________________
वक्षस्कारः - ३
ततस्तैः पूर्वोक्तैः स्वाभाविकैरुत्तरवैक्रियैश्च वरकमले आधारभूतै प्रतिष्ठानं-स्थितिर्येषां ते तथा तैः सुरभिवरवारिप्रतिपूर्णे, अत्र 'चंदणकयवच्चएहिं आविद्धकंठेगुणेहिं पउमुप्पलपिहाणेहिं करयलपरिग्गहिएहिं अट्ठसहस्सेणं सोवण्णि अखलसाणं जाव अट्ठसहस्सेणं भोमेज्जाण' मित्यादिको ग्रन्थो यावत्पदसंग्राह्य उत्तरत्र जिनजन्माभिषेकप्रकरणे व्याख्यास्यते तत्रास्य साक्षाद्दर्शितत्वात्, वाक्यसङ्गत्यर्थं च करणक्रियाविभागो दर्श्यते, उक्तविशेषणविशिष्टैः कलशैः सर्वोदकसर्वमृत्स
षधिप्रभृतिवस्तुभिर्महता २ – गरीयसा २ राज्याभिषेकेणाभिषिञ्चन्ति, अभिषेको यथा विजयस्य जीवाभिगमोपाङ्गे उक्तस्तथाऽत्र बोद्धव्यः, अभिषिच्य च प्रत्येकं २ प्रतिनृपं यावत्पदात् 'करयलपरिग्गहिअं सिरसावत्तं मत्थए' इति ग्राह्यं, अंजलिं कृत्वा ताभिरिष्टाभिः अत्रापि 'कंताहिं जाव वहिं अभिनंदंताय अभिथुणंता य एवं वयासी - जय २ नंदा जय जय भद्दा ! भद्दं ते अजिअं जिणाहि' इत्यादिको ग्रन्थस्तथा ग्राह्यो यथा विनीतां प्रविशतो भरतस्यार्थार्थिप्रमुखयाचकजनैराशीरित्यर्थाद् गम्यं भणिता, कियत्पर्यन्तमित्याह - यावद्विहरेतिकृत्वा जय २ शब्दं प्रयुञ्जन्ति, नन्वत्र सूत्रेऽभिषेकसूत्रं जीवाभिगमगतविजयदेवाभिषेकसूत्रातिदेशेनोक्तं, साम्प्रतीनतदीयादर्शेषु च 'असणं सोवणि अकलसाण' मित्यादि दृश्यते, अत्र च वृत्तौ 'अट्ठसहस्सेणं सोवण्णिअकलसाण' मित्यादि दर्शितं तत्कथमनयोर्न विरोधः ?, उच्यते, जीवाभिगमवृत्तौ तानेव विभागतो दर्शयति, अष्टसहस्रेण सौवर्णिकानां कलशानामष्टसहस्राण रूप्य० अष्टसहस्रेण मणिमयानामित्यादिपाठाशयेनात्र लिखितत्वान्न दोष:, यदि चात्र कलशानामष्टोत्तरशतसङ्ख्या स्यात्तदा तत्रैव सर्वसङ्ख्यया अष्टभिः सहस्रैरित्युत्तरग्रन्थोऽपि नोपपद्येत, किं च - ६श्यमानतत्सूत्रे विकुर्वणाधिकारे अट्ठसहस्सं सोवण्णिअकलसाणं जाव भोमेज्जाणमित्यादि, अभिषेकक्षणे तु अट्ठसएणं सोवण्णिअकलसाणमित्यादीत्यपि विचार्यं । अथ शेषपरिच्छदाभिषेकवक्तव्यतामाह
२७३
'तए ण 'मित्यादि, ततो- द्वात्रिंशद्राजसहस्रभिषेकानन्तरं भरतं राजानं सेनापतिरत्नं यावत्पदात् गाहावइरयणे वड्डइरयणे इति ग्राह्यं गृहपतिवर्द्धकिपुरोहितरत्नानि त्रीणि च षष्टानि-षष्ट्यधिकानि सूपशतानि अष्टादश श्रेणिप्रश्रेणयः अन्ये च बहवो यावच्छब्दात् राजेश्वरादिपरिग्रहः, ततो राजेश्वरतलवरमाडम्बि अकौटुम्बिकेभ्यश्रेष्ठिसेनापतिसार्थवाहप्रभृतय एवमेवराजान इवाभिषिञ्चन्ति तैर्वरकमलप्रतिष्ठानैस्तथैव कलशविशेषणादिकं ज्ञेयं, यावदभिनन्दन्ति अभिष्टुवन्ति च ततः षोडशदेवसहस्राः एवमेव-उक्तन्यायेनाभिषिञ्चन्ति यत्तु आभियोगिकसुराणां चरमोऽभिषेकः तद्भरतस्य मनुष्येन्द्रत्वेन मनुष्याधिकारान्मनुष्यकृताभिषेकानन्तरभावित्वेनेति बोध्यं, यद्वा देवानां चिन्तितमात्रतदात्वसिद्धिकारकत्वेन पर्यन्ते तथाविधोत्कृष्टाभिषेकविधानार्थमिति, ऋषभचरित्रादौ तु पूर्वमपि देवानामभिषेकोऽभिहित इति, अत्र यो विशेषस्तमाह- 'नवर' मिति, अयं विशेष:- आभियोगिकसुराणामपरेभ्योऽभिषेचकेभ्यः पक्ष्मलया-पक्ष्मवत्या सुकुमारया च अत्र यावतद्पदग्राह्यमिदं 'गन्धकासाइआए गायाई लूहेंति सरसगोसीसचन्दणेणं गायाई अमुलिंपति २ त्ता नासाणीसासवायवोज्झं चक्खुहरं वण्णफरिसजुत्तं हयलालापेलवाइरेगं धवलं कणगखइ- अंतकम्मं आगासफलिहसरिसप्पभं अहयं दिव्वं देवदूसजुअलं निअंसावेंति २ त्ता हारं पिणद्धेति २ त्ता एवं अद्धहारं एगावलिं मुत्तावलिं रयणावलिं पालम्बं
13 18
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org