________________
३०
जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् १/४
व्युत्पत्तेः, द्रव्यमेवार्थ - तात्विकः पदार्थ प्रतिज्ञायां यस्य न तु पर्यायाः स द्रव्यार्थः- द्रव्यमात्रास्तित्वप्रतिपादको नयविशेषः तद्भावो द्रव्यार्थता तया - द्रव्यमात्रास्तित्वप्रतिपादकनयाभिप्रायेणेतियावत् शाश्वती, द्रव्यार्थिकनयमतपर्यालोचनायामुक्तरूपस्य पद्मवरवेदिकाया आकारस्य सदाभावाद्, तथा वर्णपर्यायैः - कृष्णादिभिः कन्धपर्यायैः- सुरभ्यादभि रसपर्यायैःतिक्तादिभिः स्पर्शपर्यायैः कठिनत्वादिभि अशाश्वती - अनित्या, तेषां वर्णादीनां प्रतिक्षणं कियतकालानन्तरं वाऽन्यथा अन्यथा भवनात्, अतादवस्थस्य चानित्यत्वात्, न चैवमपि भिन्नाधिकरणे नित्यत्वानित्यत्वे, द्रव्यपर्याययोर्भेदाभेदोपगमात्, अन्यथोभयोरप्यसत्वापत्तेः, तथाहि - शक्यते वक्तु परपरिकल्पितं द्रव्यमसत्, पर्यायव्यतिरिक्तत्वात्, बालत्वादिपर्यायशून्यवन्ध्यासुतवत्, तथा परपरिकल्पिताः पर्याया असन्तो, द्रव्यव्यतिरिक्तत्वात्, वन्ध्यासुतगतबालत्वादिपर्यायवत्, उक्तं च
|| 9 ||
“द्रव्यं पर्यायवियुतं, पर्याया द्रव्यवर्जिताः । क्व कदा केन किंरूपा, दृष्टा मानेन केन वा ।।"
इति कृतं प्रसङ्गेन, 'से एएणट्टेण 'मित्याद्युपसंहारवाक्यं सुगमं, इह द्रव्यास्तिकनयवादी स्वमतप्रतिष्ठापनार्थमेवमाह - " नासतो विद्यते भावो, नाभोव विद्यते सतः" इति वचनात्, यौ तु श्येते प्रतिवस्तु उत्पादविनाशौ तदाविर्भाव- तिरोभावमात्रं, यथा सर्पस्य उत्फणत्वविफणत्वे, तस्मात् सर्वं वस्तु नित्यमिति, एवं च तन्मतचिन्तायां संशयः - किं घटादिवत् द्रव्यार्थतया शाश्वती उत सकलकालमेवंरूपेति ? ततः संशयापनोदार्थ० भगवन्तं भूयः पृच्छति
'पउमवरवेइयाण'मित्यादि, पद्मवरवेदिका णमिति पूर्ववत् भदन्त ! - परमकल्याणयोगिन् कियच्चिरं - कियन्तं कालं यावद्भवति, एवंरूपा कियन्तं कालमवतिष्ठते इति, भगवानाह - गौतम न कदाचिन्नासीत्, सर्वदैवासीदितिभावः, अनादित्वात्, तथा न कदाचिन्न भवति, सर्वदैव वर्त्तमानकालचिन्तायां भवतीति, भावः, सर्वदैव भावात्, तथा न कदाचिन्न भविष्यति, किन्तु भविष्यच्चिन्तायां सर्वदैव भविष्यतीति प्रतिपत्तव्यं, अपर्यवसितत्वात्, तदेवं कालत्रयचिन्तायां नास्तित्वप्रतिषेधं (विधाय) सम्प्रत्यस्तित्वं प्रतिपादयति- 'भुविं च' इत्यादि, अभूच्च भवति च भविष्यति चेति, एवं त्रिकालावस्थायित्वात् ध्रुवा मेर्वादिवत् ध्रुवत्वादेव सदैव स्वस्वरूपेति नियता, नियतत्वादेव च शाश्वती - शश्वद्भवनस्वभावा शाश्वत्वादेव च सततगङ्गासिन्धुप्रवाहप्रवृत्तावपि पौण्डरीक (पद्म) हृद इवानेकपुद्गलविघटनेऽपि तावनमात्रापुद्गलोचटनसम्भवात् अक्षया- न विद्यते क्षयो - यथोक्तस्वरूपाकारपरिभ्रंशो यस्याः सा अक्षयत्वादेवाव्यया- अव्ययशब्दवाच्या, मानगपि स्वरूपचलनस्य जातुचिदप्यसम्भवात्, अव्ययत्वादेव स्वप्रमाणेऽवस्थिता मानुषोत्तरपर्वताद्बहि समुद्रवत्, एवं स्वस्वप्रमाणे सदाववस्थानेन चिन्त्यमाना नित्या धर्मास्तिकायादिवत् । अथ जगत्या उपरि पद्मवरवेदिकायाः परतो यदस्ति तदावेदयति
मू. (५) तीसे णं जगईए उप्पिं बाहिं पउमवरवेइयाए एत्थ णं महं एगे वनसंडे पन्नत्ते, देसूणाई दो जोअणाई विक्खंभेणं जगईसमए परिक्खेवेणं वनसंडवण्णओ नेयव्वो ।
बृ. 'तीसे ण' मिति प्राग्वत्, जगत्या उपरि पद्मवरवेदिकायाः बहिः परतो यः प्रदेशस्तत्र, एतस्मिन् णमिति पूर्ववत्, महानेको वनखण्डः प्रज्ञप्तः, अनेकजातीयानामुत्तमानां महीरुहाणां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org