________________
वक्षस्कारः-३
२५७
मुक्तानां-मुक्ताफलानां शिलानां-स्फाटिकादीनांप्रवालानांचसम्बन्धिनांआकराणामुत्पत्तिर्भवति, महाकाले निधाविति योगः। मू. (११४) जोहाण य उप्पत्ती आवराणं च पहरणाणंच।
सव्वा य जुद्धणीई माणवगे दंडनीई अ॥ वृ.अथाष्टमः-'जोहाणय'इत्यादि, योधानां-सूरपुरुषाणांचशब्दात्, कातराणामुत्पत्तिरभिधीयते, यथायोधत्वं कातरत्वंचजायते तथाऽत्राभिधीयतेइत्यर्थः, तथा आवरणानांच-खेटकानां सन्नाहानां वा प्रहरणानां-अस्यादीनां च सर्वा च युद्धनीति-व्यूहरचनादिलक्षणा सर्वापि च दण्डेनोपलक्षितानीतिर्दण्डनीति-समामादिश्चतुर्विधामाणवकनाम्नि निधावभिधीयते, ततः प्रवर्तत इति भावः। मू. (११५) नट्टविही नाडगविही कव्वस्स य चउव्विहस्स उप्पत्ती।
संखे महानिहिंमी तुडिअंगाणं च सव्वेसिं॥ वृ.अथ नवमः-'नट्टविहीणाडगविही' इत्यादि, सर्वोऽपिनृत्यविधि-नाटयकरणप्रकारः सर्वोऽपि च नाटकविधि-अभिनेयप्रबन्धप्रपञ्चनप्रकारः तथा चतुर्विधस्य काव्यस्य ग्रन्थस्यधर्मार्थस्काम३मोक्ष लक्षणपुरुषार्थनिबद्धस्याथवा संस्कृत १-प्राकृता २ पभ्रंश ३ संकीर्ण ४ भाषानिबद्धस्य गद्य १ पद्य २ गेय ३ चौर्ण ४ पदबद्धस्य वा उत्तत्ति-निष्पत्तिस्तद्विधि, तत्राद्यं काव्यचतुष्कं प्रतीतं, द्वितीयचतुष्के संस्कृतप्राकृते सुबोधे अपभ्रंशः-तत्तद्देशेषु शुद्धं भाषितं सङ्कीर्णभाषा-शौरसेन्यादि, तृतीयचतुष्केगा-अच्छन्दोबद्धं शस्त्रपरिज्ञाध्ययनवत्पद्यं-छन्दोबद्धं विमुक्त्यध्ययनवत् गेयं-गन्धारीत्या बद्धंगानयोग्यं चौर्णं-बाहुलकविधिबहुलं गमपाठबहुलं निपातबहुलं निपाताव्ययबहुलं ब्रह्मचर्याध्ययनपदवत्, अत्रचेतरयोर्गद्यपद्यान्तर्भावेऽपि यत्पृथगुपादानं तद्गानधर्माधेयधर्मविशिष्टतया विशेषणविवक्षणार्थं, संखेमहानिधौ, तथात्रुटिताङ्गानां च-तूर्याङ्गाणां सर्वेषां वा तथातथावाद्यभेदभिन्नानामुत्पत्ति शर्के महानिधाविति । मू. (११६) चक्कट्ठपइट्ठाणा अगुस्सेहा य नव य विखंपा।
बारसदीहा मंजूससंठिआ जण्हवीइ महे॥ वृ. अथ नवानामपि निधीनां साधारणं स्वरूपमाह-'चक्कट्ठ'इत्यादि, प्रत्येकमष्टसु चक्रेषु प्रतिष्ठानं-अवस्थानं येषांते तथा, यत्र प. बाह्यन्तेतत्र तत्राष्टचक्रप्रतिष्ठिता एववहन्ति, प्राकृतत्वादष्टशब्दस्य परनिपातः, अष्टौ योजनानि उत्सेधः-उच्चैस्त्वं येषां ते तथा, नव च योजनानीति गम्यते विष्कम्भेन-विस्तारेण नवयोजनविस्तारा इत्यर्थः, द्वादशयोजनदीर्घामंजूपावत्संस्थिताः, जाह्नव्या-गङ्गाया मुखे यत्र समुद्रं गङ्गा प्रविशति तत्र सन्तीत्यर्थः ।
'इत्युचुस्ते वयं गङ्गामुखमागधवासिनः।
आगतास्त्वां महाभाग!, त्वदभाग्येन वशीकृताः॥ इति त्रिषष्टीयचरित्रोक्तेः, चक्र्युत्पत्तिकालेचभरतविजयानन्तर चक्रिणा सह पातालमार्गेण भाग्यवत्पुरुषाणां हि पदाधःस्थितयो निधय इति चक्रिपुरमनुयान्ति।
मू. (११७) वेरुलिअमणिकवाडा कणगमया विविहरयणपडिपुण्णा। |13|17
॥१
॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org