________________
वक्षस्कारः - ३
कार्ये किं बहु अधिक्षिपामः ? तस्य क्रियान्तरापादनेन संस्कारानर्हत्वात्, इतः क्षिप्रमेवापक्रामतमत्कुणा इवापयात, अथवेति विकल्पान्तरे यदि नापक्रामत तर्हि अद्य-साम्प्रतमेव पश्यत चित्रं जीवलोकं - वर्त्तमानभवादन्यं भवं पृथिवीकायिकादिकं, अपमृत्युं प्राप्नुतेत्यर्थः क्रियादेशेऽत्र पञ्चमीप्रयोगः, ननु निरुपक्रमायुषां देवानामपमृत्योरसम्भवात् सबाधमिदं वचनं, उच्यते, सूत्राणां विचित्रत्वेन भयसूत्रत्वेन विवक्षणान्न दोषः । 'तए ण' मित्यादि, सर्वं प्राग्वत्, नवरं मेघानीकं प्रतिसंहरन्ति-घनघटामपहरन्ति, वृष्ट्युपरमे च ततः सम्पुटाञ्चक्रिसैन्यं निर्गच्छदुपलभ्य लौकिकैरुक्तं ब्रह्मणा सृष्टमिदमण्डकं तत इयं जगतः प्रसूतिरित्येवं सर्वत्र प्रवादोऽभूत्ततोऽपि च ब्रह्माण्डपुराणं नाम शास्त्रमभूदिति प्रसङ्गादोध्यमिति,
२४५
अथ यदुक्तमेव क्यासित्ति तत्र किमवादिषुरित्याह- 'तएन' - मित्यादि, हे देवानुप्रिया ! एष भरतो राजा महर्द्धिको यावन्नो खलु एष शक्यते देवादिभिरस्त्रप्रयोगादिभिर्याव्रन्निषेधयितुं तथापि अस्माभिर्देवानुप्रिया ! युष्माकं प्रीत्यर्थं भरतस्य राज्ञ उपसर्ग कृतः, तद्गच्छत देवानुप्रिया ! यूयं स्नानादिविशेषणाः आर्द्रा - सद्यः स्नानव- शाजलक्लिन्नौ पटशाटकौ - उत्तरीयपरिधाने येषां ते तथा, एतेन सेवाविधावविलम्बः सूचितः, अवचूलकं - अधोमुखाश्ञ्चलं मुत्लाञ्चलं यथा भवत्येवं नियत्थं येषां ते तथा, एतेन परिहितवस्त्रबन्ध- नकालावध्यपि न विलम्बो विधेय इति सूचितं, अथवाऽनेनाबद्धकच्छ त्वं सूचितं, तदुपदर्शनेन स्वदैन्यं दर्शितमिति, बद्धकच्छत्वदर्शने हि उत्कटत्वसम्भावनाया जनप्रसिद्धत्वात्, अग्रयाणि वराणि रत्नानि गृहीत्वा प्राञ्जलिकृताः - कृतप्राञ्जलयः पादपतिताः–चरणन्यस्तमौलयो भरतं राजानं शरणमुपेत-यात प्रणिपतितवत्सलाःप्रणम्रजनहितकारिणः खलु उत्तमपुरुषाः, नास्ति भे-भवतां भरतस्य राज्ञोऽन्तिकादयमिति कृत्वा इति उदित्वेत्यर्थ यस्या दिशः प्रादुर्भूतास्तामेव दिशं प्रति गता इति ।
अथ भग्नेच्छाच्छा यच्चस्तदाह- 'तएण 'मित्यादि, सर्वं गतार्थं, नवरं रत्नान्युपनयन्तिप्राभृतीकुर्वन्तीत्यर्थः, अथ यदुक्तं 'एवं वयासि' त्ति तत्र किमवादिषुरित्याह
यू. (९१) वसुहर गुणहर जयहर, हिरिसिरिधीकिततिधारकमरिंद । लक्खणसहस्सधारक रायमिदं ने चिरं धारे ॥
कृ. 'वसुहर' इत्यादि, हे वसुधर ! - द्रव्यधर षट्खण्डवर्त्तिद्रव्यपते इतियावत्, अथवा तेजोधर गुणधर - गुणवान् जयधर-विद्वेषिभिरधर्षणीय ! हीः -लज्जा श्रीः - लक्ष्मीधृतिः - सन्तोषः कीर्ति - वर्णवादः एतेषा धारक नरेन्द्रलक्षणसहस्राणां - अनेकलक्षणानां धारक नो- अस्माकं राज्यमिदं चिरं धारय - पालय इत्यर्थः, अस्मद्देशाधिपतिर्भव चिरकालं यावदिति प्रथमगाथार्थः । पू. (९२) हयवइ गयवइ नरवइ नवनिहिवइ भरहवासपढमवई ।
बत्तीसजणवयसहस्सराय सामी चिरं जीव ।।
वृ. 'हयवइ गयवई' इत्यादि, हे हयपते ! गजपते ! हे नरपते ! नवतनिधिपते ! हे भरतवर्षप्रथमपते ! द्वात्रिंशजनपदसहस्राणां -देशसहस्राणां ये राजानस्तेषां स्वामिन् ! चिरं जीव २ इति द्वितीयगाथार्थः । मू. (९३)
पढमणरीसर ईसर हिअईसर महिलिआसहस्साणं । देवसयसाहसीसर चोद्दसरयणीसर जसंसी ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org