________________
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् १/२
वधिमनः पर्यायरूपज्ञानचतुष्कसमन्वित इत्यर्थः, उक्तविशेषणदयकलितोऽपिकश्चिनसमग्रश्रुतविषयव्यापिज्ञानो भवति, चतुर्दशपूर्वविदां षटस्थानपतितत्वेन श्रवणात्, अत् आह-सर्वेचते अक्षरसन्निपाताश्च-अक्षरसंयोगास्ते ज्ञेयतया सन्ति यस्य स तथा।
-किमुक्तं भवति ?-या काचिजगति पदानुपूर्वी वाक्यानुपूर्वी वा सम्भवति ताः सर्वा अपिजानाति, अथवा श्रव्याणि-श्रुतिसुखकारीणिअक्षराणि साङ्गत्येन नितरांवदितुंशीलमस्येति स तथा, एवंगुणविशिष्टो भगवान् विनयराशिरिव साक्षादितिकृत्वा शिष्याचारत्वाच्च श्रमणस्य भगवतो महावीरस्य अदूरसामन्तेन विहरतीति योगः, तत्र दूरं-विप्रकृष्टं सामन्तं-संनिकृष्टं तप्रतिषेधाद् अदूरसमान्तं तत्र, नातिदूरे नातिनिकटे इत्यर्थः, किंविधः सन् तत्र विहरतीति? -ऊर्ध्वंजानुनी यस्य स तथा, शुद्धपृथिव्यासनवर्जनादौपग्रहिकनिषद्यायाअभावाचोत्कटुकासन इत्यर्थः, अधःशिराःनोंर्द्ध तिर्यग्वा विक्षिप्तष्टि, किन्तु नियतभूभागनियमितष्टिरित्यर्थः, ध्यानं धर्मशुक्लंवातदेव कोष्ठः-कुशूलोध्यानकोष्ठस्तमुपागतः, यथा हि कोष्ठकेधान्यं निक्षिप्तभविप्रसृतं भवति एवंभगवानपि ध्यानतोऽविप्रकीर्णेन्द्रियान्तःकरणवृत्तिरित्यर्थः, संयमेन-पञ्चाश्रवनिरोधादिलक्षणेन तपसा-अनशनादिनाचशब्दोऽत्र समुच्चयार्थो लुप्तो द्रष्टव्यः, संयमतपसोहणंचानयोः प्रधानमोक्षाङ्गत्वख्यापनार्थं, प्राधान्यं च संयमस्य नवकर्मानुपादानहेतुत्वेन तपसश्चपुराणकर्मनिजराहेतुत्वेन, अभिनवकर्मानुपादानात् पुराणकर्मक्षपणाच सकलकर्मक्षयलक्षणो मोक्ष इति ।
आत्मानं 'भावयन्' वासयन् ‘विहरतीति तिष्ठतीत्यर्थः, ततो ध्यानकोष्ठोपगततया विहरणादनन्तरं, ‘से' इति प्रस्तुतपरामर्शार्थ, अनेन गतार्थत्वे यत्पुनर्भगवान् गौतम इत्युपादानं तत्पुनः पुनरुपात्तं पापापनोदकं भगवतो गौतमस्य नामेति सुगृहीतनामधेयत्वमाह, इत्यादि, जातश्रद्धादिविशेषणः सन्नुत्तिष्ठतीतियोगः, तत्र जाता-प्रवृत्ताश्रद्धा-इच्छा वक्ष्यमाणार्थतत्वज्ञानं प्रति यस्य स तथा, तथा जातः संशयो यस्य स तथा, संशयो नामानवधारितार्थं ज्ञानं, स चैवं-तीर्थान्तरीयैर्जम्बूद्वीपवक्तव्यताऽन्यथोपदिश्यते ततः किं तत्वमिति संशयः, तथा जातं कुतूहलं यस्य स तथा, जातीत्सुक्य इत्यर्थः, कथमेनां जम्बूद्वीपवक्तव्यतां सर्वज्ञो भगवान् प्रज्ञापयिष्यतीति, तथाउत्पन्ना-प्रागभूता सती भूता श्रद्धा यस्यासौ, अथजातश्रद्धइत्येतावदेवास्तु किमर्थमुत्पन्नश्रद्ध इत्यभिधीयते ?, प्रवृत्तश्रद्धत्वेनैवोत्पनश्रद्धत्वस्य लब्धत्वात्, न ह्यनुत्पन्ना श्रद्धा प्रवर्तते इति, अत्रोच्यते, हेतुत्वप्रदर्शनार्थं, हेतुत्वप्रदर्शनं च उचितमेव, यथाहुः-"प्रवृत्तदीपामप्रवृत्तभास्करां, प्रकाशचन्द्रां बुबुधे विभावरीम् ।" इह यद्यपि प्रवृत्तदीपत्वादेवाप्रवृत्तभास्करत्वमवगतं तथाप्यप्रवृत्तभास्करत्वं प्रवृत्तदीपत्वादेर्हेतुतयोपन्यस्तमिति सम्यक्, तथा 'उप्पन्नसंसये उप्पन्नकोउहल्ले' इति प्राग्वत्, तथा 'संजायसढे' इत्यादिपदषट्कं प्राग्वत्, नवरमिह संशब्दः प्रकर्षादिवचनोवेदितव्यः, अन्येत्वाहुः-जातश्रद्धत्वाद्यपेक्षयोत्पन्नश्रद्धत्वादयः समानार्था विवक्षितार्थस्य प्रकर्षप्रतिपादनाय स्तुतिमुखेन ग्रन्थकृतोक्ताः, न चैवं पुनरुक्तदोषः, यदाह॥१॥ “वक्ता हर्षभयादिभिराक्षिप्तमनाः स्तुवंस्तथा निन्दन्।
यत्पदमसकृद् ब्रूते तत्पुनरुक्तं न दोषाय ॥" इति। उत्थानमुत्था-ऊर्ध्वं वर्तनं तया उत्तिष्ठति-उर्दो भवति, ऊर्द्धति पाठान्तरम्, इह
।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org