SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ ३१० जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ४/१४० योजनानां सप्त च कला सार्धाः योजनानां ३३७६७ कला ७ कलाद्धं च, एषामढे षोडश योजनसहस्राणि अष्टौ शतानि त्र्यशीत्यधिकानियोजनानांत्रयोदशचकलाः सपादाः इत्येवंरूपा बाहा विदेहानां सम्भवति, अत्र तु त्रयस्त्रिंशत्सहस्रादिरूपा उक्ता तत्किमिति?, उच्यते, सर्वत्र वैताठ्यादिषु पूर्वबाहा अपरबाहा च यावती दक्षिणतस्तावती उत्तरतोऽपिपरं व्यवहितत्वेन सा सम्मील्य नोक्ता, इयं तु सम्मिलितत्वात् संमील्यैवोक्ता सूत्रे दक्षिणबाहाप्रमामैवोत्तरबाहेत्येनमर्थं बोधयितुमिति अथास्य जीवामाह' 'तस्सजीवा' इत्यादि, तस्य विदेहस्योभयोः पार्श्वयोः एतदेव विवृणोति-'उत्तरदाहिणेणं'ति उत्तरपार्वे दक्षिणपार्शे वा एकं योजनलक्ष अष्टपञ्चाशच योजनसहस्राणि एकं च योजनशतं त्रयोदशोत्तरंषोडशचैकोनविंशतिभागान् योजनस्य किंचिद्विशेषाधिकान्परिक्षेपेण, यच्चान्यत्र सार्धाः षोडशकला उक्तास्तदत्र किंचिद्विशेषाधिकपदेन संगृहीतं, उध्धरितकलांशास्तुनविवक्षिता इति, अत्राधिकार्थसूचनार्थं करणान्तरं दर्श्यते-जम्बूद्वीपपरिधिस्तिम्रो लक्षाः षोडश सहस्राणि द्वेशतेसप्तविंशत्यधिकेयोजनानांक्रोशत्रयमष्टाविंशंधनुःशतंत्रयोदशांगुलान्येकम गुलंयोजन ३१६२२७ क्रोश ३ धनूंषि १२८ अंगुल १३ अर्धागुलं, अत्र योजनराशिरर्धीक्रियते, लब्धमेकं लक्षमष्टापञ्चाशत्सहस्राणि शतमेकंत्रयोदशाधिकंयोजन १५८११३, यत्त्वेकंयोजनं शेषंतत्कलाः क्रियन्ते लब्धाः एकोनविंशति क्रोशत्रये च लब्धाः सपादाश्चतुर्दश कलाः उभयमीलने जाताः सपादास्त्रयस्त्रिंशतकलाःतासामर्द्धलब्धाःसार्धाः षोडशकलाः, यश्चकलायाअष्टमोभागोऽधिक उद्धरति यानिचधनुषाम? लब्धानिचतुःषष्टिर्धनूषियानिच सार्द्धत्रयोदशांगुलानाम॰पादोनानि सप्तांगुलानि तदेतत्सर्वमल्पत्वान्न विवक्षितमिति। अधुना विदेहवर्षस्य भेदान्निरूपयन्नाह-‘महाविदेहेण'मित्यादि, महाविदेहं वर्षचतुर्विधंचतुष्प्रकारं पूर्वविदेहाद्यन्यतरस्य महाविदेहत्वेन व्यपदिश्यमानत्वात्, अतएव चतुर्षु-पूर्वापरविदेहदेवकुरुत्तरकुरुरूपेषु क्षेत्रविशेषेषु प्रत्यवतारः-समवतारो विचारणीयत्वेन यस्यतत्तथा, चतुर्विधस्य पर्यायो वाऽयं, तत्र पूर्वविदेहो यो मेरोर्जम्बूद्वीपगतः प्राग्विदेहः, एवं पश्चिमतः सोऽपरविदेहः दक्षिणतो देवकुरुनामा विदेहः उत्तरतस्तुउत्तरकुरुनामा विदेहः, ननु पूर्वापरविदेहयोः समानक्षेत्रानुभावकत्वेनमहाविदेहव्यपदेश्यताऽस्तु, देवकुरुत्तरकुरूणांत्वकर्मभूमिकत्वेन कथं महाविदेहत्वेन व्यपदेशः? प्रस्तुतक्षेत्रयोर्भरताद्यपेक्षया महाभोगत्वात् महाकायमनुष्ययोगित्वान्महाविदेहदेवाधिष्ठेयत्वाच्च महाविदेहवाच्यता समुचितैवेति । अथास्य स्वरूपं वर्णयितुमाह 'महाविदेह'इत्यादि, प्राग्वत्, अत्र यावत्करणात् 'आलिंगपुक्खरे इ वा जाव नानाविहपञ्चवण्णेहिं मणीहिं तणेहि अ उवसोभिए'इति, सम्प्रत्यत्र मनुजस्वरूपमाह-'महाविदेहे ण'मित्यादि, प्राग्वत्, आभ्यां सूत्राभ्यामस्य कर्मभूमित्वमभाणिअन्यथा कर्षकादिप्रवृत्तानांतृणादीनां कृत्रिमत्वं तद्वर्षजाताना च मनुष्याणा पञ्चमगतिगामित्वं न स्यात्, अथास्य नामार्थं प्रश्रयन्नाह_ 'सेकेणटेण'मित्यादि, प्राग्वत्, प्रश्नसूत्रंसुगम, उत्तरसूत्रे-गौतम! महाविदेहोवर्ष भरतैरावतहैमवतहैरण्यहरिवर्षरम्यकवर्षेभ्यःआयामविष्कम्भसंस्थानपरिणाहेन, समाहारादेकवद्भावः, तत्रायामादित्रिकं प्रतीतं, परिणाहः-परिधिः, अत्र च व्यस्ततया विशेषणनिर्देशेऽपि योजना यथासम्भवं भवतीत्यायामेन महत्तरक एव लक्षप्रमाणजीवाकत्वात्, तथा विष्कम्भेन विस्तीर्णतरक Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003317
Book TitleAgam Suttani Satikam Part 13 Jambudwip pragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy