________________
वक्षस्कारः - ४
तीसे धनुपट्टे दाहिणेणं पणवीसं जोअणसहस्साइं दोन्नि अ तीसे जोअणसए चत्तारि अ एगूणवीसइभाए जो अणस्स परिक्खेवेणं पन्नत्ते, रुअगसंठाणसंठिए सव्वकणगामए अच्छे सण्हे तहेव जाव पडिरूवे उभओ पासिं दोहिं पउमवरवेइआहिं दोहिं अ वनसंडेहिं संपरिक्खित्ते दुण्हवि पमाणं वण्णगोत्ति । चुल्लहिमवन्तस्स वासहरपव्वयस्स उवरिं बहुसमरमणिज्जे भूमिभागे प० से जहा० आलिंगपुक्खरेइ वा जाव वाण० देवा य देवीओ अ आसयंति जाव विह०
२८१
वृ. 'कहि ण 'मित्यादि, क्व भदन्त ! जम्बूद्वीपे द्वीपे क्षुल्लः क्षुद्रो वा - महाहिमवदपेक्षया लघुर्हिमवान् क्षुल्लहिमवान् क्षुद्रहिमवान् (वा) नाम्ना वर्षधरः - पर्वतः प्रज्ञप्तः ? वर्षे - उभययोपार्श्वस्थिते द्वे क्षेत्रे धरतीति वर्षधरः, क्षेत्रद्वयसीमाकारी गिरिरित्यर्थ स चासौ पर्वतश्च वर्षधरपर्वतः आख्यातस्तीर्थकृदिरिति शेषं सुगमं, नवरं एकं योजनशतं ऊर्ध्वोच्चत्वेन पंचविंशतिर्योजनानि उद्वेधेन - भूगतत्वेन, उच्चत्वचतुर्थभागस्यैव भूगतत्वात्, एकं योजनसहस्रं द्विपञ्चाशञ्च योनानि द्वादश चैकोनविंशतिभागान् योजनस्य विष्कम्भन, अस्योपपत्तिस्तु द्विगुणितजम्बूद्वीपव्यासस्य नवत्यधिकशतेन भागहरणे भवति, क्षुद्रहिमवतो भरताद् द्विगुणत्वात्, अत्र च करणविधिभरतवर्षविष्कम्भ इव ज्ञेयः, अथास्य बाहे आह
'तस्स बाहा' इत्यादि, तस्य- क्षुद्रहिमवतो वाहे प्रत्येकं पूर्वपश्चिमयोः पंच योजनसहस्राणि त्रीणि च योजनशतानि पंचाशदधिकानि पंचदश च योजनस्यैकोनविंशतिभागान् एकस्य योजनैकोनविंशतितमभागस्यार्द्धं च यावदायामेन प्रज्ञप्ते, सूत्रे च वचनव्यत्ययः प्राकृतत्वात्, अस्य व्याख्यानं वैताढ्याधिकारसूत्रतो ज्ञेयं, प्रायः समसूत्रत्वात् ।
अथैतस्य जीवामाह- 'तस्स जीवा' इत्यादि, तस्य - क्षुद्रहिमवतो जीवा उत्तरतो ग्राह्या, प्राचीनप्रतीचीनायता, जाव पञ्चत्थिमिल्लाए इत्यादि प्राग्वत्, यावत्पदात् पुरत्थिमिल्लाए कोडीए पुरत्थिमिल्लं लवणसमुद्दं पुट्ठा इति ग्राह्यं, आयामेन चतुर्विंशतियोजनसहस्राणि नव च द्वात्रिंशदधिकानि योजनशतानि अर्द्धभागंच-कलार्द्धं प्रज्ञप्ता किंचिद्विशेषोना किंचिदूना इत्यर्थः, किंचिदूनत्वं चास्या आनयनाय वर्गमूले कृते शे, परितनराश्यपेक्षया द्रष्टव्यं, अथास्याः परिधिमाह
'तीसे' इत्यादि, तस्याः क्षुद्रहिमवज्रीवायाः धनुःपृष्ठं दक्षिणतो- दक्षिणपार्श्वेपंचविंशति योजनसहस्राणि द्वे च त्रिंशदधिके योजनशते चतुरश्च एकोनविंशतिभागान् योजनस्य परिक्षेपेणपरिधिना प्रज्ञप्तं, यच्चात्र 'तीसे' इतिशब्देन जीवा निर्देशस्तत्सवस्वजीवापेक्षया स्वस्वधनुः पृष्ठस्य यथोक्तमानतोपपत्यर्थः, अन्यथा न्यूनाधिकमानसम्भवात्, अथ पर्वतं विशेषणैर्विशिनष्टि‘रुअग’इत्यादि, रुचकसंस्थानसंस्थितः सर्वकनकमय इत्यादि प्राग्वत्, नवरं द्वयोरपि पद्मवर वेदिकावनखण्डयोः प्रमाणं वर्णकश्च ज्ञातव्याविति शेषः ।
अथास्य शिखरस्वरूपमाह-‘चुल्ल हिमवंत ' मित्यादि, प्राग्व्याख्यातार्थं, नवरं बहुसमत्वं चात्र नदीस्थानादन्यत्र ज्ञेयं, अन्यथा नदी श्रोतसां संसरणमेव न स्यात् ।
मू. (१२८) तस्स णं बहुसमरमणणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए इत्थ णं इक्के महं पउमद्दहे नामं दहे पन्नत्ते पाईणपडिणायए उदीणदाहिणविच्छिण्णे इक्कं जो अणसहस्सं आयामेणं पंच जो अणसयाई विक्खंभेणं दस जोअणाई उव्वेहेणं अच्छे सण्हे रययामयकूले जाव पासाईए जाव पडिरूवेत्ति, से णं एगाए पउमवरवेइआए एगेण य वनसंडेणं सव्वओ समंता संपरिक्खित्ते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org