________________
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् - १/४
२८
शब्देनेति योगः, स च स्फारशब्दो मनः प्रतिकूलोऽपि भवति तत आह
'मनोज्ञेन' मनोऽनुकूलेन, तच्च मनोऽनुकूलत्वं लेशतोऽपि स्यादत आह- 'मनोहरेण' मनांसि श्रोतॄणां हरति - आत्मवशं नयतीति मनोहरो, लिहादेराकृतिगणत्वाद्ययप्रत्ययः तेन, तदपि मनोहरत्वं कुत इत्याह- 'निमित्तकारणहेतुषु सर्वासा विभक्तीनां प्रायो दर्शन' मिति वचनात् तृतीया, ततोऽयमर्थः - प्रतिश्रोतृ कर्णयोर्मनसश्च निर्वृतिकरः- सुखोत्पादकस्ततो मनोहरस्तेन इत्थंभूतेन शब्देन तान् प्रत्यासन्नान् प्रदेशान् सर्वतः समन्तात् आपूरयन्ति २ शतृप्रत्ययान्तस्य शाविदं रूपम् अत एव 'श्रिया' शोभया अतीव २ उपशोभमानानि २ तिष्ठन्ति ।
पुनरस्यां यदस्ति तदुपदर्शयति- 'तस्याः' पद्मवरवेदिकायाः 'तत्र २ देशे तहिं २ इति तस्यैव देशस्य तत्र २ एकदेशे, एतावता किमुक्तं भवति ? यत्र देशे एकस्तत्रान्येऽपि विद्यन्त इति, बहवो हयसङ्घाटा अपि वाच्याः, एते च सर्वे सर्वात्मना रत्नमयाः अच्छा यावत् प्रतिरूप इत्यादि सर्वं प्राग्वत्, एते च सर्वेऽपि हयसङ्घाटादयः पुष्पावकीर्णका उक्ताः, सम्प्रत्येषामेव हयादीनां पङ्क्त्यदिप्रतिपादनार्थमाह- 'एव' मिति, यथाऽमीषां हयादीनामष्टानां सङ्घाटा उक्तास्तथा पङ्क्त्योऽपि वीथ्यो ऽपि मिथुनकानि च वाच्यानि तानि चैवम्- 'तीसे णं पउमवरवेइयाए तत्थ तत्थ देसे तहिं २ बहूआओ हयपंतीओ गयपंतीओ' इत्यादि, नवरमेकस्यां दिशि या श्रेणि सा पङ्क्तिरभिधीयते, उभयोरपि पार्श्वयोरेकैकश्रेणिभावेन यत् श्रेणिद्वयं सा वीथी, एते च वीथीपङ्-ि क्तसङ्घाटाहयादीनां पुरुषाणामुक्ताः, साम्प्रतमेतेषामेव हयादीनां स्त्रीपुरुष-युग्मप्रतिपादनार्थं 'मिहुणाई' इत्युक्तं, उक्तेनैव प्रकारेण हयादीनां मिथुनकानि - स्त्रीपुरुषयुग्म रूपाणि वाच्यानि, यथा तस्यैव देशस्य तत्र तत्र एकदेशे अत्रापि 'तत्थ तत्थ देसे तहिं तहिं' इति वदता यत्रैका लता तत्रान्या अपि बह्वयो लताः सन्तीति प्रतिपादितं द्रष्टव्यं, बह्वयः पद्मलताः - पद्मिन्यः नागलताः - नागा द्रुमविशेषास्त एव लतास्तिर्यकशाखाप्रसराभावात् नागलताः, एवमशोकलताः चम्पकलताः 'वणलता' वणा-तरुविशेषा वासन्तिकालताः अतिमुक्तलताः कुन्दलताः श्यामलताः ।
,
कथंभूता एता इत्याह-'नित्यं' सर्वकालं षट्स्वपि ऋतुष्वित्यर्थः 'कुसुमिताः' कुसुमानि सञ्जातान्यास्विति कुसुमिताः, तारकादिदर्शनादितप्रत्ययः, एवं नित्यं मुकुलिताः मुकुलानि नामकुड्मलानि कलिका इत्यर्थः, तथा नित्यं लवकिताः लव एव लवकः स्वार्थे कः प्रत्ययः स सञ्जात आस्विति लवकिताः, सञ्जातपल्लवलवा इत्यर्थः, तथा नित्यं गुच्छिताः - सञ्जातगुच्छाः, गुच्छश्च पत्रसमूहः, यद्यपि च पुष्पस्तबकयोरभेदो नामकोशेऽधीतस्तथाऽप्यत्र पुष्पपत्रकृतो विशेषो ज्ञेयः नित्यं यमलिताः, यमलं नाम समानजातीययोर्लतयोर्युग्मं तत्सञ्जातमास्विति यमलिताः, नित्यं युगलिताः, युगलं- सजातीयविजातीययोर्लतयोर्द्वन्द्वं, तथा नित्यं विनमिता नित्यं फलपुष्पादिभारेण विशेषेण नमिता- नीचैर्भावं प्रापिताः, तथा नित्यं प्रणमिताः तेनैव नमयितुमारब्धाः, प्रशब्दस्यादिकर्मार्थत्वात्, अन्यथा पूर्वविशेषणादभेदः स्यात्, नित्यं सुविभक्तेत्यादि, सुविभक्तःसुविच्छित्तिकः प्रतिविशिष्टो मञ्जरीरूपो योऽवतंसकस्तद्धराः - तद्धारिण्यः । औपपातिकादौ तु 'सुविभत्तपडिमंजरीवडिंसगधराओ' इति पाठस्तत्र सुविभक्ता - अतिविविक्ता सुनिष्पन्नतया पिण्डयो - लुम्ब्यो मञ्जर्यश्च प्रतीताः, शेषं तथैव, एषः सर्वोऽपि कुसुमितत्वादिको धर्म एकाकस्याः २ लताया उक्तः, साम्प्रतं कासाञ्चिल्लतानां सकल- कुसुमितत्वादिधर्मप्रतिपादनार्थमाह- नित्यं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org