________________
२७०
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ३/१२२ 'अभिजिए ण'मित्यादि, अभिजितं मया निजकबलवीर्यपुरुषकारपराक्रमेण क्षुल्लहिमवद्गिरिसा गरमर्यादया केवलकल्पं भरतं वर्ष तच्छ्रेयः खलु ममात्मानं महाराज्याभिषेकेणाभिषेचयितुं-अभिषेकं कारयितुं इति कृत्वा-भरतं जितमिति विचार्य एवं सम्प्रेक्षते-राज्याभिषेकं विचारयति, अर्थतद्विचारोत्तरकालीनकार्यमाह-संपेहित्ता' इत्यादि, व्यक्तं, सिंहासने निषद्य यच्चक्रेतदाह-निसीइत्ता' इत्यादि, कण्ठ्यं, किमवादीदित्याह-'अभिजिएणमित्यादि, अभिजितं मया देवानुप्रिया! निजकबलवीर्यपुरुषकारपराक्रमेण क्षुद्रहिमवदिरिसागरमर्यादया केवलकल्पं भरतं वर्षं तद्यूयं देवानुप्रिया ! मम महाराज्याभिषेकंवितरत दत्त कुरुतेत्यर्थः, आवश्यकचूण्यार्दी तुभक्त्या सुरनरास्तं महाराज्याभिषेकाय विज्ञपयामासुर्भरतश्चतदनुमेने, अस्ति हिअयं विधेयजनव्यवहारोयप्रभूणांसमयसेवाविधौते स्वयमेवोपतिष्ठन्ते, सत्यप्येवंविधेकल्पेयदरतस्यात्रानुचरसुरदानामभिषेकज्ञापनमुक्तं तद् गम्भीरार्थकत्वादस्माईशां मन्दमेघसामनाकलनीयमिति ।
अथ यथा ते अङ्गीचक्रुस्तथाह-'तएण'मित्यादि, ततस्तेषोडश देवसहस्र यावतशब्दात् द्वात्रिंशद्राजसहस्रादिपरिग्रहः यावद्राजेश्वरतलवरादिसार्थवाहप्रभृतयः इति, भरतेनराशाइत्युक्ताः सन्तो 'हट्टतुट्ठ'त्ति इहैकदेशदर्शनमपि पूर्णतदधिकारसूत्रदर्शकं तेन हट्टतुट्ठचित्तमाणंदिआ इत्यादिपदानि ज्ञेयानि, करतलपरिगृहीतं दशनखं शिरस्यावर्त मस्तके अञ्जलिं कृत्वा भरतस्य राज्ञः एतं-अनन्तरोदितमर्थं सम्यग्-विनयेनप्रतिशृण्वन्ति-अङ्गीकुर्वन्ति, अथ 'जलाल्लाब्धात्मलाभा कृषिर्जलेनैव वर्द्धत' इति ज्ञातात्तपसाऽऽप्तं राज्य तपसैवामिनन्दतीति चेतसि चिन्तयन् भरतो यदुपचक्रमे तदाह-'तएणमित्यादि, प्राग्वत्, ततः स भरतोऽष्टमभक्ते परिणमति सति आभियोग्यान् देवान् शब्दयतिशब्दयित्वाच एवमवादीत्,-'खिप्पामेव त्तिक्षिप्रमेव भो देवानुप्रिया! विनीताया राजधान्या उत्तरपौरस्त्ये दिग्भागे ईशानकोणे इत्यर्थः तस्यात्यन्तप्रशस्तत्वात्, अभिषेकाय मण्डपः अभिषेकमण्डपस्तं विकुर्वत विकुळच मम एतामाज्ञप्तिं प्रत्यर्पयत,
'तएणमित्यादि, ततस्तेआभियोग्यादेवा भरतेन राज्ञाएवमुक्ताःसन्तो हष्टतुष्टादिपदानि प्राग्वत् एवं स्वामिन् ! यथैव यूयमादिशत आशया-स्वामिपादानामनुसारेण कुर्म इत्येवंरूपेण विनयेन वचनं प्रतिश्रृण्वन्ति-अभ्युपगच्छन्ति, 'पडिसुणित्ता' इत्यादि, प्रतिश्रुत्य च विनीताया राजधान्या उत्तरपौरस्त्यं दिग्भागमपक्रामन्ति-गच्छन्ति, अपक्रम्य च वैक्रियसमुदघातेनउत्तरवैक्रियकरणार्थकप्रयत्नविशेषेणसमवघ्नन्ति-आत्मप्रदेशान्दूरतोविक्षिपन्ति, तत्स्वरूपमेव व्यनक्ति सङ्खयेयानि योजनानि दण्ड इव दण्ड:-ऊर्ध्वाधआयतः शरीरबाहल्यो जीवप्रदेशस्तं निसृजन्ति-शरीरादहिर्निष्काशयन्ति निसृज्य च तथाविधान् पुदगलान् आददते इति, एतदेव दर्शयति, तद्यथा-रत्नानां-कर्केतनादीनां यावत्पदात्, ‘वइराणं वेरुलिआणं लोहिअखाणं मसारगल्लाणंहंसगडमाणपुलयाणं सोगन्धिआणंजोईरसाणंअंजणाणंअंजणपुलयाणंजायसवाणं अंकाणंफलिहाण मितिसंग्रहः, रिट्ठाणमिति साक्षादुपातं, एतेषांसम्बन्धिनोयथाबादरान्-असारान् पुद्गलान् परिशातयन्ति-त्यजन्ति यथासूक्ष्मान्-सारान् पुदलान् पर्याददते-गृहन्ति पर्यादाय चचिकीर्षितनिर्माणार्थं द्वितीयमपिवारंवैक्रियसमुद्घातेनसमवघ्नन्ति,समवहत्यच बहुसमरमणीयं भूमिभागं विकुर्वन्ति, तद्यथा
“से जहानामए आलिंगपुक्खरेइवा' इत्यादि, सूत्रतोऽर्थतश्चप्राग्वत्, ननुरत्नादीनांपुदगला
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org