________________
वक्षस्कारः-४
२८५
महत्तरिकाणां चत्वारि पद्मानिप्रज्ञप्तानि, अत्र प्राग्व्यावर्णितविजयदेव सिंहासनपरिवारानुसारेण पार्षद्यादिपद्मसूत्राणिवक्तव्यानि, सुगमत्वाच्च न विव्रियन्ते, यावत्पश्चिमायांसप्तानीकाधिपतीनां सप्तपद्मानि।अथ तृतीयपद्मपरिक्षेपसमयः-तस्य मुख्यपद्मस्य चतसृणां दिशांसमाहारश्चतुर्दिक तस्मिन् चतुर्दिशि सर्वतः समन्तात्, अत्रान्तरे श्रिया देव्याः षोडशानामात्मरक्षकदेवसहस्राणां षोडश पद्मसहस्राणि, तथाहि-चत्वारि पूर्वस्यां चत्वारि दक्षिणस्यां एवं पश्चिमोत्तरयोः । अथोक्तव्यति-रिक्ताः अन्येऽपि त्रयः परिवेषाः सन्तीत्याह
से णं पउमे' इत्यादि, तत्पद्मं त्रिभिरुक्तव्यतिरिक्तैः पद्मपरिक्षेपैः सर्वतः समन्तात् सम्परिक्षिप्तं, तद्यथा-अभ्यन्तरकेण-अभ्यन्तरभवेन मध्यमकेन-मध्यभवेन बाहिरकेण–बहिभवेन, एतदेवव्यनक्ति-अभ्यन्तरपद्मपरिक्षेपे द्वात्रिशत्पद्मानांशतसहस्राणि-लक्षाणि मध्यमके चत्वारिंशत्पद्मलक्षाणि बाह्येऽष्टत्वारिंशत्पद्मलक्षाणि प्रज्ञप्तानि, इदं च पद्मपरिक्षेपत्रिकं आभियोगिकदेवसम्बन्धिबोध्यं, अतएव भिन्नत्रिकख्यापनपरंसूत्रं निर्दिष्टं, अन्यथा सूत्रकृत् चतुर्थपञ्चमषष्ठपरिक्षेपाः इत्येवाकथयिष्यत्, ननुतर्हि आभियोगिकजातीयानामेक एवात्मरक्षकाणामिव वाच्यः,उच्ये, उच्चमध्यनीचकार्यनियोज्यत्वेनाभियोगिकानां भिन्नत्वेनपरिक्षेपस्यापिभिन्नत्वात्, अत परिक्षेपत्रिकस्य पद्मसर्वाग्रमाह___एवमेव-उक्तन्यायेन सपूर्वापरेण-सपूर्वापरसमुदायेन त्रिभिः, पद्मपरिक्षेपैरेका पद्मकोटी विंशतिश्च पद्मलक्षाणि भवन्तीत्याख्यातं मयाऽन्यैश्च तीर्थकृभिः, सङ्ख्यानयनं च स्वयमभ्यूह्यं, षणं पद्मपरिक्षेपाणांमुख्यपद्येन सह मीलने सैव सङ्ख्या पञ्चाशत्सहस्रैकशतविंशत्यधिका ज्ञातव्या, ननुकमलानि कमलिन्याः पुष्परूपाणिभवन्ति, मूलं कन्दश्च कमलिन्याएव भवतः, नतुकमलस्य, तत्कथमत्र मूलकन्दावुक्तो? उच्यते, कमलान्यत्र न वनस्पतिपरिणामानि, किन्तु पृथिवीकायपरिणामरूपाः कमलाकारवृक्षास्तेन तेषामिमौ न विरुद्धाविति, अत्राद्यपरिक्षेपपद्मानां मूलपद्मादर्द्धमानंसूत्रकृता साक्षादुक्तं, उत्तरोत्तरपरिक्षेपपद्मानांतु पूर्वर परिक्षेपपद्मभ्योऽर्द्धार्द्धमानता युक्तितः सङ्गच्छते विजयप्रासादपंक्तेरिव, अन्यथाऽल्प-द्धिकमहर्द्धिकदेवानामाश्रयतारतमयं चतुर्थादिमहापरिक्षेपपद्मानामवकाशः शोभमानस्थितिकत्वं च न सम्भवेत्, अर्धार्द्धमानता चैवम्-मूलपद्मं योजनप्रमाणं आये परिक्षेपे पद्मानि द्विक्रोशमानानि द्वितीये क्रोशमानानि तृतीयेऽर्द्धक्रोशमानानि चतुर्थे पञ्चधनुःशतमानानि पञ्चमे सार्द्धद्विशतधनु- मानानि षष्ठे सपादशतधनुर्मानानि, तथा मूलपद्मापेक्षया सर्वपरिक्षेपेषु जलादुच्छ्रयभागोऽ- प्य‘र्द्धक्रमेण ज्ञेयः, यथा मूलप जलात् क्रोशद्वयमुच्छ्रये आधे परिक्षेपे क्रोश उच्छ्रयः द्वितीये क्रोशार्द्ध तृतीये क्रोशचतुर्थांशः चतुर्थे क्रोशाष्टांशः पञ्चमे क्रोशषोडशांशः षष्ठे क्रोशद्वात्रिंशांश इति, एवमेव मूलपद्मापेक्षया परिक्षेपपद्मानां बाहल्यमप्यर्द्धिक्रमेण वाच्यं ।
ननुषट्परिक्षेपाइति विचार्य, योजनात्मना सहनत्रयात्मकस्य धनुरात्मना द्विकोटिद्विचत्वारिंशल्लक्षप्रमाणस्य द्रहपरमपरिधेः षष्ठपरिक्षेपपद्मानां षष्टिकोटिधनुःक्षेत्रमातव्यानां एकया पंक्त्या कथमवकाशः सम्भवति? एवं प्रथमपरिक्षेपवर्जं शेषपरिक्षेपाणामपितत्परिधिमानपद्ममाने परिभाव्यवाच्यं, उच्यते, षट्परिक्षेपाइत्यत्रषड्जातीयाः परिक्षेपाइतिग्राह्यं, आद्यामूलपार्द्धमाना जातिः द्वितीयात्पादमानातृतीयातदष्टमभागमानाचतुर्थीतत्षोडशभागमाना पञ्चमीतद्वात्रिंशत्तमJain Education International
For Private & Personal Use Only
www.jainelibrary.org