________________
वक्षस्कारः-१
२१
'उद्धेई'त्युक्तेक्रियारम्भमात्रमपि प्रतीयतेयथावक्तुमुत्तिष्ठत इतिततस्तद्व्यवच्छेदार्थमुक्तमुत्थवेति, उपागच्छतीत्युत्तरक्रियापेक्षया उत्थानक्रियायाः पूर्वकालताभिधानायोत्थायेति क्त्वाप्रत्ययेन निर्दिशति, यद्यपि द्वयोः क्रिययोः पूर्वोत्तरनिर्देशाभ्यां पूर्वकाल आक्षेपलभ्य एव तथापि भुञ्जानो व्रजति इत्यादौ द्वयोः क्रिययोर्योगपद्यदर्शनादानन्तर्यसूचनार्थमित्थमुपन्यासः, उत्थानक्रियासव्यपेक्षत्वादुपगमनक्रियाया इति, तथा प्राकृतशैलीवशादव्ययत्वाद्वा 'येने ति यस्मिन्नित्यर्थे द्रष्टव्यं, यस्मिन्नेव दिग्भागे श्रमणो भगवान् महावीरो वर्तते। 'तेणेवे'ति तस्मिन्नेव दिग्भागे उपागच्छति,
इह वर्तमानकालनिर्देशस्तत्कालापेक्षया उपागमनक्रियाया वर्तमानत्वात्, परमार्थतस्तूपागतवानिति द्रष्टव्यं, उपागम्य च श्रमणं भगवन्तं महावीरं कर्मताऽऽपन्नं त्रिकृत्वः-त्रीन् वारान् ‘आदक्षिणप्रदक्षिणं करोति' आदक्षिणाद्-दक्षिणहस्तादारभ्यप्रदक्षिणः-परितो भ्राम्यतो दक्षिण एव आदक्षिणप्रदक्षिणस्तं करोति, कृत्वा वन्दते-वाचा स्तौति नमस्यतिकायेन प्रणमति, वन्दित्वा नमस्थित्वा च नैवात्यासन्नः- अतिनिकटोऽवग्रहपरिहारात्, अथवा नात्यासन्ने स्थाने वर्तमान इति गम्यं, तथा नैवातिदूरे-- अतिविप्रकृष्टेनौचित्यपरिहारात्, अथवा नातिदूरे स्थाने वर्तत इति गम्यं, 'शुश्रूषन्' भगवद्वचनानि श्रोतुमिच्छन् अभि-भगवन्तं लक्षीकृत्य मुखमस्येत्यभिमुखः विनयेनप्रकृष्ट:-प्रधानो ललाटतटघटितत्वेनाञ्जलि-संयुतहस्तमुद्राविशेषः कृतो-विहितो येन स प्राञ्जलिकृतः, आहि- ताग्यादेराकृतिगणतया कृतशब्दस्य परनिपातः, 'पर्युपासीनः' सेवमानः, अनेन विशेषणकदम्बकेन च श्रवणविधिदर्शितः, यदाह॥१॥ “निद्दाविगहापरिवजिएहिं गुत्तेहिं पंजलिउडेहिं ।
___ भत्तिबहुमानपुव्वं उवउत्तेहिंसुणेयव्वं ॥" ‘एवं वक्ष्यमाणप्रकारेणावादीत्-जम्बूद्वीपवक्तव्यताविषयं प्रश्नमुक्तवान्, जम्बूद्वीपप्रज्ञप्तिमातृकारूपचतुःप्रश्नी हृदयाभिसंहितां भगवत्पुरतो वाग्योगेन प्रकटीचकारेत्याशयः । ननु गौतमोऽपि चतुर्दशपूर्वधारीसर्वाक्षरसन्निपाती सम्भिन्न श्रोताः सकलप्रज्ञापनीयभावपरिज्ञानकुशलः सूत्रतश्च प्रवचनस्य प्रणेता सर्वज्ञदेशीय एव, उक्तं च॥१॥ “संखाईएविभवे साहइ जं वा परो उ पुच्छिज्जा।
नयणं अणाइसेसी वियाणई एस छउमत्थो।" इति कथ तस्य संशयसम्भवः? तदभावाच कथं पृच्छतीति?, यद्यपि भगवान् गौतमो यथोक्तगुणविशिष्टस्तथापि तस्याद्यापि छद्मस्थत्वात् कदाचिदनाभोगोऽपि जायते, यत उक्तम्॥१॥ “नहि नामानाभोगश्छद्मस्थस्येह कस्यचिन्नास्ति।
ज्ञानावरणीयं हि ज्ञानावरणप्रकृति कर्म॥" ततोऽनाभोगसम्भवादुपपद्यते भगवतो गौतमस्यापि संशयः, न चैतदनाएं यदुक्तमुपासकदशासु आनन्दश्रमणोपासकावधिनिर्णयविषये-“तेणंभंते! किंआनंदेणंसमणोवासाएणं तस्स ठाणस्स आलोइयव्वं जाव पडिक्कमियव्वं उदाहु मए?, तओ णं गोअमाइ समणे भगवं महावीरे एवं वयासी-गोअमा तुमंचेवणं तस्स ठाणस्स आलोयाहि जाव पडिक्कमाहि, आनंदंच समणोवासयंएयमटुंखामेहि, तएणंसमणेभगवंगोअमे समणस्स भगवओ महावीरस्सअंतिए एअमटुंविनएणं पडिसुणइ २ त्ता तस्स ठाणस्सआलोएइजाव पडिक्कमइ, आनंदंच समणोवासयं
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org