________________
२६६
जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् ३ / १२१
वर्षन्ति, वज्राणि - हीरकाणि, पुनः प्रविशतो राज्ञो यदभूत्तदाह - 'तए ण' मित्यादि, ततस्तस्य भरतस्य राज्ञो विनीतां राजधानीं मध्यंमध्येनानुप्रविशतः श्रृङ्गाटकादिषु यावच्छब्दादत्र त्रिकचतुष्कादिग्रहः महापथपर्यन्तेषु स्थानेषु बहवोऽर्थार्थिप्रभृतयस्ताभिरुदारादिविशेषणविशिष्टाभिर्वाग्भिरभिनन्दयन्तश्चाभिष्टुवन्तश्च एवमवादिषुरिति सम्बन्धः, तत्र श्रृङ्गाटकादिव्याख्या प्राग्वत्, अर्थार्थिनो-द्रव्यार्थिनो - द्रव्यार्थिनः कामार्थिनो - मनोज्ञशब्दरूपार्थिनः भोगार्थिनोमनोज्ञगन्धरसस्पर्शार्थिनः लाभार्थिनो भोजनमात्रादिप्राप्तयर्थिनः ऋद्धिं गवादिसंपदं इच्छन्त्येषयन्ति वा ऋद्धयेषाः स्वार्थिकेकप्रत्ययविधानात् ऋद्धयेषिकाः किल्बिषिकाः- परविदूष कत्वेन पापव्यवहारिणो भाण्डादयः कारोटिकाः - कापालिकाः ताम्बूलस्थगीवाहका वा करंराजदेयं द्रव्यं वहन्तीत्येवंशीलाः कारवाहिनस्त एव कारवाहिकाः कारबाधिता वा शांखिकादयः शब्दाः श्री ऋषभनिष्क्रमणमहाधिकारे व्याख्याता इति ततो व्याख्येया इति, अथ ते किमवादिषुरित्याह‘जय जय नन्दा!’ इत्यादि पदद्वयं प्राग्वत् भद्रं ते - तुभ्यं भूयादिति शेषः, अजितं प्रतिरिपुं जय जितं - आज्ञावशंवदं पालय, जितमध्ये - आज्ञावशंवदमध्ये वस- तिष्ठ विनीतपरिजनपरिवृतो भूया इत्यर्थः, इन्द्र इव देवानां - वैमानिकानां मध्ये एश्वर्यभृत्, चन्द्र इव ताराणां - ज्योतिष्काणां चमर इवासुराणां दाक्षिणात्यानामित्यर्थः, एवं धरण इव नागानामित्यत्रापि ज्ञेयं, अन्यथा सामान्यतोऽसुराणामित्युक्ते बलीन्द्रस्य नागानामित्युक्ते च भूतानन्दस्योपानत्वेनोपन्यासो युक्तिमान् स्यात्, दाक्षिणात्येभ्य उदीच्यानामधिकतेजस्कत्वात्, बहूनि शतसहस्राणि यावद् बहीः पूर्वकोटीः बव्हीः पूर्वकोटाकोटीः विनीताया राजधान्याः क्षुल्लहिमवदिरिसागरमर्यादाकस्य केवलकल्पस्य भरतवर्षस्य ग्रामाकरनगरखेटकर्बटमडम्बद्रोणमुखपत्तनाश्रमसन्निवेशेषु सम्यक् प्रजापालनेनोपार्जितं - सल्लब्धं निजभुजवीर्यार्जितं, न तु नमुचिनेव सेवाद्युपायलब्धं यशो येन स तथा, 'महया जाव' 'त्ति यावत्पदात् 'हयनट्टगी आवाइअतंतीतलतालतुडि अघणमुइंगपडुप्पवाइअरवेणं विउलाई भोगभोगाई भुंजमाणे' इति संग्रहः, आधिपत्यं पौरपत्यं अत्रापि यावत्पदात् 'सामित्तं भट्टित्तं महत्तरगत्तं आणाईसरसेणावच्चं कारेमाणे पालेमाणे 'त्ति ग्राह्यं, अत्र व्याख्या प्राग्वत्, विचर इति कृत्वा जयजयशब्दं प्रयुञ्जन्ति । अथ विनीतां प्रविष्टः सन् भरतः किं कुर्वन् क्वाजगामेत्याह
'तए णं से भरहे राया नयनमालासहस्सेहिं पिच्छिज्ज्रमाणे २' इत्यादि, ततः स भरतो राजा नयनमालासहस्रैः प्रेक्ष्यमाण २ इत्यादिविशेषणपदानि श्रीऋषभनिष्क्रमणमहाधिकारे व्याख्यातानीति ततो ज्ञेयानि, नवरं 'अंगुलिमालासहस्सेहिं दाइजमाणे २' इत्यत्र जनपदागतानां जनानां पौरजनैर- ङ्गुलिमालासहस्रर्दर्श्यमान इत्यपि, यत्रैव स्वकं गृहं पित्र्यः प्रासादः यत्रैव च भवनवरावतंसकं जगद्वर्त्तिवासगृहशेखरभूतं राजयोग्यं वासगृहमित्यर्थः तस्य प्रतिद्वारं तत्रैवोपागच्छति, ततः किं करोतीत्याह- उपागत्य आभिषेक्यं हस्तिरलं स्थापयति स्थापयित्वा च तस्मात्प्रत्यवरोहति, प्रत्यवरुह्य च विसर्जनीयजनो हि वसर्जनावसरेऽवश्यं सत्कार्य इति विधिज्ञो भरतः षोडश देवसहस्नान् सत्कारयति सन्मानयति, ततो द्वात्रिंशतं राजसहस्रान्, ततः सेनापतिरत्न-गृहपतिरत्नादीनि त्रीणि सत्कारयति सन्मानयति, ततः त्रीणि षष्टानि - षष्ट्यधिकानि सूपशतानि - रसवतीकारशतानि
ततः अष्टादश श्रेणिप्रश्रेणीः ततः अन्यानपि बहून् राजेश्वरतलवरादीन् सत्कारयति सन्मानयति सत्कार्य सन्मान्य च पूर्णे उत्सवेऽतिथीनिव प्रतिविसर्जयति, अथ यावत्परिच्छदो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org