________________
२७४
जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् ३ / १२२
अंगयाई तुडिआईकडयाई दसमुद्दि- आनंतगं कडिसुत्तगं वे अच्छगसुत्तगं मुरविं कंठमुरविं कुण्डलाई चूडामणिं चित्तरयणुक्कडं 'ति, अत्र व्याख्या - गन्धकाषायिक्या - सुरभिगन्धकषायद्रव्यपरिकर्मितया लघुशाटिकया इति गम्यं, गात्राणि - भरतशरीरावयवान् रूक्षयन्ति, रूक्षयित्वा च सरसेन गोशीर्षचन्दनेन गात्राण्यनुलिम्पन्ति, अनुलिप्य च देवदूष्ययुगलं निवासयन्ति परिधापन्यीति योगः, कथम्भूतमित्याह - नासिकानिश्वासवातेन बाह्यं दूरापनेयं श्लक्ष्णतरमित्यर्थः,
अयमर्थ - आस्तां महावातः नासावातोऽपि स्वबलेन तद्वस्त्रयुगलं अन्यत्र प्रापयति, चक्षुर्हरं रूपातिशयत्वात् अथवा चक्षुर्द्धरं चक्षुरधकं घनत्वात्, अतिशायिना वर्णेन स्पर्शेन च युक्तं हयलाला - अश्वमुखजलं तस्मादपि पेलवं - कोमल मतिरेकेण - अतिशयेन अतिविशिष्टमुदुत्वलघुत्वगुणोपेतमिति भावः धवलं प्रतीतं कनकेन खचितानि - विच्छुरितानि अन्तकर्माणिअञ्चलयोर्वानलक्षणानि यस्य तत् तथा आकाशस्फटिको नाम - अतिस्वच्छस्फटिकविशेषस्तत्सद्दशप्रभं अहतं दिव्यं निवास्य च हारं पिनह्यन्ति - ते देवाश्चक्रिणः कण्ठपीठे बघ्नन्ति । 'एव' मिति एतेनाभिलापेनार्द्धहारादीनि वाच्यानि यावन्मुकुटमिति, तत्र हारार्द्धहारी प्रतीती, एकावली प्राग्वत्, मुक्तावली - मुक्ताफलमयी कनकावली - कनकमणिमयी रत्नावली - रत्नमयी प्रालम्बः - तपनीयमयो विचित्रमणिरत्नभक्तिचित्र आत्मप्रमाण आभरणविशेषः अङ्गदे त्रुटिके च प्राग्वत् कटके प्रसिद्धे दशमुद्रिकानन्तकं-हस्तांगुलिमुद्रादशकं कटिसूत्रकं - पुरुषकट्याभरणं वैकक्ष्यसूत्रकं - उत्तरासङ्गं परिधानीयं - शृङ्खलकं मुरवी - मृदङ्गाकारमाभरणं कण्ठमुरवी-कण्ठासन्नं तदेव कुण्डले व्यक्ते चूडामणि प्राग्वत् चित्ररत्नोत्कटं-विचित्ररत्नोपेतं मुकुटं व्यक्तं ।
'तयनंतरंच णं दद्दरमलय' इत्यादि, तदनन्तरं दर्दरमलयसम्बन्धिनो ये सुगन्धाः - शोभनवासास्तेषां गन्धः - शुभपरिमलो येषु ते तथा तैर्गन्धैः - काश्मीरकर्पूरकस्तूरीप्रमृतिगन्धवद्रव्यैः प्रकरणाद्रसभावमापादितैरभ्युक्षन्ति - सिञ्चन्ति ते देवा भरतं, कोऽर्थ ? अनेकसुरभि - द्रव्यमिश्रघुसृणरसच्छटकान् कुर्वन्ति, भरतवाससीति भावः, कचित् ' सुगन्धगन्धिएहिं गन्धएहिं भुकुडंति' इति पाठस्तत्र भूकुडंतीति - उद्धूलयन्ति, गन्धैः सुरभिचूर्णै- सुरभिचूर्णं भरतोपरि क्षिपन्ति दिव्यं चः समुच्चये सुमनोदाम - कुसुममाला पिनह्यन्ति, किंबहुना ? उक्तेनेति गम्यं, "गंढिमवेढिम यावत्पदात् 'पूरिमसंघाइमेणं चउव्विहेणं मल्लेणं कप्परुक्खयंपिव समलंकिय'त्ति ग्राह्यं, अतर व्याख्या - ग्रन्थनं ग्रन्थस्तेन निर्वृत्तं ग्रन्थिमं, भावादिमप्रत्ययः, यत् सूत्रादिना ग्रथ्यते तद् ग्रन्थिममिति भावः, ग्रथितं सद्वेष्टयते यत्तद् वेष्टिमं, यथा पुष्पलंबूसको गेन्दुक इत्यर्थः, पूरिमं येन वंशशलादिमयपञ्जरादि पूर्यते संघातिमं यत्परस्परतो नालं संघात्यते, एवंविधेन चतुर्विधेन माल्येन कल्पवृक्षमिवालङ्कृतविभूषितं भरतचक्रिणं कुर्वन्ति ते देवाः । अथ कृताभिषेको यच्चक्रे तदाह
'तएण 'मित्यादि, ततः स भरतो राजा महता २ अतिशायिना राज्याभिषेकेणाभिषिक्तः सन् कौटुम्बिकपुरुषान् शब्दयदि शब्दयित्वा चैवमवादीत्, तदेवाह - क्षिप्रमेव भो देवानुप्रिया ! यूयं हस्तिस्कन्धवरगताः विनीतायाः राजधान्याः शृङ्गाटकत्रिकचतुष्कचत्वरादिषु प्राग्व्याख्यातेषु आस्पदेषु महता २ शब्देनोदघोषयन्तो - जल्पन्तो जल्पन्तः, अत्र शत्रन्तस्यापि अविवक्षणान कर्मनिर्देशः, आभीक्ष्णये द्विर्वचनं, उच्छुल्कं यावद् द्वादश संवत्सराः कालो मानं यस्यातीति द्वादशसंवत्सरिकस्तं प्रमोदहेतुत्वात् प्रमोदः - उत्सवस्तं घोषयत घोषयित्वा च ममैतामाज्ञप्तिकां प्रत्यर्पयत,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org