________________
वक्षस्कारः-३
२७५
उच्छुल्कादिपदव्याख्या प्राग्वत्, अथ ते आज्ञप्ताः यथा प्रवृत्तवन्तस्तथाऽऽह-'तए णमिति, ततस्ते कौटुम्बिकपुरुषा भरतेन राज्ञा एवमुक्ताः सन्तो हृष्टतुष्टचित्तानन्दिताः 'हरिसवस'त्ति हर्षवशविसर्पद्ध दयाः विनयेन वचनं प्रतिशृण्वन्ति प्रतिश्रुत्य च क्षिप्रमेव हस्तिस्कन्धवरगताः यावत्पदात् ‘विणीआएरायहाणीएसिंघाडगतिगे'त्यादिग्राह्यं, कियदंतमित्याह-यावद्घोषयन्ति २ त्वा च एतामाज्ञप्तिकांप्रत्यर्पयन्ति।अथ भरतः किं चक्रे इत्याह-'तएणमिति, ततःस भरतो राजा महता २ राज्याभिषेकेणा-भिषिक्तः सन् सिंहासनादम्युत्तिष्ठति अभ्युत्थाय च स्वरलेन यावत् 'बत्तीसाए उडुकल्लाणिआस- हस्सेहिं बत्तीसाए जनवयकल्लाणिआसहस्सेहिं बत्तीसाए बत्तीसइबद्धेहिं' इतिग्राह्यं, द्वात्रिंशता द्वात्रिंशद्वद्धैर्नाटकसहसरैः सर्ददं संपरिवृतोऽभिषेकपीठात् पौरस्त्वेन त्रिसोपानप्रतिरूपकेण प्रत्यवरोहति प्रत्यवरुह्य चाभिषेकमण्डपात् प्रतिनष्कामति प्रतिनिष्क्रम्यच यत्रैवाभिषेक्यंहस्तिरलंतत्रैवोपागच्छति उपागत्य चाअनगिरिकूटसन्निभंगजपतिं यावच्छब्दात् नरवइत्ति ग्राह्यं, नरपति-रारूढः, तदनुअनुचरजनो यथाऽनुवृत्तवांसतथाह
'तएणमित्यादि, व्यक्तं, अथ ययायुक्त्या चक्री विनीतांप्रविवेशतामाह'तएण'मित्यादि, ततस्तस्य भरतस्य राज्ञ आभिषेक्यं हस्तिरत्नमारूढस्य सतइमान्यष्टष्टमङ्गलकानि पुरतोयावच्छब्दाद्यथानुपूर्व्या संप्रस्थितानि, अत्र ग्रन्थविस्तरभयादतिदेशमाह-योऽपिचातिगच्छतो-विनीतां प्रविशतःक्रमः-परिपाटीप्रथमोऽधस्तनसूत्रोक्तो भरतविनीताप्रवेशवर्णकः, कुबेरष्टान्तभावितसूत्रावसानः स एवक्रम इहापिसत्कारविरहितोनेतव्य, अयंभावः-पूर्वं प्रवेशेषोडशदेवसहस्रद्वात्रिंशद्राजसहस्रदनां सत्कारो यथा विहितस्तथा नात्रेति, अस्य च द्वादशवार्षिकप्रमोदनिर्वर्तनोत्तरकाल एवावसरप्राप्तत्वात् । अथ गृहागमनानन्तरं यो विधिस्तमाह-'तएणं से भरहे राया मज्जणघर'मित्यादि, निगदसिद्धं प्रागबहुशोनिगदितत्वात्, एवंच प्रतिदिनंनवं २ राज्याभिषेकमहोत्सवं कारयतस्तस्य द्वादशवर्षाण्यतिक्रान्तानि, शचुंजयमाझस्यादौतु राज्याभिषेकोत्सवस्थाने राज्याभिषेकएव द्वादशवार्षिकोऽभिहितइति,अथतदुत्तरकालेयत्कृत्यंतदाह-“तएणमित्यादिप्राग्वत् ननु सुभूमचक्रवर्तिनः पशुरामहतक्षत्रियदाढाभृतस्थालमेव चक्ररत्नतया परिणतमिति श्रुतेश्चक्ररत्नानामनियतोत्पत्तिस्थानकत्वंज्ञायते,तेनप्रस्तुतप्रकरणेतेषांकोत्पत्तिरित्याशंक्याह-अथ चतुर्दशरत्नाधिपतेर्भरतस्य यानि रत्नानि यत्रोदपद्यंत तत्तथाऽऽह
मू. (१२३) भरहस्स रन्नो चक्करयणे १ दंडरयणे २ असिरयणे ३ छत्तरयणे ४ एते णं चत्तारि एगिदियरयणे आउहधरसालाए समुप्पन्ना, चम्मरयणे १ मणिरयणे २ कागणिरयणे ३ नव य महानिहओ। एएणं सिरिधरंसि समुप्पणा, सेनावइरयणे १ गाहावइरयणे २ वद्धइरयणे ३ पुरोहिअरयणे४ एएणं चत्तारि मणुअरयणा विणीआए रायहाणीए समुप्पन्ना, आसरयणे १ हत्थिरयणे२ एएणंदुवेपंचिंदिअरयणा केअद्धगिरिपायमूले समुप्पन्ना, सुभद्दाइत्थीरयणेउत्तरिल्लाए विजाहरसेढीए समुप्पन्ने।
वृ. 'भरहस्स रन्नो'इत्यादि, भरतस्य राज्ञश्चक्रादीनि चत्वारि एकेन्द्रियरत्नानि आयुधशालायां समुत्पन्नानि-लब्धसत्ताकानि जातानि एवमुत्तरसूत्रेऽपिबोध्यं, तेन चर्मरलादीनि नव महानिधयश्च एतानि श्रीगृहे-भाण्डागारे समुत्पन्नानि-लब्धसत्ताकानि जातानीत्यर्थः, इत्थं च निधयः शाश्वतभावरूपाः कथमुत्पद्यन्ते इत्याशङ्का निरस्ता, ननु इदं सूत्रं ।
Jain Education international
For Private & Personal Use Only
www.jainelibrary.org