SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ २७६ 119 11 'पादाधः स्थितयस्तस्य, नवापि निधयोऽनिशम् । हेमाब्जानीव वृषभप्रभोर्विहरतोऽभवन् ॥ इति ऋषभचरित्रवचनेन अत्रैव पूर्वसूत्रेण च सह कथं न विरुध्यते ?, उच्यते, राज्ञां यत्र तत्र स्थितमपि कोशद्रव्यं कोश एव कथ्यत इति लौकिकव्यवहारस्य सुप्रसिध्धत्वात् न दोषः, सेनापत्यादिमनुजरत्नानि चत्वारि विनीतायां समुत्पन्नानि अश्वरत्नहस्तिरत्ने एते द्वे पञ्चेन्द्रियतिर्यगरने वैताढ्यगिरेः पादमूले - मूलभूमौ समुत्पन्ने, सुभद्रानाम स्त्ररनं उत्तरस्यां विद्याधरश्रेण्यांसमुत्पन्नं । अथ षट्खण्डं पालयंश्चक्री यथा प्रववृते तथाह मू. (१२४) तए णं से भरहे राया चउदसण्हं रयणाणं नवण्हं महानिहीणं सोलसण्हं देवसाहस्सीणं बत्तीसाए रायसहस्साणं बत्तीसाए उडुकल्लाणिआसहस्साणं बत्तीसाए जनवयकलाणिआसहस्सा बत्तीसाए बत्तीसइबद्धाणं नाडगसहस्साणं तिण्हं सट्टीणं सूयारसयाणं अट्ठारसण्हं सेणिप्पसेणीणं चउरासीइए आससयसहस्साणं चउरासीइए दतिसयसहस्साणं चउरासीइए रहसयसहस्साणं छन्नउइए मणुस्सकोडीणं बावत्तरीए पुरवरसहस्साणं बत्तीसाए जनवयसहस्साणं छन्नउइए गामकोडीणं नवनउइए दोणमुहसहस्साणं अडंयालीसाए पट्टणसहस्साणं - - चउव्वीसाए कब्बडसहस्साणं चउव्वीसाए मडंबसहस्साणं वीसाए आगरसहस्साणं सोलसण्हं खेडसहस्साणं चउदसण्हं संवाहसहस्साणं छप्पन्नाए अंतरोदगाणं एगूणपन्नाए कुरजाणं विणीआए रायहाणीए चुल्लहिमवंतगिरिसागरमेरागस्स केवलकप्पस्स भरहस्स वासस्स अन्नेसिं च बहूणं राईसरतलवर जाव सत्थवाहप्पभिईणं आहेवच्चं पोरेवच्चं भट्टित्तं । सामित्तं महत्तरगतं आणाईआसरसेणावच्चं कारेमाणे पालेमाणे ओहयणिहएस कंटएसु उद्धिअमलिएसु सव्वसत्सु निजिएसु मरहाहिवे णरिंदे वरचंदणचच्चि अंगे वरहाररइअवच्छे वरमउडविसिट्ठए वरवत्थभूसमणधरे सव्वोउ असुरहिकुसुमवरमल्लसोमिअसिरे वरणाडगनाडइजवरइत्थिगुम्म सद्धिं संपरिवुडे सव्वोसहिसव्वसमिइसमग्गे संपुण्णमनोरहे हयामित्तमाणमहणे पुव्वकयतवप्पभावनिविट्ठसंचिअफले भुंजइ माणुस्सए सुहे भरहे नामधेजेत्ति वृ. 'तएण 'मिति, ततः - षट्खण्डभरतसाधनानन्तरं स भरतो राजा चतुर्दशरत्नादीनां सार्थवाहप्रभृत्यन्तानामाधिपत्यादिकं कारयन् पालयन् मानुष्यकानि सुखानि भुङ्क्ते इत्यन्वयः, सर्वं प्राग्वत् व्याख्यातार्थं, नवरं षट्पञ्चाशतोऽन्तरोदकानां - जलान्तर्वर्त्तिसन्निवेशविशेषाणांन तु समयप्रसिद्धयुग्मिमनुजाश्रयभूतानां षट्पञ्चाशदन्तरद्वीपानां तेषु कस्याप्याधिपत्यस्यासम्भवात्, एकोनपञ्चाशतः कुराज्यानां - भिल्लादिराज्यानामिति, उध्धृ तेषु - देशान्निर्वासितेषु मर्दितेषु च - मानम्लानिं प्रापितेषु सर्वशत्रुषु - अगोत्रजवैरिषु, एतत्सर्वं कुतो भवतीत्याह - निर्जितेषु - भग्नबलेषु सर्वशत्रुषु उक्तद्विप्रकार वैरिषु अत्र सर्वशत्रुष्विति पदं देहलीप्रदीपन्यायेनोभयत्र योज्यं, की शो भरत इत्याह- भरताधिपो नरेन्द्रः चन्दनेन चर्चितं - समण्डनं कृतमङ्गं यस्य स तथा, वरहारेण रतिदं- द्रष्टृणां नयनसुखकारि वक्षो यस्य स तथा, वरमुकुटविशिष्टकः, चूर्णोतु 'वरमउडाविद्धए' इति, तत्र आविद्धए इति आविद्धं परिहितं वरमुकुटं अनेन स तथा प्राकृतत्वात् पदव्यत्ययः, वरवस्त्र- भूषणधरः सर्वर्तुकसुरभिकुसुमानां माल्यैः - मालाभि शोभितशिरस्कः वरनाटकानिपात्रादिसमुदायरूपाणि नाटकीयानि च नाटकप्रतिबद्धपात्राणि वरस्त्रणां प्रधान्त्रीणां गुल्मं For Private & Personal Use Only www.jainelibrary.org जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ३/१२३ Jain Education International
SR No.003317
Book TitleAgam Suttani Satikam Part 13 Jambudwip pragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy