________________
वक्षस्कारः-१
२३
रथस्य-अवयवे समुदायोपचारात्रथाङ्गस्य चक्रस्य चक्रवालं-मण्डलं तस्येव संस्थानेन संस्थितः, अथवा चक्रवालं-मण्डलं मण्डल- त्वधर्मयोगाच्च रथचक्रमपि रथचक्रवालं शेषं प्राग्वत, एवं वृत्तः 'पुष्करकर्णिकासंस्थानसंस्थितः' पुष्करकर्णिकाःपद्मबीजकोशः मकलमध्यभागइतियावत्, वृत्तः परिपणर्मचन्द्रसंस्थानसंस्थितःप्राग्वत्पदद्वयंभावनीयं, एकेनैवचरितार्थकत्वेऽपिनानादेशजविनेयानांक्षयोपशमवैचित्र्यात् कस्यचित् किञ्चिद्बोधकमित्युमापदनात्वं, अतएव प्रत्युपमापदं योज्यमानत्वात् वृत्तपदस्य न पौनरुक्त्यशङ्काऽपि, एतेन संस्थानमुक्तं ३। ___अथ सामान्यतः प्रागुक्तंप्रमाणं विशेषतो निर्वक्तुमाह-एकं योजनशतसहनं, प्रमाणाकुलनिष्पन्नंयोजनलक्षमित्यर्थः 'आयामविष्कम्भेन' अत्रचसमाहारद्वन्द्वस्तेन क्लीबेएकवद्भावः, आयामविष्कम्भाभ्यामित्यर्थः,अत्राह परः-जम्बूद्वीपस्य योजनलक्षेप्रमाणयुक्तंतच्चपूर्वपश्चिमयोजगतीमूलविष्कम्भसत्कद्वादशद्वादशयोजनक्षेपे चतुर्विंशत्यधिकं भवति, तथा(च) यथोक्तंमानं विरुध्यत इति, न, जम्बूद्वीपजगतीविष्कम्भेन सहैव लक्षं पूरणीयं, लवणसमुद्रजगतीविष्कम्भेन लवणसमुद्रलक्षद्वयं, एवमन्येष्वपि द्वीपसमुद्रेषु, अन्यथा समुद्रमानाज्जगतीमानस्य पृथगभणने मनुष्यक्षेत्रपरिधिरतिरिक्तः स्यात्, सहि पञ्चचत्वारिंशलक्षप्रमाणक्षेत्रापेक्षयाऽभिधीयते, अयमेवाशयः श्रीअभयदेवसूरिभिः चतुर्थाङ्गवृत्तौ पञ्चपञ्चाशत्तमे समवाये प्रादुष्कृतोऽस्तीति, तथा त्रीणियोजनशतसहस्राणि षोडशसहस्राणिद्वे योजनशतेसप्तविंशे-सप्तविंशत्यधिके त्रयःक्रोशा अष्टाविंशं-अष्टाविंशत्यधिकं धनुःशतंत्रयोदशाङ्गुनिअर्धाङ्गुलञ्च किञ्चिद्विशेषाधिकमित्येतावान् परिक्षेपेण-परिधिना प्रज्ञप्तः।अत्रसप्तविंशमष्टाविंशमित्यादिकाःशब्दाः अधिकंततसंख्यमस्मिन् शतसहस्र शतिशद्दशान्तायाड' इति सूत्रेण डप्रत्यये सप्तविंशत्यधिकमष्टाविंशत्यधिकमित्यर्थः। परिध्यानयनोपायस्त्वयं चूर्णिकारोक्तः॥१॥ “विक्खंभवग्गदहगणकरणी वट्टस्स परिरओ होइ।
विक्खंभपायगुमिओ परिरओ तस्स गणियपयं ॥" अत्र व्याख्या-जम्बूद्वीपस्य विष्कम्भो-व्यासः, १०००००, तद्वर्गः क्रियते जातं १००००००००००, सच दशगुणः क्रियते, शून्यानि ११, तदनु वर्गमूलमानीयते। ॥१॥ 'विषमात्पदतस्त्यकत्वा वर्गं स्थानच्युतेन मूलेन ।
द्विगुणेन भजेच्छेषं लब्धं विनिवेशयेत् पङ्क्त्याम् ।। ॥२॥ तद्वर्गं संशोध्य द्विगुणीकुर्वीत पूर्ववल्लब्धम् ।
उत्सार्य ततो विभजेच्छेषं द्विगुणीकृतंदलयेत् ॥ -इत्यनेन करणेनानीते वर्गमूले जातोऽधस्तनच्छेदराशि ६३२४४७, अत्र सप्तकरूपोऽन्त्योऽङ्को न द्विगुणीकत इति तद्वर्जं शेषं सर्वमप्यर्थीक्रियते, लब्धं योजनानि ३१६२२७, छेदराशिश्च सप्तकेऽपि द्विगुणीकृते जातः ६३२४५४, उपरि शेषांशाः ४८४४७१, एते च योजनस्थानीया इति क्रोशानयनार्थं चतुर्भिर्गुणिताः जाताः १९३७८८४, छेदराशिना भागे लब्ध क्रोशाः ३, शेषं ४०५२२, धनुरानयनाय द्विसहस्रगुणं, जातं ८१०४४०००,छेदराशिना भागे लब्धानि धनूंषि १२८, शेषं ८९८८८, षन्नवत्यङ्गुलमानत्वाद्धनुषोऽङ्गुलानयनार्थं षण्णवतिगुणं, जातं ८६२९२४८, छेदेन भागे लब्धं अङ्गुलानि १३, शेषं४०७३४६, अत्र व्याख्यातो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org