________________
वक्षस्कारः-४
३२१ जुत्ताओविवअच्चीसहस्समालणीआओ रूवगसहस्सकलिआओ भिसमाणीओ भिब्भिसमाणीओ चक्खुल्लोअणलेसाओ सुहफासाओ सस्सिरीअरूवाओ कंचणमणिरयणथूभिआगाओ नानाविहपंचवण्णघंटापडागपरिमंडिअअग्गसिहराओ धवलाओ मरीइकवयविणिम्भुअंतीओ लाउल्लोइअमहिआओ गोसीसरससुरभिरत्तचन्दणदद्दरदिण्णपंचंगुलितलाओउवचिअचंदणकलसाओ चंदणघडसुकयतोरणपडिदुवारदेसभागाओ आसत्तोसत्तविउलवट्टवग्धारिअमल्लदामकलावाओ पंचवण्णसरससुरहिमुक्कपुष्फपुंजोवयारकलिआओ कालागुरुपवरकुंदुरुक्कतुरुकघूवडज्झंतमघमतगन्धुटुआभिरामाओ सुगंधवरगंधिआओ गंधवट्टिभूआओ अच्छरगणसंघविकिण्णाओदिव्वतुडिअसद्दसंपणदिआओसव्वरयनामईओअच्छाओजावपडिरूवाओ'इति
अत्र व्याख्या तु सिद्धायतनतोरणादिवर्णकेषु उञ्छवृत्तिन्यायेन सुलभेति न पुनरुच्यते नवरंअप्सरोगणानां-अप्सरः परिवाराणांयः संघः-समुदायस्तेन सम्यक्-रमणीयतया विकीर्णाआकीर्णा दिव्यानांत्रुटिताना-आतोद्यानां ये शब्दास्तैः सम्यक् श्रोत्रमनोहारितयाप्रकर्षेणनदिताशब्दवती, शेषं प्राग्वत्, अथास्यां कति द्वाराणीत्याह-'तासिणं सभाण'मित्यादि, तयोः ससायोः सुधर्मयोस्त्रिदिशि त्रीणि द्वाराणि प्रज्ञप्तानि, पश्चिमायां द्वाराभावात्, तानि द्वाराणि प्रत्येकं द्वे योजने ऊर्वोच्चत्वेन योजनमेकं विष्कम्भेन तावदेव-योजनमेकं प्रवेशेन, श्वेता इत्यादि पदेन सूचितः परिपूर्णो द्वारवर्णको वाच्यो यावद्वनमाला, अथ मुखमण्डपादिषट्नरूपणायाह
'तेसिणंदारण'मित्यादि, तेषा द्वाराणांपुरतः प्रत्येकं २ वयोमुखमण्डपाः प्रज्ञप्ताः, समाद्वाराग्रवर्त्तिनो मण्डपा इत्यर्थः, तेच मण्डपाअर्द्धत्रयोदशयोजनान्यायामेन षट्सक्रोशानियोजनानि विष्कम्भेन सातिरेके द्वे योजने ऊर्वोच्चत्वेन, एतेषामपि 'अनेगखंभसयसण्णिविट्ठा' इत्यादि वर्णनं सुधर्मासभाइवनिरवशेषंद्रष्टव्यं, यावद्वाराणां भूमिभागानांचवर्णनं, यद्यप्यत्र द्वारान्तमेव सभावर्णनंतदतिदेशेन मुखमण्डपसूत्रेऽपि तावन्मात्रमेवायातितथापि जीवाभिगमादिषुमुखमण्डपवर्णके भूमिभागवर्णकस्य दृष्टत्वात् अत्रातिदेशः, अथ प्रेक्षामण्डपवर्णकं लाघवादाह-पेच्छाघरमण्डवाण'मित्यादि, प्रेक्षागृहमण्डपानां-रङ्गमण्डपानांतदेव-मुखमण्डपोक्तमेवप्रमाणं, भूमिभाग इतिपदेन सर्वंद्वारादिकभूमिभागपर्यन्तं वाच्यं, एषुच मणिपीठिका वाच्या, एतावदर्थसूचकमिदंसूत्रम्
'तेसि णं मुहमण्डबाणं पुरओ पत्तेअं२ पेच्छाघरमंडवा पन्नत्ता, ते णं पेच्छावरमंडवा अद्धतेरसजोअणाइंआयामेणंजाव दोजोअणाइंउद्धं उच्चत्तेणंजाव मणिफासो, तेसिणंबहुमज्झदेसभाए पत्तेअं२ वइरामयाअक्खाडयापन्नत्ता, तेसि णंबहुमज्झदेसभाए पत्तेअं२ मणिपेढिआओपन्नत्ताओ'त्ति उक्तप्रायं, नवरमक्षपाट:-चतुरस्राकारो मणिपीठिकाधारविशेषः, अस्याः प्रमाणाद्यर्थमाह-'ताओ णं मणिपेढिआओ जोअणं आयामविक्खंभेणं अद्धजोअणं बाहल्लेणं सव्वमणिमईओसीसाहणाभाणिअव्वा' इति, अत्र सिंहासनानि भणितव्यानि सपरिवाराणीत्यर्थः, शेषं व्यक्तम्, अथ स्तूपावसरः-तेषा प्रेक्षागृहमण्डपानांपुरती मणिपीठिकाः, अत्र बहुवचनं न प्राकृत-शैलीभवं यथा द्विवचनस्थाने बहुवचनं हत्था पाया इत्यादिषु, किन्तु बहुत्वविवक्षार्थं, तेमात्र तिसृषु प्रेक्षागृहमण्डपद्वारदिक्षु एकैकसद्भावात् तिम्रो ग्राह्याः, अन्यत्र जीवाभिगमादिषु तथा दर्शनात्, अथैतासां मानमाह-'ताओ ण मित्यादि, कण्ठ्यं, यद्यप्येतत्सूत्रादर्शेषु ‘जोअणं आयामवि- खम्भेणं अद्धजोअणं बाहल्लेणं'इति पाठो दृश्यते तथापि जीवाभिगमपाठदृष्टत्वेन [13] 21
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org