________________
२७२
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ३/१२२ महं-उत्सवमर्हतीति महार्हस्तं महाराज्याभिषेकमुपस्थापयत-सम्पादयत, आज्ञप्तास्ते यच्चक्रुसतदाह-'तएण'मित्यादि, ततः-आज्ञप्तयनन्तरंतेआभियोग्यादेवाभरतेन राज्ञाएवमुक्ताः सन्तो हृष्टतुष्टचित्तेत्यादिरानन्दालापको ग्राह्यः यावत्पदात् 'करयलपरिग्गहिअंदसनहं सिरसावत्तं मत्थए अंजलिं कट्ठ एवं देवो तहत्ति आणाए विनएणं वयणं पडिसुणेति २ त्ता' इति ग्राह्यं, व्याख्याच प्राग्वत्, अत्रातिदेशसूत्रमाह-एवं-इत्थंप्रकारमभिषेकसूत्रं यथा विजयस्य-जम्बूद्वीपविजयद्वाराधिपदेवस्य तृतीयोपाने उक्तं तथाऽत्रापिज्ञेयमिति, अत्रच सर्वाभिषेकसामग्रीवक्तव्या, सा चोत्तरत्र जिनजन्माधिकारे वक्ष्यते, तत्र तसूत्रस्य साक्षाद्दर्शितत्वात्, तथापि स्थानाशून्यार्थं तथाशब्दसूचितसंग्रहदर्शनार्थं किञ्चिल्लिख्यते, तदपि लाघवार्थं संस्कृतरूपमेव युक्तमिति तथैव दर्श्यते, अष्टसहस्रं सौवर्णिककलशानां तथा रूप्यमयकलशानां मनोगुलिकानां वातकरकाणां चित्ररत्नकरण्डकानांपुष्पचङ्गेरीणां यावल्लोमहस्तकचङ्गेरीणांपुष्पपटलकानांयावल्लोमहस्तपटलकानां सिंहासनानं छत्राणां चामराणां समुदकानां ध्वजानां धूपकडुच्छुकानां प्रत्येकमष्टसहन विकुर्वन्ति विकुळ च स्वाभाविकान् वैक्रियांश्चैतान् पदार्थान् गृहीत्वा क्षीरोदे उदकमुत्पलादीनि च गृह्णन्ति, पुष्करोदे तथैव।
ततो भरतैरावतयोगिधादितीर्थत्रये उदकं मृदं च ततस्तयोर्महानदीषूदकं मृदं च ततः क्षुल्लहिमाद्रौ सर्वतूवरसर्वपुष्पादीनि, ततः पद्मद्रहपुण्डरीकद्रहयोरुदकमुत्पलादीनिच, एवंप्रतिवर्ष महानद्योरुदकंमृदंचप्रतिवर्षधरं च सर्वतूबरसर्वपुष्पादीनिचद्रहेषुच उदकोत्पलादीनिवृत्तवैताढ्येषु चसर्वतूबरादीनि विजयेषुतीर्थोदकं मृदं वक्षस्कारगिरिषु सर्वतूबरादीन् तथा अन्तरनदीषुउदकं मृदंच, ततो मेरौ भद्रशालवेन सर्वतूबरादीन् ततोनन्दनवने सर्वतूबरादीन् सरसंचगोशीर्षचन्दनं ततः सौमनसवने सर्वतूबरादीन् सरसं च गोशीर्षचन्दनं दिव्यं च सुमनोदाम ततः पण्डकवने सर्वतूबरपुष्पगन्धादीन् गृहन्ति, गृहीत्वा चैकतः एकत्र मिलन्ति, एकत्र मिलित्वा यत्रैव दक्षिणार्द्धभरतवर्षं यत्रैव च विनीता राजधानी तत्रैवोपागच्छन्ति, उपागत्य च विनीतां राजधानीमनुप्रदक्षिणीकुर्वन्तः २ यत्रैवाभिषेकमण्डपो यत्रैवच भरतो राजा तत्रैवोपागच्छन्ति उपागत्य च तत् पूर्वोक्तं महार्थं महाघु महार्ह महाराज्याभिषेकोपयोगिक्षीरोदकाधुपस्करमुपरथापयन्ति-उपढौकयन्ति । अथोत्तरकृत्यमाह-'तए ण'मित्यादि, ततस्तं भरतं राजानं द्वात्रिंशद्राजसहस्राणि शोभने-निर्दोषगुणपोषे 'तिथिकरणदिवसनक्षत्रमुहूर्ते' तिथ्यादिपदानां समाहारद्वन्द्वस्ततः सप्तम्येकवचनं, तत्र तिथि-रिक्तार्केन्दुदग्धादिदुष्टतिथिभ्यो भिन्ना तिथि करणं-विविष्टिदिवसो दुर्दिनग्रहणोत्पातदिनादिभ्यो भिन्नदिवसः नक्षत्र-राज्याभिषेकोपयोगि श्रुत्यादित्रयोदशनक्षत्राणा- मन्यतरत्, यदाह॥१॥ "अभिषिक्तो महीपालः, श्रुतिज्येष्ठालघुध्रुवैः ।
मृगानुराधापौष्णैश्च, चिरं शास्ति वसुन्धराम्॥" इति, मुहूत्तः-अभिषेकोक्तनक्षत्रसमानदैवत इति, अत्रैव विशेषमाह-उत्तरप्रौष्ठपदाउत्तरभद्रपदा नक्षत्रंतस्य विजयोनाम मुहूतः-अभिजिदाह्वयःक्षणस्तस्मिन्, अयंभावः-मुहूर्तापरपर्यायः पञ्चदशक्षणात्मके दिवसेऽष्टमक्षणः, तल्लक्षणं चेदं ज्योतिशास्त्रप्रसिद्धं॥१॥ "द्वौ यामौ घटिकाहीनौ, द्वौ यामौ घटिकाधिकौ ।
विजयो नाम योगोऽयं, सर्वकार्यप्रसाधकः॥"
Jain Education International
For
For Private & Personal Use Only
www.jainelibrary.org