________________
वक्षस्कारः-३
२७९
-
धर्मालोचनं मार्गणा यथास्थाणौ निश्चेतव्य इह वल्लयुत्सर्पणादयो धर्मा सम्भवन्ति, स्वाभाविकत्वे उत्तानद्दशां भारभूतस्याभरणस्य वपुषि धारणबुद्धिर्न स्यादिति गवेषणं, यथा तत्रैव इह शिरःखण्डूयनादयः पुरुषधर्मान श्यन्तेइति, अत्र चेहादीनन्तरेण हानोपादानबुद्धिर्नस्यादिति तदग्रहणम्।
अथोत्पन्नकेवलः किंकरोतीत्याह- 'तएण'मित्यादि, ततः केवनलज्ञानानन्तरंस भरतः आसनप्रकम्पावधिना शक्रेण केवलिन्! द्रव्यलिङ्गप्रपद्यस्व यथाऽहं वन्दे विदधेचनिष्क्रमणोत्सवमित्युक्तःसन्स्वयमेवाभरणभूतमलङ्कारं वस्त्रमाल्यरूपमवमुञ्चति-त्यजति, अत्रभूषणालङ्कारस्य पूर्वं त्यक्तत्वात् केशालङ्कारस्य च तित्यक्ष्यमाणत्वात् परिशेषात् वस्त्रमाल्यालङ्कारयोरवग्रहः, स्वयमेवपञ्चमुष्टिकंलोचं करोति कृत्वा च उपलक्षमात् सन्निहितदेवतयाऽर्पितंसाधुलिङ्गंगृहीत्वा चेति गम्यं, ततः शक्रवन्दितःसन्आदर्शगृहात्प्रतिनिष्कामति प्रतिनिष्कम्यचअन्तःपुरमध्यंमध्येन निर्गच्छतिनिर्गत्यचदशमीराजसहस्रसार्द्धसंपरिवृतोविनीतायाराजधान्या मध्यंमध्येननिर्गच्छति निर्गत्य च मध्यदेशे-कोशलदेशस्य मध्ये सुखंसुखेन विहरति । तदनु किं विधत्ते इत्याह
___ "विहरित्ता जेणेव अट्ठावए' इत्यादि, विहृत्य च यत्रैवाष्टापदः पर्वतस्तत्रैवोपागच्छति, उपागत्य चाष्टापदं पर्वतं शनैः२ सुविहितगत्या 'दवदवस्सन गच्छिज्जा' इति वचनात् आरोहति आरुह्यचघनमेघसन्निकाशं-सान्द्रजलदश्यामं पदव्यत्ययः प्राकृतत्वात् देवानांसन्निपातः-आगमनं रम्यत्वात्यत्रस तथा तं, पृथिवीशिलापट्टकः-आसनविशेषस्तं प्रतिलेखयति, केवलित्वेसत्यपि व्यवहारप्रमाणीकरणार्थ दृष्ट्या निभालयति,प्रतिलिख्यच सिंहावलोकनन्यायेनात्रापि आरोहतीति बोध्यं, संलिख्यते-कृशीक्रियते शरीरकषायाद्यनयेति संल्लेखना-तपोविशेषलक्षणा तस्या जोषणा-सेवना तया जुष्ट:-सेवितो झूषितो वा-क्षपितः यः स तथा, प्रत्याख्याते भक्तपाने येन सतथा, क्तान्तस्य परनिपातः प्राकृतत्वात्, ‘पादोपगतः पादो-वृक्षस्य भूगतोमूलभागस्तस्येवाप्रकम्पतयोपगतम्-अवस्थानं यस्य स तथा कालं-मरणमनवकांक्षन्-अवाञ्छन्, उपलक्षणाजीवितम्पवाञ्छन्, अरक्तद्विष्टत्वाद्विहरति, अथस भरतो यस्मिन् पर्याये यावन्तंकालमतिबाह्य निर्ववृतेतथाह-'तएणंततःसभरतः सप्तसप्ततिं पूर्वशतसहस्राणि कुंमारवासमध्ये-कुमारभावे उषित्वा भरतप्रसवानन्तरमेतावन्तं कालं ऋषभस्वामिनो राज्यपरिपालनात्, एकं वर्षसहन माण्डलिकराजा-एकदेशाधिपति भावप्रधानत्वानिर्देशस्य माण्डलिकत्वं तन्मध्ये उषित्वा षट् पूर्वसहस्राणि वर्षसहस्राणि महाराजमध्ये-चक्रवर्तित्वे उषित्वा त्र्यशीतिं पूर्वशतसहस्राणि अगारवासमध्ये गृहित्वेइत्यर्थउषित्वाएकंपूर्वशतसहस्रअन्तर्मुहूर्तोनं केवलिपर्यायंप्राप्य-पूरयित्वा गृहित्वेएव भावचारित्रप्रतिपत्यनन्तरमन्तर्मुहूर्तेन केवलोत्पत्तेः, तदेव पूर्वशतसहस्र बहुप्रतिपूर्णसम्पूर्णं, तेनान्तर्मुहूर्तेनाधिकमित्यर्थः, भावचारित्रस्यात्र विवक्षानतुद्रव्यचारित्रस्यतस्य केवलानन्तरं प्रतिपत्तेः, श्रामण्यपर्यायं-यतित्वं प्राप्य चतुरशीतिं पूर्वशतसहस्राणि सर्वायुः परिपूर्य मासिकेन भक्तेन-मासोपवासैरित्यर्थ : अपानकेन-पानकाहारवर्जितेन श्रवणेन नक्षत्रेण योगमुपागतेन चन्द्रेण सहेति गम्यं, क्षीणे वेदनीये आयुषि नाम्नि गोत्रे च भवोपग्राहिकर्मचतुष्टयक्षये इत्यर्थः, 'कालगए' इत्यादि पदानि प्राग्वत्, इतिशब्दोऽधिकारपरिसमाप्तिद्योतकः । स चायं
से केणतुणं भंते! एवं वुच्चइ भरहे वासे २' इति सूत्रेण नामान्वर्थं पृच्छतो गौतमस्य प्रतिवचनाय 'तत्थणं विणीआए भरहे नामं राया चाउरंतचक्कवट्टी समुप्पज्जित्था' इत्यादिसूत्रैर्भरतचरित्रं प्रपञ्चितं, तच्च परिसमाप्तमित्यर्थः, तेन भरतः स्वामित्वेनास्यास्तीत्यभ्रादित्वादप्रत्यय
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only