________________
२६५
वक्षस्कारः - ३
रच्छेअसारहिसुसंपग्गहिआणं बत्तीसतोणपरि मंडिआणं अकंकडवडेंसगाणं सचावसरपहरणावरणभरिअजुद्धसज्जाणं अट्ठसयं रहाणं पुरओ अहाणुपुव्वीए संपट्ठिअं' इति, उक्तार्थं चेदं प्राक् पद्मवरवेदिकाधिकारगतरथवर्णने नवरमत्र विशेषणानां बहुवचननिर्देशः कार्य, ततः उक्तविशेषणानां रथानामष्टशतं पुरतो यथानुपूर्व्या सम्प्रस्थितं ।
अथ पदातयः - 'तयनंतरं च णं असिसत्तिकुंततोमरसूललउडभिंडमालधणुपाणिसज्जं पाइत्ताणीअं पुरओ अहाणुपुव्वीए संपत्थिअं' ति, ततः पदात्यनीकं पुरतः सम्प्रस्थितं, अस्यादीनि पाणी हस्ते यस्य तत्तथा, सज्जं च सङ्ग्रामादिस्वामिकार्ये, तत्रास्यादीनि प्रसिद्धानि, नवरं शक्ति - त्रिशूलं शूलं तु एकशूलं 'लउड' त्ति लकुटो भिंदिपालः प्रागुक्तस्वरूप इति । अथ भरतः प्रस्थितः सन् पथि यद्यत् कुर्वन् यत्रागच्छति तदाह- ततः स भरताधिपो नरेन्द्रो हारावस्तृतसुकृतरतिदवक्षायावदमरपतिसन्निभया ऋद्ध्या प्रथितकीर्त्तिश्चक्ररलोपदिष्ट-मार्गोऽनेकराजवरसहस्रनुयातमार्गों यावत्समुद्रवभूतामिव मेदिनीं कुर्वन् २ सर्वद्वर्या सर्वद्युत्या यावन्निर्घोषनादितेन युक्त इति गम्यं, ग्रामाकरनगरखेटकर्बटमडम्बयावत्पदात् द्रोणुखपत्तनाश्रम-सम्बाधसहस्रमण्डितां स्तिमितमेदिनीकां वसुधामभिजयन् २ अग्रयाणि - वराणि रत्नानि प्रतीच्छन् २ तद्दिव्यं चक्ररलमनुगच्छन् २ योजनान्तरिताभिर्वसतिभिर्वसन् २ यत्रैव विनीता तत्रैवोपागच्छति तत्रागतः सन् यदकरोत्तदाह
'उवागच्छित्ता' इत्यादि, व्यक्तं, नवरं विनीताया राजधान्या अष्टमभक्तमित्यत्र विनीताधिष्ठायकदेवसाधनाय विनीतां राजधानीं मनसि कुर्वन् २ अष्टमं परिसमापयतीत्यर्थः, नन्विदमष्टामानुष्ठानमनर्थकंवासनगर्याश्चक्रवर्त्तिनां पूर्वमेव वश्यत्वात्, उच्यते, निरुपसर्गेण वासस्थैर्यामिति, यदाह - 'निरुवसग्गपञ्च्चयत्थं विनीअं रायहाणिं मणसी करेमाणे २ अट्टमभत्तं पगिण्हइ' इति प्राकृतऋषभचरित्रे, अथाष्टमभक्तसमाप्यनन्तरं भरतो यच्चक्रे तदाह
'तएण’मित्यादि, स्पष्टं, 'तहेव’त्ति पदसंग्रहश्चाभिषेक्यगजसज्जनमज्जनगृहमज्जनादिरूपः, अथ विनीताप्रवेशवर्णके लाघवायातिदेशमाह- तदेव सर्वं वाच्यं यथा हेट्ठा-अधस्तनसूत्रे विनीतां प्रत्यागमने वर्णनं तथाऽत्रापि प्रवेशे वाच्यमित्यर्थः, - नवरं महानिधयो नव न प्रविशन्ति, तेषां मध्ये एकैकस्य विनीताप्रमाणत्वात् कुतस्तेषां तत्रावकाशः ?, चतस्रः सेना अपि न प्रविशन्ति, शेषः स एव गमः-पाठो वक्तव्यः, कियत्पर्यन्तमित्याह - यावन्निर्घोषनादितेन युक्तो विनीताया राजधान्या मध्यंमध्ये-मध्यभागेन यत्रैव स्वक गृहं यत्रैव च भवनवरावतंसकस्य - प्रधानतरगृहस्य प्रतिद्वारं - बाह्यद्वारं तत्रैव गमनाय प्रधारितवान्- चिन्तितवान्, प्रवृत्तवानित्यर्थः प्रविशति चक्रिण्याभियोगिकसुरा यथा २ वासभवनं परिष्कुर्वन्ति तथाऽऽह - ततस्तस्य भरतस्य राज्ञो विनीतां राजधानीं मध्यभागेन प्रविशतः अपि - बाढं एके केचन देवा विनीतां साभ्यन्तरबाहिरिकां आसिक्तसम्भार्जितोपलिप्तां कुर्वन्ति, अप्येकके तां मञ्चातिमञ्चकलितां कुर्वन्ति, अप्येकके नानाविधरागवसनोच्छ्रितध्वजपताकामण्डितां अप्येकके लाइउल्लोइअमहितां कुर्वन्ति, अप्येकके गोशीर्षसरसरक्तचन्दनदर्दरदत्तपञ्चाङ्गुलि- तलेत्यादिविशेषणां कुर्वन्ति, ।
- यावद् गन्धवर्त्तिभूतां कुर्वन्ति, अमीषां विशेषणानामर्थ प्राग्वत्, अप्येकके हिरण्यवर्षं वर्षन्ति-रूप्यस्याघटितसुवर्णस् वा वर्षं वर्षन्ति, एवं सुवर्णव्धं रत्नवर्षं वज्रवर्षं आभरणवर्षं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org