SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ वक्षस्कारः - ३ स्त्रीरत्नमस्यैवोप्रयोगीति योग्यताख्यापनार्थं, किंलक्षणां सुभद्रामित्याह - 'मानोन्मानप्राणयुक्तां तत्र मानं-जलद्रोणप्रमाणता उन्मानं - तुलारोपितस्यार्द्धभारप्रमाणता यश्च स्वमुखानि नव समुच्छ्रितः स प्रमाणोपेतः स्यात्, अयमर्थः । २५१ जलपूर्णायां पुरुषप्रमाणादीषदतिरिक्तायां महत्यां कुण्डिकायां प्रवेशितो यः पुरुषः सारपुदगलोपचितो जलस्य द्रोणं त्रिटङ्कसौवर्णिकगणनापेक्षया द्वात्रिंशत्सेरप्रमाणं निष्काशयति जलद्रोणोनां वा तां पूरयति स मानोपेतः, तथा सुरपुद्गलोपचितत्वादेव यस्तुलायामारोपितः सन्नर्द्धभारं पलससर्रात्मकं तुलयति स उन्मानोपेतः, तथा यद्यस्यात्मीयमङ्गुलं तेनाङ्गुलेन द्वादशांगुलानि मुखं प्रमाणयुक् अनेन च मुखप्रमाणेन नव मुखानि पुरुषः प्रमाणयुक्तः स्यात्, प्रत्येकं द्वादशांगुलैर्नवभिर्मुखैरष्टोत्तरशतमङ्गुलानां सम्पद्यते, ततश्चैतावदुच्छ्रयः पुरुषः प्रमाणयुक्तः स्यात्, एवं सुभद्राऽपि मानोन्मानप्रमाणयुक्ता, तथा तेजस्विनीं व्यक्तं रूपं सुन्दराकारो लक्षणानि च -छत्रादीनि तैर्युक्तां, स्थितमविनाशित्वाद्यैौवनं यस्याः सा तथा, केशवदवस्थिता - अवर्द्धिष्णवो मखा यस्याः सा तथा ततः परद्वयकर्मधारये तां, अयं भावः भुजमूलादिरोमाण्यजहद्रोमस्वभावान्येव तस्याः स्युरिति, अन्यथा तत्केशपाशस्य प्रलम्बतया व्याख्यानं उत्तरसूत्रे करिष्यमाणं नोपपद्येत, सर्वरोगनाशनीं, तदीयस्पर्शमहिम्ना सर्वे रोगा नश्यन्तीति, तथा बलकरीं सम्भोगतो बलवृद्धिकरीं नापरपुरन्ध्रीणामिवास्याः परिभोगे परिभोक्तुर्बलक्षय इति भावः ननु यदि श्रूयते समये हस्तस्पृष्टाश्वग्लानिदर्शनेन स्त्रीरत्नस्य स्वकामुकपुरुषविभीषिकोत्पादनं तर्हि कथमेतदुपपद्यते ?, उच्यते, चक्रवर्त्तिनमेवापेक्ष्यैतद्विशेषणद्वयस्य व्याख्यानात्, यत्तु सत्यपि स्त्रीरत्ने ब्रह्मदत्तचक्रभृतो दाहानुपशमः तत्र समाधानधस्तनग्रन्थे दण्डवर्णनव्याख्यातोऽवसेयं, ईप्सिताऋतुविपरीतत्वे नेच्छागोचरीकृता ये शीतोष्णस्पर्शास्तैर्युक्तां उष्णत शीतस्पर्शां शीतर्तौ उष्णस्पर्शा मध्यमत्र्त्ती मध्यमस्पर्शामिति भावः, त्रिषुस्थानेषु - मध्योदरतनुलक्षणेषु तनुकां- कृशां तनुमध्या - तनूदरी तन्वङ्गीतिकविप्रसिद्धेः, ननु सामुद्रिकेऽन्यान्यपि दन्तत्वगादीनि तनूनि कथितानि तथा च सति कथं तनूनां त्रिसङ्ख्याङ्कता युज्यते इति ? उच्यते, - विचित्रत्वात् कविरुचेस्त्रिकसङ्ख्याविशिष्टानुप्रासभासुरं बन्धं निबघ्नता ग्रन्थकारेण स्त्रीपुंससाधारणानि यानि त्रिकरूपाणि लक्षणानि समुच्चित्यानुप्रासाभङ्गार्थं त्रिकरूपत्वेन निबद्धानि तेन नेहापरग्रन्थविरोधः, अत एव दन्तत्वगादीनि तनून्यपि तस्या अत्र न विवक्षितानीति, एवमुत्तरत्रापि भाव्यं त्रिषु - गन्ताधरयोनिलक्षणेषु स्थानेषु ताम्रां - रक्तां, धगन्तरक्तत्वं हि स्त्रीणां दक्चुम्बने पुरुषस्यातीव मनोहरं भवतीति, त्रयों वलयो - मध्यवर्तिरेखारूपा यस्याः सा तथा तां, अत्र द्वितीयैकवचनलोपः प्राकृतत्वात्, त्रिवलीकत्वं स्त्रीणामतिप्रशस्यं पुंसां तु तथाविधं न, यदाह11 9 11 “शस्त्रान्तं स्त्रीभोगिनमाचार्यं बहुसुतं यथासङ्ख्यम् । एकद्वित्रिचतुर्भिर्वलिभिर्विद्यान् नृपं त्ववलिम् ॥” मू. (१०२) तिसु तणुअं तिसु तंबं तिवलीगतिउण्णयं तिगंभीरं । तिसु कालं तिसु सेअं तिआयतं तिसु अ विच्छिण्णं ।। वृ. तथा त्रिषु - स्तनजघनयोनिलक्षणेषु उन्नतां त्रिषु - नाभिसत्वस्वररूपेषु गम्भीरां त्रिषु - रोमराजीचूचुककनीनिकारूपेष्ववयवेषु कृष्णां त्रिषुदन्तस्मितचक्षुर्लक्षणेषु श्वेतां त्रिषु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003317
Book TitleAgam Suttani Satikam Part 13 Jambudwip pragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy