________________
२२
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् १/२
अम खामेइत्ति, अथवा भगवानपगतसंशयोऽपि स्वकीयबोधसंवादार्थम- ज्ञलोकबोधनार्थं शिष्याणां वा स्ववचसि प्रत्ययोत्पादनार्थं पृच्छति, अथवा इत्थमेव सूत्ररचनाकल्प इति न कश्चिद्विरोधः मू. (३) कहि णं भंते! जंबुद्दीवे ! केमहालए णं भंते! जंबुद्दीवे ? २ किंसंठिए णं भंते ! जंबुद्दीवे ३ किमायारभावपडोयारे णं भंते ! जंबुद्दीवे ४ पन्नत्ते ?,
गोयमा ! अयण्णं जंबुद्दीवे २ सव्वदीवसमुद्दाणं सव्वब्धंतराए १ सव्वखुड्डाए २ वट्टे तेल्लापूयसंठाणसंठिए वट्टे रहचक्कवालसंठाणसंठिए वट्टे पुक्खरकण्णियासंठाणसंठिए वट्टे पडिपुन्नचंदसंठाणसंठिए ४ एगं जोयणसयसहस्सं आयामविक्खंभेणं तिन्नि जोयणसयसहस्साइं सोलस सहस्साइं दोन्नि य सत्तावीसे जोयणसए तिन्नि य कोसे अट्ठावीसं च धनुसयं तेरस अंगुलाई अद्धंगलं च किंचिविसेसाहियं परिक्खेवेणं पन्नत्ते ॥
वृ. किमुक्तवानित्याह- 'कहिं णं' इति क-कस्मिन् देशे, "भंते' त्ति गुरोरामन्त्रणं, अत्र एकारो मागधभाषाप्रभवः ततश्च हे भदन्त ! हे सुखकल्याणस्वरूप ! 'भदुङ सुखकल्याणयो' रिति वचनात् प्राकृतशैल्या वा भवस्य - संसारस्य भयस्य वा भीतेरन्तहेतुत्वात्, भवान्तो भयान्तो वा तस्यामन्त्रणं हे भवान्त ! भयान्त ! वा प्राग्वर्णितान्वर्थको जम्बूद्वीपो नाम द्वीपो वर्त्तत इति शेषः, अनेन जम्बूद्वीपस्य स्थानं पृष्टं १ । तथा भदन्त ! किंप्रमाणो महानालयः - आश्रयो व्याप्यक्षेत्ररूपो यस्य स तथा, कियठप्रमाण- मस्य महत्वमित्यर्थः, एतेन प्रमाणं पृष्टं २ ।
अथ भदन्त ! किं संस्थानं यस्य स तथा, एतेन संस्थानं पृष्टं ३ । तथा भदन्त ! आकारभावःस्वरूपविशेषः कस्याकारभावस्य प्रत्यवतारो यस्य स किमा - कारभावप्रत्यवतारः, बहुलग्रहणाद्वैयधिकरण्येऽपि समासः, यद्वा आकारश्च -स्वरूपं भावाश्च - जगतीवर्षवर्षधराद्यास्तदगतपदार्था आकारभावास्तेषां प्रत्यवतारः - अवतरणं आविर्भाव इतियावत् आकारभावप्रत्यवतारः कः - की ग् आकारभावप्रत्यवतारो यस्मिन् स तथा अनेन जम्बूद्वीपस्वरूपं तद्गतपदार्थाश्च पृष्टाः ४ ।
-इति इन्द्रभूतिना प्रश्नचतुष्टये कृते प्रतिवचः श्रवणसोत्साहताकरणार्थं जगतप्रसिद्धगोत्राभिधानेन तमामन्त्रय निर्वचनचतुष्टयीं भगवानाह - गौतमेत्यत्र दीर्घत्वमामन्त्रणप्रभवं तेन हे गौतम! 'अयं' यत्र वयं वसामः, अनेन समयक्षेत्रबहिर्वर्त्तिनामसङ्ख्येयानां जम्बूद्वीपानां व्यवच्छेदः, जम्बूद्वीपो नाम द्वीपः । कथम्भूत इत्याह- 'सर्वद्वीपानां ' धातकीखण्डादीनां 'सर्वसमुद्राणां ' लवणोदादीनां सर्वात्मना - सामस्त्येन अभ्यन्तरः सकलतिर्यग्लोकमध्यवर्ती सर्वाभ्यन्तर एव सर्वाभ्यन्तरकः स्वार्थे कप्रत्ययः, अभ्यन्तरमात्रं धातकीखण्डेऽपि पुष्करवरद्वीपापेक्षयाऽस्ति अतः सर्वशब्दोपादा- नमिति, अनेन जम्बूद्वीपस्यावस्थानमुक्तं १ ।
तथा सर्वेभ्योऽपि - शेषद्वीपसमुद्रेभ्यः क्षुल्लको लघुः तथाहि--सर्वे लवणादयः समुद्राः धातकीखण्डादयश्च द्वीपा जम्बूद्वीपादारभ्य द्विगुणर विष्कम्भायामपरिधयः, ततः शेषद्वीपसमुद्रापेक्षयाऽयं दीर्घत्वं प्राकृतत्वात्, अनेन सामान्यतः प्रमाणमभिहितं, विशेषतस्त्वायामादिगतं प्रमाणमग्रे वक्ष्यति, अत्र विशेषप्रमाणमवसरप्राप्तमपि यत्रोक्तं तत्सूत्रकाराणां विचित्रा प्रवृत्तिरिति, तथा वृत्तः, स च शुषिरवृत्तोऽपि स्याद् अत आह— 'तैलापूपसंस्थानसंस्थितः ' तैलेन पकोऽपूपस्तैलापूपः, तैलेन हि पकोऽपूपः प्रायः परिपूर्णवृत्तो भवति न घृतपक्व इति तैलविशेषणं, तस्येव यत्संस्थानं तेन संस्थितः, अत्र तैलादित्वा - ल्लकारस्य द्वित्वं, तथा वृत्तो रथचक्रवालसंस्थानसंस्थितः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org