________________
२५६
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ३/१०८ वृ.अथद्वितीयनिधानवक्तव्यतामाह-'गणिअस्स'इत्यादि, गणितस्य-सङ्ख्याप्रधानतया व्यवहर्त्तव्यस्य दीनारादेः नालिकेरादेर्वा चशब्दात् परिच्छेद्यधनस्य मौक्तिकादेरुत्पत्तिप्रकारः तथामानं-सेतिकादितद्विषयंयत्तदपिमानमेव धान्यादिमेयमितिभावः,तथाउन्मानं-तुषाकर्षादि तद्विषयं यत्तदप्युन्मानंखण्डगुडादिधरिमजातीयंधनमित्यर्थः, ततः समाहारद्वन्द्वस्तस्य च यत्प्रमाणं लिङ्गविपरिणामेन तत्पाण्डुके भणितमिति सम्बन्धः, धान्यस्य-शाल्यादे/जाना च-वापयोग्यधान्यानामुत्पत्ति पाण्डुके निधौ भणितः । मू. (१०९) सव्वा आभरणविही पुरिसाणं जा य होइ महिलाणं।
आसाण य हत्थीण य पिंगलगणिहिमि सा भणिआ॥ वृ. अथ तृतीयनिधिस्वरूपं निरूप्यते-'सव्वा आभरण'इत्यादि, सर्व आभरणविधिर्यः पुरुषाणां यश्चमहिलानां तथाऽश्वानां हस्तिनांचस यथौचित्येन पिङ्गलकनिधौ भणितः लिङ्गविपरिणामः प्राकृतशैलीभवः। मू. (११०) रयणाई सव्वरयणे चउदसवि वराइं चक्कवट्टिस्स।
उप्पजंते एगिदिआइंपंचिंदिआइंच॥ ___ वृ.अथ चतुर्थनिधिः-‘रयणाई'इत्यादि रलानि चतुर्दशापिवराणि चक्रवर्तिनश्चक्रादीनि सप्तैकेन्द्रियाणि सेनापत्यादीनि च सप्त पञ्चेन्द्रियाणि सर्वरत्नाख्ये महानिधावुत्पद्यन्ते, तदुत्पत्ति तत्र व्यावर्ण्यत इत्यर्थः, अन्ये त्वेवमाहुः-उत्पद्यन्ते एतत्प्रभावात् स्फातिमद्भवन्तीत्यर्थः । मू. (१११) वत्थाण य उप्पत्ती निष्फत्ती चेव सव्वभत्तीणं।
रंगाण य धोब्वाण य सव्वाएसा महापउमे॥ वृ. अथ पञ्चमो निधिः-'वत्थाण य'इत्यादि, सर्वेषां वस्त्रणांच या उत्पत्तिस्तथा सर्वविभक्तीनां-वस्त्रगतसर्वरचनानां रङ्गानांच-मञ्जिष्ठाकृमिरागकुसुम्भादीनां 'धोव्वाण य'त्ति सर्वेषां प्रक्षालन-विधीनां च या निष्पत्ति सर्वा एषा महापद्मनिधौ। मू. (११२) काले कालण्णाणं सव्वपुराणं च तिसुवि वंसेसु।
सिप्पसयं कम्माणि अतिन्नि पयाए हिअकराणि ॥ वृ.अथषष्ठो निधिः-'काले कालण्णाण'मित्यादि, कालनामनि निधौ कालज्ञानं-सकलज्योतिशास्त्रनुबन्धि ज्ञानं तथा जगतित्रयो वंशाः वंशःप्रवाहः आवलिका इत्येकार्था, तद्यथातीर्थकरवंशश्चक्रवर्तिवंशो बलदेववासुदेववंशश्च तेषु त्रिष्वपि वंशेषु यद्भाव्यं यच्च पुराणमतीतमुपलक्षणमेतद्वर्तमानं शुभाशुभं तत्सर्वमत्रास्ति, इतो महानिधितो ज्ञायत इत्यर्थः, शिल्पशतं-विज्ञानशतं घटलोहचित्रवस्त्रनापितशिल्पानां पञ्चानामपि प्रत्येकं विंशतिभेदत्वात् कर्माणि च कृषिवाणिज्यादीनिजघन्यमध्यमोत्कृष्टभिन्नानित्रीण्येतानिप्रजायाहितकराणि निर्वाहाभ्युदयहेतुत्वात् एतत्सर्वमत्राभिधीयते। मू. (११३) लोहस्स य उप्पत्ती होई महाकालि आगराणं च ।
रुप्पस्स सुवण्णस्स य मणिमुत्तसिलप्पवालाणं ।। वृ. अथ सप्तमो निधिः-‘लोहस्स य'इत्यादि, लोहस्य च नानाविधस्योत्पत्तिर्भवति महाकाले निधौ, तत्र तदुत्पत्तिराख्यायते इत्यर्थः, तथा रूप्यस्य सुवर्णस्य च मणीनां-चन्द्रकान्तादीनां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org