________________
वक्षस्कारः - १
भवइन कयाइं न भविस्सइ भुविं च भवई य भविस्सइ य धुवा नियया सासया अक्खया अव्वया अवट्ठि निच्चा" इति, अत्र व्याख्या - अनन्तरोक्तायाः पद्मवरवेदिकायाः वज्रमया-वज्ररत्नमया नेमाः, नेमा नाम भूमिभागादूर्ध्व निष्क्रामन्तः प्रदेशाः, वज्रशब्दस्य दीर्घत्वं प्राकृततत्वात्, एवमन्यत्रापि द्रष्टव्यं, तथा रिष्ठरत्नमयानि प्रतिष्ठानाना - मूलपादाः, तथा वैडूर्यरत्नमयाः स्तम्भाः, सुवर्णरूप्यमयानि फलकानि पद्मवरवेदिकाङ्गभूतानि, लोहिताक्षरत्नमय्यः सूचयः - फलकद्वयस्थिरसम्बन्धकारिपादुकास्थानीयाः, वज्रमया- सन्धिमेलाः फलकानां । किमुक्तं भवति ? - वज्जरत्नापूरिताः फलकानां सन्धयः, नानामणिमयानि कलेवराणि - मनुष्यशरीराणि, तथा नानामणिमयाः कलेवरसङ्घाटाः - मनुष्यशरीरयुग्मानि सङ्घाटशब्दो युग्मवाची यथा साधुसङ्घाट इति, नानामणिमयानि रूपाणि- हस्त्यादीनां रूपकाणि, रूपसङ्घाटा अपि तथैव, तानि च कानिचिच्छोभार्थं कानिचिद्विनोदार्थं कानिचिच्च ग्दोषनिवारणार्थं यथा राजद्वारादिषु हस्त्यादिरूपाणि कम्पमानलम्बकूर्चकवृद्धरूणि च क्रियन्ते, तथाऽत्र फलकेषु रत्नमयानि सन्तीत्यर्थः, अङ्को-रत्नविशेषस्तन्मयाः पक्षाः - तदेकदेशाः पक्षबाहवोऽपि तदेकदेशभूता एवाङ्कमय्यः, ज्योतीरसं नाम रलं तन्मया वंशाः–महान्तः, पृष्ठवंशा मध्यवलका इत्यर्थः, महतां पृष्ठवंशानामुभयतस्तिर्यक् स्थाप्यमाना वंशाः कवेलुकानि प्रतीतानि, अत्र द्वितीयवंशशब्दा- द्विभक्तिलोपः प्राकृतत्वात् । अक्रमप्राप्तनामपि कवेलुकानां पृष्ठवंशैर्वशैश्च सह यदेकत्र विशेषणे योजनं तत्र ज्योतीरसरत्नमयत्वं हेतुरिति, रजतमय्यः पट्टिकाः - वंशानामपुरि कम्बास्थानीयाः, जातरूपं- सुवर्णविशेषस्तन्मय्यः अवघाटिन्यः - आच्छादनहेतुकम्बोपरिस्थाप्य मानमहाप्रमाणकिलिञ्चस्थानीयाः, वज्रमय्यः अवघाटिनीनामुपरि पुञ्छन्यो - निविडतराच्छादनहेतुश्लक्ष्णतरतृणविशेषस्थानीयाः, सर्वश्वेतं रजतमयं पुञ्छनीनामुपरि कवेलुकानामघ आच्छादनं, सा पद्मवरवेदिका एकैकेन किङ्किणीजालेन किङ्किण्यः- क्षुद्रघण्टिकाः एकैकेन घण्टाजालेनकिङ्किण्यपेक्षया किञ्चिन्महत्यो घण्टाः एकैकेन मुक्ताजालेन - मुक्ताफलमयेन दामसमूहेन एकैकेन मणिजालेन मणिमयेन द्रामसमूहेन एकैकेन 'कनकजालेन' कनकं - पीतरूपः सुवर्णविशेषस्तन्मयेन दामसमूहेन एकैकेन रत्नजालेन - रत्नमयदामसमूहेन, अत्र स्थलजाता मणयो जलजातानि रत्नानीति रत्नमण्योर्भेदः, एकैकेन सर्वरत्नमयपद्मात्मकेन दामसमूहेन, सर्वतः समन्तादिति प्राग्वत्, संपरिक्षिप्ता, एतानि च दामरूपाणि हेमजालादीनि जालानि लम्बमानानि वेदित०, तथाच आह'ते णं जाला' इति, अत्र पुंस्त्वनिर्द्देशः प्राकृतत्वात्तेन तानि जालानि तपनीयम्-आरक्तं सुवर्णं तन्मयो लम्बूसगो - दाम्नामग्रिमभागे मण्डनविशेषो येषां तानी तथा, पार्श्वतः सामस्त्येन सुवर्णस्य प्रतरकेण-पत्रेपा मण्डितानि, अन्तरा अन्तरा लम्बमानहेमपत्रकालङ्कृतानि, तथा नानारूपाणां - जातिभेदेनानेकप्रकाराणां मणीनां रत्नानां च ये विचित्रवर्णा हारा - अष्टादशसरिका अर्द्धहारा-नवसरिकास्तैरुपशोभितः समुदायो येषां तानि तथा, ईषत् - मनाक् अनोयऽन्यंपरस्परसम्प्राप्तानि – असंलग्नानि पूर्वापरदक्षिणोत्तरागतैवतैिर्मन्दायं मन्दायमिति मन्दं मन्दं एज्यमानानि -कम्प्यमानानि “मृशाभीक्ष्णयाविच्छेदे द्वि प्राक्तमबादे" रित्यविच्छेदे द्विर्वचनं यथा पचति पचतीत्यत्र, एवमत्तरत्रापि, ईषत्कम्पनवशात् प्रकर्षत इतस्ततो मनाक् चलनेन लम्बमानानि २, ततः परसंपरं सम्पर्कवशतः ''पझंझमाणा पझंझमाणा' इति शब्दायमानानि २, उदारेण - स्फारेण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
२७