________________
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ३ / १२८
कर्णिकामानाद्याह - “सा ण" मित्यादि, सा-कर्णिका अर्द्धयोजनमायामेन विष्कम्भेन च क्रोशं बाहल्येन - पिण्डेन सर्वात्मना कनकमयी, अत एव कनकमयीति पूर्वविशेषणेना वयवविभागेऽपि कनकमयत्वं स्यादित्याशङ्का निरस्ता, 'अच्छा' इत्येकदेशेन सण्हा इत्यादिपदान्यपि ज्ञेयानि, तेषां व्याख्या च प्राग्वत् ।
'तीसे ण' मित्यादि, एतानि सर्वाण्यपि निगदसिद्धानि, शयनीयवर्णकश्चायं जीवाभिगभोक्तः - तस्स णं देवसयणिज्जस्स अयमेआरूवे वण्णावासे पं०, तंजहा - नानामणिमया पडिपाया सोवण्णिआ पाया नानामणियाइं पायसीसगाई जम्बूणयामयाई गत्ताइं वइरामया संधी णाणामणिमएचिच्चे रययामई तूली लोहिअक्खा मया विब्वोअणा तवणिज्जमईओ गंडोवहाणियाओ' इति 'सेणं सयणिजे सालिंगणवट्टइए उभओविब्बो अणे उभओ उण्णए मज्झेणयगम्भीरे गंगापुणिणवालुआउद्दालसालिसएओअविअखोमदुगुल्लपट्टपडिच्छायणे आइणगरूअबूरणवणी अतूलतुल्लफासे लसुविरइअरयत्ताणे रत्तंसुअसंवुडे सुरम्मे पासादीए ४' इति, अत्र व्याख्या - तस्य देवशयनीयस्यायमेतद्रूपो वर्णव्यासः प्रज्ञप्तः, तद्यथा - नानामणिमयाः प्रतिपादाः, मूलपादानां प्रतिविशिष्टोपष्टम्भकरणाय पादाः प्रतिपादाः, सौवर्णिकाः - सुवर्णयाः पादाः - मूलपादाः, जम्बूनदमयानि गात्राणि - ईषादीनि, वज्रमया-वज्ररत्नपूरिताः सन्धयः ।
-
'नानामणिमए चिच्छे' इति चिचं नाम व्यूतं विशिष्टं वानमित्यर्थः, रजतमयी तूली लोहिताक्षमयानि विव्वोअणा इति-उपधानकानि उच्छीर्षकाणीतियावत्, तपनीयमय्यो गण्डोपधानिकाः गल्लमसूरकाणीत्यर्थः तच्छ्यनीयं सह आलिङ्गन वर्त्या शरीरप्रमाणेनोपधानेन यत्तत्तथा उभयतः - उभौ शिरोऽन्तपादान्तावाश्रित्य विव्वोअणेउपधाने यत्र तत्तथा, उभयत उन्नतं मध्ये नतं च तत् नम्रत्वात् गम्भीरं च महत्वात् तत्तथा, गङ्गापुलिनवालु कायाः अवदालो - विदलनं पादादिन्यासे अधोगमनमिति तेन सालिसे इति - सध्शकं यत्तत्तथा, तथा 'ओअविअ'त्ति विशिष्टं परिकर्म्मितं क्षौमं - कार्पासिकं दुकूलं-वस्त्र तदेव पट्टः स प्रतिच्छादनं - आच्छादनं यस्य तत्तथा, 'आईणगे 'त्यादि, प्राग्वत्, सुविरचितं रजस्नाणं- आच्छादनविशेषोऽपरिभोगावस्थायां यत्र तत्तथा, रक्तांशुकेन- मशकदंशादिनिवारणार्थकमशकगृहाभिधानवस्तरविशेषेण संवृतं, अत एव सुरम्यं, 'पासा - दीए' इत्यादि पदचतुष्कं प्राग्वत् । अथास्य प्रथमपरिक्षेपमाह
'सेण 'मित्यादि, तत्पद्ममन्येनाष्टशतेन पद्मानां 'तदर्द्धेच्चत्वप्रमाणमात्राणां' तस्य मूलपद्मप्रमाणस्यार्द्ध - अर्द्धरूपा उच्चत्वे-उच्छ्रये प्रमाणेच आयामविस्तारबाहल्यरूपे मात्रा - प्रमाणं येषां तानि तथा तेषां सर्वतः समन्तात् संपरिक्षिप्तं, अत्र जलोपरितनभागे उच्चतवस्य व्यवहारप्राप्तस्य विवक्षणादर्द्धप्रमाणं सम्भवत्यन्यथा जलावगाहसहितोच्चत्वविवक्षायामुत्तरसूत्रे सातिरेकपञ्चयोजनानि इति वक्तव्यं स्यात् सामान्यतः उक्तमेव मानं व्यनक्ति - ' ते ण' मित्यादि, प्रागुक्तप्रायं, एषां वर्णकमाह- 'तेसि ण' मित्यादि, व्यक्तं, 'साण' मित्यादि, इदमपि व्यक्तं, 'तीसे ण' मित्यादि, व्यक्तं, एषु च श्रीदेव्या भूषणादिवस्तूनि तिष्ठन्ति इति सूत्रानुक्तोऽपि विशेषो बोध्यः ।
"
अथ द्वितीयपद्मपरिक्षेपमाह - 'तस्स णं' तसय- मूलपद्मस्यापरोत्तरस्यां वायव्यकोणे उत्तरस्यां उत्तरपूर्वस्यां - ईशानकोणे च सर्वसङ्कलनया तिसृषु दिक्षु अत्रान्तरे श्रिया देव्याश्चतुर्णां सामानिकसहस्राणां चत्वारि प्रद्मसहस्राणि प्रज्ञप्तानि, तस्य पद्मस्य पूर्वस्यां दिशि अत्र श्रियाश्चतसृणां
For Private & Personal Use Only
www.jainelibrary.org
२८४
Jain Education International