________________
२९६
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ४/१३० ___ अथात्र पद्मवरवेदिकाद्याह- ‘से ण'मित्यादि प्रकटं, अत्र यदस्ति तत्कथनायोपक्रमते-'सिद्धाययण'मित्यादि, निगद-सिद्धं, नवरं प्रथमयावत्पदेन वैताढयगतसिद्धायतनकूटस्येवात्रवर्णको ग्राह्यः, द्वितीयेन तदग-तसिद्धायतनादिवर्णक इति॥अथात्रैव क्षुद्रहिमवदिरिकूटवक्तव्यमाह-क्वभदन्त! क्षुद्रहिमवति वर्षधरपर्वते क्षुद्रहिमवत्कूटं नाम कूटं प्रज्ञप्तम्?, 'गौतमे त्यादि उत्तरसूत्रं प्राग्वत्, नवरं एवं जो चेवे'त्यादि अतिदेशसूत्रे ‘एव'मित्युक्तप्रकारेण य एव सिद्धायतनकूट- स्योच्चत्वविष्कम्भाभ्यां युक्त- परिक्षेपः उच्चत्वविष्कम्भपरिक्षेपः, मध्यपदलोपीसमासः, स एवइहापि हिमवतकूटे बोध्य इत्यर्थः, इदं च वचनं उपलक्षणभूतं तेन पद्मवरवेदिकादिवर्णनं समभूमिभाग-वर्णनं च ज्ञेयं, कियत्पर्यन्तमित्याह
___ यावबहुसमरमणीयस्यभूमिभागस्य बहुमध्यदेशभागेअत्रान्तरेमहानेकःप्रासादावतंसकः प्रज्ञप्तः, प्रासादानां-आयामाद्विगुणोच्छ्रितवास्तुविशेषाणामवतंसक इव-शेखरकइवप्रासादावतंसकः प्रधानप्रासाद इत्यर्थः, सच प्रासादो द्वाषष्टिं योजनान्यद्धयोजनं च उच्चत्वेन एकत्रिंशद् योजनानिक्रोसंचविष्कम्भेन समचतुरस्रत्वादस्यायामचिन्ता सूत्रकृतान कृता, तत्रहेतुर्वैताढयकूटगतप्रासादाधिकारे निरूपित इति ततो ज्ञेयः, कीश इत्याह-अभ्युदगता-आभिमुख्येन सर्वतो विनिर्गता उत्सृता-प्रबलतयासर्वासुदिक्षुप्रसृतायद्वाअभ्रे-आकाशेउदगता उत्सृता-प्रबलतया सर्वतस्तिर्यक्प्रसृता एवंविधायाप्रभा तयासितइव-बद्धइवतिष्ठतीति गम्यते, अन्यथा कथमिव सोऽत्युच्चैर्निरालम्बस्तिष्ठतीति भावः, अत्र हि उत्प्रेक्षया इदं सूचितं भवति-ऊर्ध्वमधस्तिर्यक् आयततया याः प्रासादप्रभास्ताः किल रज्जवस्ताभिर्बद्ध इति, यदिवा प्रबलश्वेतप्रभापटलतया ग्रहसित इव-प्रकर्षेण हसित इवेति, विविधा-अनेकप्रकारा येमणयो रत्नानि च, मणिरत्नयोर्भेदश्चात्र प्राग्वत्, तेषां भक्तिभिः-विच्छित्तिभिश्चित्रो-नानारूप आश्चर्यवान् वा, वातोद्भूतावायुकम्पिता विजयः-अभ्युदयस्तसंसूचिकावैजयन्तीनाम्न्योयाः पताकाः अथवा विजया इति वैजयन्तीनांपावकणिका उच्यन्तेतप्रधानावैजयन्त्यः-पताकास्ताएव विजयवर्जितावैजयन्त्यः छत्रातिच्छत्राणि-उपर्युपरिस्थितान्यातपत्राणि तैः कलितः तुङ्ग उच्चैस्त्वेन सार्द्धद्वाषष्टियोजनप्रमाणत्वात्।
अतएव गगनतलमभिलङययद्-अनुलिखच्छिखरं यस्य स तथा,जालानि-जालकानि गृहभित्तिषु लोके यानि प्रतीतानि तदन्तरेषु विशिष्टशोभानिमित्तं रत्नानि रचना वा यस्मिन् स तथा, सूत्रे चात्र विभक्तिलोपः प्राकृतत्वात्, पञ्जरादुन्मीलित इव-बहिष्कृत इव, यथा किमपि वस्तुवंशादिमयप्रच्छादनविशेषादहि कृतमत्यन्तमविनष्टच्छायं भवति एवंसोऽपिप्रासादावतंसक इति भावः,अथवाजालान्तरगतरत्नपअरै-रत्नसमुदायविशेषैः उन्मीलित इव उन्मिषितलोचन इवेत्यर्थः, माणकनकमयस्तूपिकाक इतिप्रतीतं, विकसितानि-विकस्वराणि शतपत्राणि पुण्डरीकाणि च-कमलविशेषाःद्वारादिषु तैश्चित्रो-नानारूपआश्चर्यवान्वा, नानामणिमयदामालङ्कृ त इति व्यक्तं, अन्तर्बहिश्च श्लक्ष्णो-मसृणः स्निग्ध इत्यर्थः, तपनीयस्य-रक्तसुवर्णस्य रुचिरा यावालुका-कणिकास्तासाप्रस्तट:-प्रतरः पाङ्गणेषु यसयस तथा,शेषंपूर्ववत्, 'तस्सण मित्यादि, व्यक्तं, अथास्य नामान्वर्थं व्याचिख्यासुराह'सेकेणटेण मित्यादि, अथ केनार्थेन भदन्त! एवमुच्यते-क्षुद्रहिमवत्कूटं २ ?, गौतम!
For Private & Personal Use Only
Jain Education International
For
www.jainelibrary.org