________________
जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् ३/१०४
बृ. 'तएण 'मित्यादि, ततो- गङ्गादेवीसाधनानन्तरं तद्दिव्यं चक्ररलं गङ्गाया देव्या अष्टाहिकायां महिमायां निवृत्तायां सत्यामायुधगृहशालातः प्रतिनिष्क्रामति यावत्पदादन्तरिक्षप्रतिपन्नपदादिपरिग्रहः गङ्गाया महानद्याः पश्चिमे कूले दक्षिणदिशि खण्डप्रपातगुहाभिमुखं प्रयातं चाप्यभवत्, ततः स भरतो राजा चक्ररलं पश्यतीत्यादिकं तावद्वक्तव्यं यावत्खण्डप्रपातगुहायामागच्छतीति पिण्डार्थः, सर्वा कृतमालवक्तव्यता- तमिस्रगुहाधिपसुरवक्तव्यता नेतव्या - ज्ञातव्येत्यर्थः, नवरं नाट्यमालको नृत्तमालको वा देवो गुहाधिपः प्रीतिदानं 'से' तस्य आलङ्कारिकभाण्डंआभरणभृतभाजनं कटकानि च शेषं - उक्तविशेषातिरिक्तं सर्वं ततैव-सत्कारसन्मानादिकं कृतमालदेवतावद्वक्तव्यं यावदष्टाहिका, अथ दाक्षिणात्यगङ्गानिष्कुटसाधनाधिकारमाह
२५४
‘तएण’मित्यादि, ततः–खण्डप्रपातगुहापतिसाधनानन्तरं स भरतो राजा नाटयमालकस्य देवस्याष्टाहिकायां पूर्णायां सुषेणं सेनापतिं शब्दयति, शब्दयित्वा च 'जाव सिन्धुगमो 'त्ति यावत्परिपूर्णः ‘एवं वयासी- गच्छाहिणं भो देवाणुप्पिआ ! सिन्धुए' इत्यादिकः सिन्धुगमः - सिन्धुनदीनिष्कुटसाधनपाठो गङ्गाभिलापेन नेतव्यः यावद् गङ्गाया महानद्याः पौरस्त्यं निष्कुटं - गङ्गायाः पश्चिमतो वहन्त्या सागरेण पूर्वतः परिक्षेपकारिणा गरिभ्यां दक्षिणतो वैताढयेन उत्तरतो लघुहिमवता कृता या मर्यादा-व्यवस्था तया सह वर्त्तते यत्तत्तथा, अन्यत्सर्वं प्राग्वत् सूत्रतो व्याख्यातश्च गङ्गागमने परिभावनीयं, अथ नाटयमालदेवस्य वशीकरणप्रयोजनमाह
'तए 'मित्यादि, ततो- गङ्गानिष्कुटसाधनानन्तरं स भरतः सुषेणं सेनापतिरत्नं शब्दयति शब्दयित्वा चैवमवादीदित्यादिकं अत्र गुहाकपाटोदघाटनाज्ञापनादिकं एकोनपञ्चाशन्मण्डलालेखनान्तं सर्वं तमिलगुहायामिव ज्ञेयं, अत्र यो विशेषस्तन्निरूपणार्थमाह- 'तीसेण' मित्यादि, तस्याः - खण्डप्रपतगुहायाः बहुमध्यदेशभागे यावत्पदात् 'एत्थ ण' मिति पदमात्रमवसेयं, उन्मग्नजलानिमग्नजले नाम्ना द्वे महानद्यौ स्तः, तथैव-तमिनगुहागतोन्मग्नानिमग्नानदीगमेन ज्ञातव्ये, नवरं खण्डप्रपातगुहायाः पाश्चात्यकटकात् प्रव्यूढे सत्यौ पूर्वेण गङ्गां महानदीं समाप्नुतः - प्रविशतः, शेषं विस्तारायामोद्वेधान्तरादिकं तथैव- तमिनागतनदीद्वयप्रकारेणावसेयं, नवरं गङ्गायाः पाश्चात्यकूले संक्रमवक्तव्यतासेतुकरणाज्ञादानतद्विधानोत्तरणादिकं ज्ञेयं, तथैव-प्राग्वद्ज्ञेयमिति, अथैतस्मिन्नवरे दक्षिणतो यज्जातं तदाह
'तएण 'मित्यादि, प्राग्व्याख्यातार्थं, अथोदघाटियोर्गुहादक्षिणद्वारकपाटयोः प्रयोजनमाह'तए ण'मित्यादि, ततः कपाटोदघाटनानन्तरं स भरतो राज्ञा चक्ररत्नदेशितमार्ग यावत्करणात् 'अनेगरायवरसहस्साणु आयमग्गे महया उक्तिट्ठसीहणायबोलकलकलरवेणं पक्खुभिअमहासमुद्दरवभूअंपिव करेमाणे' इति पदानां परिग्रहः, खण्डप्रपातगुहातो दक्षिणद्वारेण निरेति शशीव मेहान्धकारनिवहात्, प्राग्व्याख्यातं, ननु चक्रिणां तमिम्नया प्रवेशः खण्डप्रपातया निर्गमः किंकारणिकः ?, खण्डप्रपातया प्रवेशस्तमिस्रया निर्गमोऽस्तु, प्रवेशनिर्गमरूपस्य कार्यस्योभयत्र तुल्यत्वात्, उच्यते, तमिस्नया प्रवेशे खण्डप्रपातानिर्गमे च सृष्टि, तया च क्रियमाणस्य तस्य प्रशस्तोदर्कत्वात्, अन्यच्च खण्डप्रपातया प्रवेशे आसन्नोपस्थीयमान ऋषभकूटे चतुर्दिक्पर्यन्तसाधनमन्तरेण नामन्यासोऽपि न स्यादिति । अथ दक्षिणभरतार्द्धागतो भरतो यच्चक्रे तदाह
मू. (१०५) तए णं से भरहे राया गंगाए महानईए पच्चत्थिमिल्ले कूले दुवालसजोअणांयामं
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International