________________
वक्षस्कारः - ३
कर्तुकामः श्रीऋषभभूः ऋषभकूटगमनायोपक्रमते
मू. (९७) तए णं से भरहे राया तुरंए निगिण्हइ २ त्ता रहं परावत्तेइ २ त्ता जेणेव उसहकूडे तेणेव उवागच्छइ २ त्ता उसहकूडं पव्वयं तिक्खुत्तो रहसिरेणं फुसइ २ त्ता तुरए निगिण्हइ २ ता रहं ठवेइ २ त्ता छत्तलं दुवालसंसिअं अट्ठकण्णिअं अहिगरणिसंठिअं सोवण्णिअं कागणिरयणं परामुसइ २ त्ता उसभकूडस्स पव्वयस्स पुरथिमिल्लंसि कडगंसि नामगं आउडेइ
वृ. 'तए ण 'मित्यादि, ततो- हिमवत्साधनानन्तरं स भरतो राजा तुरगान् निगृहातिदक्षिणपार्श्वस्थहयावाकर्षति वामपार्श्वस्थहयौ पुरस्करोति, निगृह्य च रथं परावर्त्तयति परावर्त्तय यत्रैवर्षभकूटं तत्रैवोपागच्छति उपागत्य च ऋषभकूटं पर्वतं त्रिकृत्वो रथशीर्षेण स्पृशति, स्पृष्टा च रथं स्थापयति स्थापयित्वा च षट्तलं द्वादशाधिकं अष्टकर्णिकं अधिकरणिसंस्थितं सौवर्णिकंस्वर्णमयमष्टसुवर्णमयत्वात् काकणीरलं परामृशति, एतेषां पदानां व्याख्यानं प्राग्वत्, परामृश्य च ऋषभकूटस्य पर्वतस्य पौरस्त्ये कटके नामैव नामकं स्वार्ते कप्रत्ययः ‘आउडेइ’त्ति आजुडति सम्बद्धं करोति लिखतीत्यर्थः, कथं लिखतीत्याह
मू. (९८)
२४९
ओसप्पिणी इमीसे तइआए समाइ पच्छिमे भाए ।
अहमंसि चक्क वट्टी भरहो इअ नामधिज्ज्रेणं ।
वृ. ‘ओसप्पिणि’इत्यादि, अवसर्पिपयाः, अत्र षष्ठीलोपः प्राकृतत्वात्, अस्या तृतीयायाः समायाः - तृतीयारकस्य पश्चिमभागे तृतीये भागे इत्यर्थः, अहमस्मि चक्रवर्त्ती भरत इति नामधेयेन । मू. (९९) अहमंसि पढमराया अहयं भरहाहिवो नरवरिंदो ।
नत्थि महं पडिसत्तू जिअं मए भारहं वासं ॥
वृ. अहमस्मि प्रथमराजा - प्रधानराजा, प्रथमशब्दस्य प्रधानपर्यायत्वाद्यथा 'पढमे चंदजोगे' इत्यादौ, एतद्वयाख्यानेन ऋषभे प्रथमराजत्वं नागमेन सह विरुध्यते, अहं - भरत - क्षेत्राधिपः नरवराः-सामन्तादयस्तेषामिन्द्रः नास्ति मम प्रतिशत्रु – प्रतिपक्षः जितं मया भारतं वर्षमिति ।
मू. (१००) इतिकड्ड नामगं आउडेइ नामगं आउडित्ता रहं परावत्तेइ २ त्ता जेणेव विजयखंधावारणिवेसे जेणेव बाहिरिआ उवट्ठाणसाला तेणेव उवागच्छइ २ त्ता जाव चुल्लहिमवंतगिरिकुमारस्स देवस्स अट्ठाहिआए महामहिमाए निव्वत्ताए समाणीए आउहधरसालाओ पडिनिक्खमइ २ त्ता जाव दाहिणिं दिसिं वे अद्धपव्वयामिमुहे पयाते आवि होत्था ।
वृ. कृत्वा नामकं 'आउडेइ' त्ति लिखति, अस्य सूत्रस्य निगमार्थकत्वान्न पौनरुक्त्यं, अथ कृतकृत्यो यद् व्यवस्यति तदाह - 'नामगं आउडित्ता' इत्यादि, नामकं लिखित्वा रथं परावर्त्तयति परावर्त्य च यत्रैव विजयस्कन्धावारनिवेशो यत्रैव च बाह्योपस्थानशाला तत्रैवोपागच्छति उपागत्य च अत्र यावत्पदात् तुरगान्निगृहाति रतं स्थापयति ततः प्रत्यवरोहति मज्जनगृहं प्रविशति स्नाति ततः प्रतिनिष्क्रामति भुङ्क्ते बाह्योपस्थानशालायां सिंहासने उपविशति श्रेणीप्रश्रेणीः शब्दापयति क्षुल्लहिमवदिरिकुमारदेवस्याष्टाहिकाकरणं सन्दिशति ताश्च कुर्वन्ति आज्ञां च प्रत्यर्पयन्तीति ग्राह्यं, ततस्तद्दिव्यं चक्ररलं क्षुल्लहिमवदिरिकुमारस्य देवस्याष्टाहिकायां महामहिमायां निवृत्तायां सत्यामायुधगृहशालातः प्रयातं चाप्यभवत् ।
मू. (१०१) तए णं से भरहे राया तं दिव्वं चक्करयणं जाव वेअद्धस्स पज्जयस्स उत्तरिल्ले
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International