेन दृष्टत्वाच्चायं सम्यक् पाठः सम्भाव्यते, आदर्शेषु लिपिप्रमादस्तु सुप्रसिद्ध एव, अथ स्तूपवर्णनायाह- तासां मणिपीठाकानामुपरि प्रत्येकं २ स्तूपाः प्रज्ञप्ताः, जीवाभिगमादौ तु चैत्यस्तूपा इति, द्वे योजने ऊर्बोच्चत्वेन द्वे योजने आयामविष्कम्भाभ्यां 'व्याख्यातो विशेषप्रतिपत्ति'रिति देशोन द्वे योजने आयामविष्कम्भाभ्या ग्राह्ये, अन्यथा मणिपीठिकास्तूपयोरभेद एव स्यात्, जीवाभिगमादौ तु सातिरेके द्वे योजने उच्चत्वमित्यर्थः, ते च श्वेताः, श्वेतत्वमेवोपमया द्रढयति-'संखदल'त्ति यावत्करणात् ‘संखदलविमलनिम्मलदधिघणगोखीरफेणरययनिअर्पगातासव्वरयनामयाअच्छा जाव पडिरूवा' इति प्राग्वत्, कियडूरं ग्राह्यमित्याह-यावदष्टाष्टमङ्गलकानीति ।
___ अथ तच्चतुर्दिशियदस्तितदाह-'तासिणंथूभाण'मित्यादि, तेषां स्तूपानांप्रत्येकंचतुर्दिक्षु चतम्रोमणिपीठिकाः प्रज्ञप्ताः, ताश्चमणिपीठिकाःयोजनमायामविष्कम्भेनअर्द्धयोजनंबाहल्येन, अत्र जिनप्रतिमा वक्तव्याः, तत्सूत्रं चेदम्-'तासिणं मणिपेढिआणं उप्पिपत्तेअंपत्तेअंचत्तारि जिनपडिमाओ जिनुस्सेहप्पमाणमित्ताओ पलिअंकसण्णिसण्णाओ थूभाभिमुहीओ सण्णिखित्ताओचिटुंति, तंजहा-उसमावद्धमाणा चन्दाननावारिसेणा' इति, एतदवर्णनादिकंवैतादये सिद्धायतनाधिकारेप्रागुक्तं, गताः स्तूपाः, चेइअरुक्खाण'मित्यादि, व्यक्तम्, अत्र चैत्यवृक्षवर्णको जीवाभिगमोक्तो वाच्यः, स चायम्-'तेसि ण चेइअरुक्खाणं अयमेआसवे वण्णावासे पन्नत्ते, तं०-वरइमूलरययसुपइट्ठिअविडिमा रिट्ठामयकंदवेरुलिअरुइलखंधा सुजायवरजायरूवपढमविसालसाला नानामणिरयणविविहसाहप्पसाहवेरुलिअपत्ततवणिजपत्तबेंटा जम्बूनयरतमउसअसुकुमालपवालपल्लववरंकुरधरा विचित्तमणिरयणसुरभिकुसुमफलभरणमिअसाला सच्छाया सप्पभाअस्सिरीआ सउज्जोआअमयरसमरसफला अहिअमणनयणणिव्वुइकरापासादीआजावपडिरूवा ४'इति, अत्रव्याख्या-तेषांचैत्यवृक्षानामयमेतद्रूपोवर्णावासः प्रज्ञप्तस्तद्यथा
वज्ररत्नमयानि मूलानि येषां तेवज्रमूला-तथा रजता-रजतमयी सुप्रतिष्ठिता विडिमाबहुमध्यदेशभागे ऊर्द्धविनिर्गता शाखा येषां ते तथा ततः पूर्वपदेन कर्मधारयः, रिष्ठरत्नमयः कन्दो येषां ते तथा तथा वैडूर्यरत्नमयो रुचिरः स्कन्धो येषां ते तथा ततः पूर्वपदेन कर्मधारयः, सुजातं-मूलद्रव्यशुद्धं वरं-प्रधानं यज्जातरूपं-रूप्यं तदात्मिकाः प्रथमिका-मूलभूता विशालाः शालाः-शाखायेषांतेतथा, तथावैडूर्याणि-वैडूर्यमयानिपत्राणियेषांतेतथा, तथा तपनीयानितपनीयमयानि पत्रवृन्तानि येषां ते तथा, ततः पूर्ववत् पदद्वयपदद्वयमीलनेन कर्मधारयः, जाम्बूनदा-जाम्बूनदनामकसुवर्णविशेषमया रक्तवर्णा मृदुसुकुमारा-अत्यन्तकोमलाः प्रवाला-ईषदुन्मीलितपत्रभावरूपाः पल्लवा-जातपूर्णप्रथमपत्रभावरूपावरांकुराः-प्रथममुद्भिद्यमानास्तान् धरन्ति ये ते तथा, विचित्रममिरलमयानि सुरभीणि कुसुमानि फलानि च तेषां भरेण नमिता-नामं ग्राहिताः शाखा येषां ते तथा, सती-शोभना छाया येषां ते सच्छायाः, एवं सत्प्रभाः अत एव सश्रीकाः तथा सोयोताः मणिरलानामुदद्योतभावात्, अमृतरससमरसानि फलानि येषां ते तथा, अधिक नयनमनोनिवृतिकराः, शेषं प्राग्वत्।
___'तेणंचेइअरुक्खा अन्नेहिं बहूहिं तिलयलवयछत्तोवगसिरीससत्तिवण्णलोद्दधवचंदननीवकुडयकयंबपण सतालतमालिआलपिअंगुपारावयरायरुक्खनन्दिरुक्खेहिं सव्वओ समन्ता Jain Education International
For Private & Personal Use Only
www.jainelibrary.org