________________
वक्षस्कारः - ३
२७१
औदारिकास्ते च वैक्रियसमुदघाते कथं ग्रहणार्हा ? उच्यते, इह रत्नादिग्रहणं पुदगलानां सारतामात्रप्रतिपादनार्थं, न तु तदीयपुदग्रहणार्थं, ततो रत्नादीनामिवेति द्रष्टव्यं, अथवा औदारिका अपि ते गृहीताः सन्तो वैक्रियतया परिणमन्ते, पुद्गलानां तत्तत्सामग्रीवशात्तथातथापरिणमनभावादतो न कश्चिद्दोष इति, पूर्ववैक्रियसमुदघातस्य जीवप्रयत्लरूपत्वेन क्रमक्रममन्दमन्दतरभावापन्नत्वेन क्षीणशक्तिकत्वात् इष्टकार्यासिद्धेः, अथ समभूभागे ते यच्चक्रुस्तदाह- 'तस्स ण' मित्यादि, तस्य बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागे अत्र महान्तमेकमभिषेकमण्डपं विकुर्वन्ति अनेकस्तम्भशतसन्निविष्टं यावत्पदात् राजप्रश्नीयोपाङ्गगतसूर्याभदेवयानविमानवर्णको ग्राह्यः, सच कियत्पर्यन्तमित्याह- यावत् गन्धवर्ततिभूतमिति विशेषणं, अत एव सूत्रकृदेव साक्षादाहप्रेक्षागृह मण्डपवर्णको ग्राह्य इति एतत्सूत्रव्याख्ये सिद्धायतनादिवर्णके प्राग्दर्शिते इति नेहोच्येते, 'तस्स ण' मित्यादि, तस्याभिषेकमण्डपस्य बहुमध्यदेशभागे अत्र - अस्मिन् देशे महान्तमेकमभिषेकपीठं विकुर्वन्ति अच्छं अस्तरजस्कत्वात् श्लक्ष्णं सूक्ष्मपुदगलनिर्मितत्वात् ।
'तस्स ण' मित्यादि, वापीत्रिसोपानप्रतिरूपकवर्णकवदत्र वर्णव्यासो ज्ञेयः यावत्तोरणवर्णनं अथाभिषेकपीठभूमिवर्णनादि प्रतिपादयन्नाह - ' तस्स ण' मित्यादि, त्याभिषेकपीठस्य बहुसमरमणीयो भूमिभागः प्रज्ञप्तः, तस्य समभूभागस्य मध्ये एकं महत् सिंहासनं विकुर्वन्ति तस्य वर्णकव्यासो विजयदेवसिंहासनस्येव ज्ञेयः यावद्दाम्नां वर्णको यत्र तद्दाम वर्णकं सम्पूर्णं समस्तं सूत्रं वाच्यमिति शेषः, एनमेवार्थं निगमयन्नाह - 'तएण 'मित्यादि, ततो- भरताज्ञानन्तरं ते देवा उक्तविशेषणविशिषटमभिषेकमण्डपं विकुर्वन्ति विकुर्व्य च यत्रैव भरतो राजा यावत्पदात् 'तेणेव उवागच्छन्ति २ एअमाणत्तिअं' इति ग्राह्यं, 'तए ण' मित्यादि, व्यक्तं, अथैतत्समयोचितं भरतकृत्यमाह
'तए ण' मित्यादि, प्राग्वत्, 'तए ण' मिति ततस्तस्य भरतस्य राज्ञः आभिषेक्यं हस्तिरतमारूढस्य सत इमान्यष्टावष्टौ मङ्गलकानि पुरतः सम्प्रस्थितानीति शेषः, अथ ग्रन्थलाघवार्थमतिदिशति-य एव गमो विनीतां प्रविशतः स एव तस्य निष्क्रामतोऽपि भरतस्य, कियदन्तमित्याह- यावदप्रतिबुद्धयन् २ विनीतां राजधानीं मध्यंमध्येन निर्गच्छति, शेषं व्यक्तं, ततः किं चक्रे इत्याह- 'पञ्च्चोरुहित्ता इत्थीरयणेण' मित्यादि, ततः स भरतो राजा स्त्ररत्नेन सुभद्रया द्वात्रिंशता ऋतुकल्याणिकासहस्र द्वात्रिंशता जनपदकल्याणि कासहस्रैः द्वात्रिंशता द्वात्रिंशदर्द्धर्नाटकसहस्र सार्द्धं संपरिवृतोऽभिषे कमण्डपमनुप्रविशति अनुप्रविश्य च यत्रैवाभिषेकपीठं तत्रैवोपागच्छति उपागत्य चाभिषेकपीठ- मनुप्रदक्षिणीकुर्वन् २ 'स्वामिष्टे भक्तजनः' प्रमोदतेतरा’मिति आभियोगिकसुरमनस्तुष्टयुत्पाद- नहेतोरित्थमेव सृष्टिक्रमाच्च पौरस्त्येन त्रिसोपानकप्रतिरूपकेण आरोहति, आरुह्य च यत्रैव सिंहासनं तत्रैवोपागच्छति उपागत्य च पूर्वाभिमुखः सन्निषण्णः - सम्यग्यथौचित्येनोपविष्टः, अथानुचरा राजादयो यथोपचेरु- स्तथाऽऽह'तएण 'मित्यादि, ततस्तस्य भरतस्य राज्ञो द्वात्रिंशद्राजसहस्राणि यत्रैवाभिषेकमण्डपःतत्रैवोपुगच्छतीत्यादि व्यक्तं, नवरमभिषेकपीठं अनुप्रदक्षिणीकुर्वन्तः २ उत्तरत आरोहतां प्रदक्षिणाकरणेनैव सृष्टिक्रमस्य जायमानत्वात्, 'तए णमित्यादि पाठसिद्धं, तए णमित्यादि ततः स भरतो राजा आभियोग्यान् देवान् शब्दयित्वा एवमवादीत् क्षिप्रमेव भो देवानुप्रिया ! मम महान् अर्थो-मणिकनकरत्नादिक उपयुज्यमानो यस्मिन् स तथा तं महान् अर्ध-पूजा यत्र स तथा तं
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International