________________
वक्षस्कारः - ४
२८३
प० मज्झिमए पउमपरिक्खेवे चत्तालीसं पउमसयसाहस्सीओ प० बाहिरए पउमपरिक्खेवे अडयालीसं पउमसयसाहस्सीओ प० एवामेव सपुव्वावरेणं तिहिं पउमपरिक्खेवेहिंएगा पउमकोडी तीसं च पउमसयसाहस्सीओ भवंतीति अक्खायं । से केणद्वेणं भंते! एवं वुच्चइ-पउमद्दहे २ ?, गोअमा ! पउमद्दहे णं तत्थ २ देसे तहिं २ बहवे उप्पलाई जाव सयसहस्सपत्ताइं पुणद्दहप्पमाई पउमद्दहवण्णाभाई सिरी अइत्थ देवी महिद्धीआ जाव पलिओवमट्ठिईआ परिवसइ, से एएणट्टेणं जाव अदुत्तरं च णं गोअमा ! पउमद्दहस्स सासए नामव्वेज्जे पन्नत्ते न कयाइं नासि न० ।
वृ. अथैतन्मध्यवर्त्तिह्रदस्वरूपनिरूपणायाह - 'तस्स ण' मित्यादि, तस्य - क्षुद्रहिमवतो बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागे अत्रावकाशे एको महान् पद्मद्रहो नाम द्रहः पद्मद्रहो नाम ह्रदो वा प्रज्ञप्तः, पूर्वापरायत उत्तरदक्षिणविस्तीर्ण एकं योजनसहस्रमायामेन पंच योजनशतानि विष्कम्भेन दश योजनान्युद्वेधेन-उण्डत्वेन अच्छोऽनाविलजलत्वात्, श्लक्ष्णः सारवज्रादिमयत्वात्, रजतमयकूल इति व्यक्तं, अत्र यावत्करणात् इदं द्रष्टव्यं - 'समतीरे वइरामयपासाणे तवणिज्जतले सुवण्णसुब्भरययामयवालुए वेरुलिअमणिफालि अपडलपच्चोअडे सुहोयारे सुहुत्तारे नानामणितित्थसुबद्धे चाउकोणे अणुपुव्वसुजायवप्पगंभीरसीअलजले संछन्नपत्तभिसमुणाले बहुउप्पलकुसुअसुभगसोगंधि अपुंडरी असयवत्तफुल्लकेसरोवचिए छप्पयपरिभुज्जमाणकमले अच्छविमलसलिलपुण्णे परिहत्थभमंतमच्छकच्छभअणेगसउणमिहुणपरिअरिए' इति, पासादीए अत्र यावत्पदात् 'दरिसणिजे अभिरूवे' इति ।
एतद्व्याख्या तु जगत्युपरिगतवाप्यादिवर्णकाधिकारतो ज्ञेयेति, 'सेण' मित्यादि, स पद्मद्रहः एकया पद्मवरवेदिकया एकेन च वनखण्डेन सर्वतः समन्तात् संपरिक्षिप्तः, वेदिकावनखण्डवर्णको भणितव्यः, प्राग्वदित्यर्थः, 'तस्स ण'मित्यादि व्यक्तं, 'तेसि ण' मित्यादि, सर्वं प्राग्वत्, नवरं नानामणिमयेत्ति वर्णकैकदेशेन पूर्णस्तोरणवर्णको ग्राह्यः, अथात्र पद्मस्वरूपमाह - 'तस्स ण' मित्यादि, तस्य - पद्मद्रहस्य बहुमध्यदेशभागः अत्रान्तरे महदेकं पद्मं प्रज्ञप्तं, एकं योजनमायामतो विष्कम्भतश्च अर्द्धयोजनं बाहल्येन - पिण्डेन दश योजनान्युद्वेधेन - जलावगाहेन द्वौ क्रोशावुच्छ्रितं जलान्तात् - जलपर्यन्तात्, एवं सातिरेकाणि दश योजनानि सर्वाग्रेण प्रज्ञप्तानि, जलावगाहोपरितनभागसत्ककमलमानमीलने एतावत एव सम्भवात् । 'से ण' मित्यादि, तत्पद्ममेकया जगत्याप्राकारकल्पया सर्वतः समन्तात् संपरिक्षिप्तं, सा च जगती जम्बूद्वपजगतीप्रमाणा वेदितव्या, एतच्च प्रमां जलादुपरिष्टाद् ज्ञेयं, दशयोजनात्मकजलावगाहप्रमाणस्याविवक्षितत्वात्, गवाक्षकटकोऽपिजालकसमूहोऽपि तथैव प्रमाणेन उच्चत्वेनार्द्धयोजनं पञ्चधनुःशतानि विष्कम्भेनेत्यर्थः ।
अथ पद्मवर्णकमाह-'तस्स' त्ति तस्य - पद्मस्यायमेतद्रूपो वर्णव्यासः प्रज्ञप्तः, तद्यथावज्रमयानि मूलानि - कन्दादधस्तिर्यग्नर्गतजटासमूहावयवरूपाणि अरिष्ठरत्नमयः कन्दोमूलनालमध्यवर्ती ग्रन्थि वैडूर्यमयं नालं- कन्दोपरि मध्यवर्त्यवयवः वैडूर्यमयानि बाह्यपत्राणि, अत्रायं विशेषो बृहत्क्षेत्राविचारवृत्यादौ - बाह्यानि चत्वारि पत्राणि वैडूर्यमयानि शेषाणि तु रक्त सुवर्णमयानि, जम्बूनदं - ईषद्रक्तस्वर्णं तन्मयान्यभ्यन्तपत्राणि, सिरिनिलयमिति क्षेत्रविचावृत्ती तु पीतस्वर्णमयाव्युक्तानि, तपनीयमयानि - रक्तस्वर्णयानि केसराणि -कर्णिकायाः परितोऽवयवाः नानामणिमयाः पुष्करास्थिभागाः कमलबीजविभागाः कनकमयी कर्णिका ० - बीजकोशः, अथ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org