________________
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ४/१३७
द्विगुणविष्कम्भकत्वादिति । अधुनाऽस्य बाहादित्रयमाह - " तस्स बाहा' इत्यादि, 'तस्स जीवा' इत्यादि, 'तस्स धनु' मित्यादि, सूत्रत्रयमपि व्यक्तं ॥ अथास्य स्वरूपं पिपृच्छिषुराह - 'हरिवास'इत्यादि, हरिवर्षस्य वर्षस्य भगवन् ! कीदृश आकारभावप्रत्यवतारः प्रज्ञप्तः ?, गौतम ! बहुसमरम - णीयो भूमिभागः प्रज्ञप्तः, अत्रातिदेशवाक्यमाह - यावन्मणिभिस्तृणैश्चोपशोभितः, एवं मणीनां तृणानां च वर्णों गन्धः स्पर्श शब्दश्च भणितव्यः, पद्मवरवेदिकानुसारेणेत्यर्थःऋः, अत्र जलाशयस्वरूपं निरूपयन्नाह
'हरिवासे ण' मित्यादि, क्षेत्रस्य सरसत्वेन तत्र तत्र देशप्रदेशेषु क्षुद्रिकादयो जलाशया अखाता एव सन्तीत्यर्थः, अत्रैकदेशग्रहणेन सर्वोऽपि वाप्यादिजलाशयालापको ग्राह्यः, अत्र कालनिर्णयार्थमाह- 'एवं जो सुसमाए' इत्यादि, एवंउक्तप्रकारेण वर्ण्यमाने तस्मिन् क्षेत्रे यः सषमायाः-अवसर्पिणीद्वितीयारकस्यानुभावः स एवापरिशेषः - सम्पूर्णो वक्तव्यः, सुषमाप्रतिभागनामकावस्थितकालस्य तत्र सम्भवात् ।
अथास्य क्षेत्रस्य विभाजकगिरिमाह - 'कहि ण 'मित्यादि, प्रश्नसूत्रं व्यक्तं, उत्तरसूत्रे हरितो- हरिसलिलाया महानद्याः पश्चिमायां हरिकान्ताया महानद्याः पूर्वस्यां हरिवर्षस्य २ बहुमध्यदेशभागे अत्रान्तरे विकटापातिनामा वृत्तवैताढयपर्वतः प्रज्ञप्तः, अत्र निगमयंल्लाघवार्थमतिदेशसूत्रमाह-एवं विकटापातिवृत्तवैताढ्यवर्णने क्रियमाणे य एव शब्दापातिनो विष्कम्भोच्चत्वोद्वेधपरिक्षेपसंस्थानानां वर्णव्यासो - वर्णकग्रन्थविस्तरः चकारात्तत्रत्यप्रासादतस्वामिराजधान्यादिसंग्रहः, विकटापातिप्रभाणि विकटापातिवर्णाभानि च तेन विकटापातीति नाम, अरुणश्चात्र देव आधिपत्यं परिपालयति तेन तद्योगादपि तथा नाम प्रसिद्धम्, आहविसध्शनामकदेवाद्विकटापातीति नाम कथमुपपद्यते ? उच्यते, अरुणो विकटापातिपतिरिति तत्कल्पपुस्तकादिषु आख्यायते, सामानिकादीनामप्यनेनैव नाम्ना प्रसिद्ध इति सामर्थ्याविकटापातीति, सुस्थितलवणोदाधिपतेर्गीतमाधिपतित्वाद् गौतमद्वीपइव, बृहत्क्षेत्रविचारादिषु हैरण्यवते विकटापाती हरिवर्षे गन्धापातीत्युक्तं, तत्वं तु केवलिगम्यं, एवं यावद्दक्षिणस्यां दिशि मेरो राजधानी नेतव्या, अथ हरिवर्षनामार्थं पिपृच्छिषुराह
'सेकेणट्टेणं' इत्यादि, प्रश्नसूत्रं सुगमं, उत्तरसूत्रे हरिवर्षे २ केचन मनुजा अरुणारक्तवर्णाः, अरुणं च चीनपिष्टादिकं आसन्नवस्तूनि अरुणप्रकाशं न कुरुते अभास्वरत्वाद् इमेच न तथा इत्याह-अरुणावभासा इति, केचन श्वेताः णं पूर्ववत् शङ्खदलानि - शङ्खखण्डास्ते हि अतिश्वेताः स्युस्तेषां सन्निकाशाः - सध्शाः तेन तद्योगाद्धरिवर्षं क्षेत्रमुच्यते, कोऽर्थः ? - हरिशब्देन सूर्यश्चन्द्रश्च तत्र केचन मनुष्याः सूर्य इवारुणा अरुणावभागाः, सूर्यश्चात्र रक्तवर्णप्रस्तावादुदगच्छन् गृह्यते, केचन चन्द्र इव श्वेता इति, हरय इव हरयो मनुष्याः, साध्यवसानलक्षणयाऽभेदप्रतिपत्ति, ततस्तद्योगात् क्षेत्रं हरय इति व्यपदिश्यते, हरयश्च तद्वर्षं च हरिवर्षं, यदा च मनुष्ययोगात् हरिशब्दः क्षेत्रे वर्तते तदा स्वभावाद्बहुवचनान्तः प्रयुज्यते, यदाह तत्वार्थमूलटीकाकृद् विदेहाश्च पञ्चालादितुल्या" यदिवा हरिवर्षनामा अत्र देव आधिपत्यं परिपालयति तेन तद्योगदपि हरिवर्षं । अथानन्तरोक्तं क्षेत्रं निषधाद्दक्षिणस्यामुक्तं तर्हि स निषधः क्वास्तीति पृच्छति
३०४
-
मू. (१३८) कहि णं भंते! जम्बूद्दीवे २ निसहे नामं वासहरपव्वए पन्नत्ते ?, गोअमा ! महाविदेहस्स वासस्स दक्खिणेणं हरिवासस्स उत्तरेणं पुरत्थिमलवणसमुद्दस्स पञ्चत्थिमेणं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org