________________
वक्षस्कारः-१
कुसुमित- मुकुलितलवकितस्तबकित गुल्मितगुच्छितयमलितयुगलवितविनमितप्रणमितसुविभक्तप्रतिमार्यवतंसकधर्य इति, अर्थस्तु प्राग्वत्, एताश्च सर्वा अपि लताः किंरूपा इत्याहसर्वात्मना रलमय्यः, ‘अच्छा सण्हा इत्यादिविशेषणानि प्राग्वत्। __अत्र तीसे णमित्यादि अक्खयसोत्थियासूत्रं श्यते, परं वृत्तिकारेण न व्याख्यातमिति न व्याख्यायते । अधुना पद्मवरवेदिकाशब्दप्रवृत्तिनिमित्तं जिज्ञासुः पृच्छति-सेशब्दोऽथशब्दार्थ अथ ‘केनार्थेन' केन कारणेन भदन्त ! एवमुच्यते-पद्मवरवेदिका पद्मवरवेदिकेति, किमुक्तं भवति?-पद्मवरवेदिकेत्येवंरूपस्य शब्दस्य तत्रप्रवृत्तौ किं निमित्तमिति एवमुक्ते भगवानाहगौतम! पद्मवरवेदिकायांतत्रतत्रदेशे तस्यैव देशस्यतत्रतत्रएकदेशे वेदिकासु-उपवेशनयोग्यमत्तवारणरूपासु वेदिकाबाहासु-वेदिकापार्वेषु वेइयापुडंतरेसु इति-द्वे वेदिके वेदिकापुटं तेषामन्तराणि तेषु, स्तम्भेषुसामान्यतः, स्तम्भबाहासु-स्तम्भपार्श्वेषु, स्तम्भीशीर्षेषु(स्तम्भाग्रभागेषु स्तम्भपुटान्तरेषु)-द्वौ स्तम्भौ स्तम्भपुटतेषामन्तराणितेषु, सूचीषुफलकसम्बन्धविघटनाभावहेतुपदुकास्थानीयासु तासामुपरि इति तात्पर्यार्थः, सूचीमुखेषु-यत्र प्रदेशे सूची फलकं भित्वा मध्ये प्रविशति तत्प्रत्यासन्नो देशः सूचीमुखं तेषु, तथा सूचीफलकेषु-सूचीभि सम्बन्धिता ये फलकप्रदेशास्तेऽप्युपचारात्सूचीफलकानितेषुसूचीनामधउपरिच वर्तमानेषु, तथा सूचीपुटान्तरेषु द्वेसूच्यौसूचीपुटंतेषामन्तरेषु, पक्षाः पक्षबाहावेदिकैकदेशविशेषाः तेषुबहूनि उत्पलानि-गईभकानि ईषन्नीलानि वा पद्मानि-सूर्यविकासीनि ईषत्श्वेतानि वा, नलिनानि- ईषद्रक्तानि कुमुदानिचन्द्रविकासीनिसुभगानि-पद्मविशेषाः, सौगन्धिकानि-कल्हाराणि पुण्डरीकाणि-श्वेतपद्मानि तान्येवमहान्ति महापुण्डरीकाणिशतपत्राणि-दलशतकलितानिसहस्रपत्राणि-सहस्रदलकलितानि एतौ च पद्मविशेषौ पत्रसङ्ख्याविशेषात् पृथगुपात्तौ, सर्वरत्नमयानि चैतानि, अच्छा इत्यादिविशेषणानिप्राग्वत्, महान्ति-महाप्रमाणानि वार्षिकाणि-वर्षाकाले पानीयरक्षणात॑यानि कृतानि तानि वार्षिकाणि तानि च तानि छत्राणि च २ तत्समानानि प्रज्ञप्तानि, हे श्रमण!-तपः प्रवृत्त ! हे आयुष्मन् !-प्रशस्तजीवित!
-‘से एएणटेण मित्यादि, तदेतेनार्थेन-अन्वर्थेन गौतम ! एवमुच्यते-पद्मवरवेदिका २ तेषु २ यथोक्तरूपेषु यथोक्तरूपाणि पद्मानि पद्मवरवेदिकाशब्दस्य प्रवृत्तिनिमित्तमिति भावः, व्युत्पत्तिश्चैवं-पद्मवरा-पद्मप्रधाना वेदिका पद्मवरवेदिकेति, अथापरञ्च प्रवृत्तिनिमित्तं, किन्तदित्याह-पद्मवरवेदिकायाः शाश्वतंनामधेयंप्रज्ञप्तमिति, अयमभिप्रायः-प्रस्तुतपुद्गलप्रचयविशेषे पद्मवरवेदिकेतिशब्दस्यनिरुक्तिनिरपेक्षाऽनादिकालीना रूढि प्रवृत्तिनिमित्तमिति । 'पउवरवेइया णं भंतेत्ति पद्मवरवेदिका शाश्वती उताशाश्वती ?, "प्रत्यये ङीन वा" इत्यनेन प्राकृतसूत्रेण ङीप्रत्ययस्य वैकल्पिकत्वेन आबन्ततया सूत्रे निर्देशः, किं नित्या उत अनित्येतिभावः, भगवानाह-गौतम! स्याच्छाश्वती स्यादशाश्वती, कथञ्चि नित्याकथञ्चिदनित्येत्यर्थः, स्याच्छब्दो निपातः कथञ्चिदित्येतदर्थवाची, एतदेव सविशेषं जिज्ञासुः पृच्छति
“से केणटेण मित्यादि, सेशब्दोऽथशब्दार्थसच प्रश्ने, केनार्थेन-केन कारणेन भदन्त! एवमुच्यते-यथा स्याच्छाश्वती स्यादशाश्वतीति, भगवानाह-गौतम ! द्रव्यार्थतया शाश्वती, तत्रद्रव्यं सर्वत्रान्वयिसामान्यमुच्यतेद्रवति-गच्छतितान् तान् पर्यायाविशेषानितिवाद्रव्यमिति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org