________________
२३६
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ३/८१ अकालतालु-अश्यामतालुकं, पूर्वरक्ततालुत्वेवर्णितेऽपियत्पुनरकालतालुइतिविशेषणंतत्तालुनः श्यामत्वमतितरामपलक्षणमिति तन्निषेधख्यापनार्थं, चः समुच्चये, काले-अराजकानां राजनिर्णयार्थके अधिवासनादिके समये हेषते-शब्दायतीत्येवंशीलं कालहेषि, जिता निद्रा-आलस्यं येन तत्, कार्येष्वप्रमादित्वात्, यथाश्रुतार्थे व्याख्यायमाने हयशा-स्त्रविरोधः-तथाहि॥१॥ “सदैव निद्रावशगा, निद्राच्छेदस्य सम्भवः ।
जायते सगरे प्राप्ते, कर्करस्य च भक्षणे॥" इति। यद्वा जितनिद्रत्वं समरावसरप्राप्तत्वादश्वरत्नत्वेनाल्पनिद्राकत्वाच, तथा गवेषकंमूत्रपुरीषोत्सर्गादौ उचितानुचितस्थानान्वेषकं, जितपरीषह-शीतातपाद्यातुरत्वेऽपि अखिन्नं, जात्यां प्रधाना जाति-मातृपक्षस्तत्र भवं जात्यजातीयं निर्दोषमातृकमित्यर्थः, निर्दोषपितृकत्वं तु प्रागुक्तं, ईद्दग्गुणयुक्तो हि समये स्वामिने न द्रुह्यति मातृमुखावगतस्वकाणत्वव्यतिकरप्रकुपितचिन्तितस्वामिद्रोहककिशोरवत्, मल्लि-विचकिलकुसुमं तद्वच्छुभ्रः अश्लेष्मलत्वेनाविलमपूतिगन्धिच घ्राणं-प्रोथोयस्यतत्तथा, ईकारःप्राकृतशैलीभवः, ततः पूर्वपदेन कर्मधारयः, शुकपत्रवत्-शुकपिच्छवत् सुष्टुवर्णो यस्य तत्तथा, कोमलंच कायेन, ततः पदद्वयस्य कर्मधारयसमासः, मनोऽभिरामं 'कमलामेलं नामेण मित्यादिप्राग्वव्याख्येयमिति।
ततः सकिंकृतवानित्याह-कुवलय'इत्यादि, तदसिरत्नरपतेर्हस्ताद्गृहीत्वास सेनानीर्यत्रैवापातकिरातास्तत्रैवोपागच्छति, उपागत्य चापातकिरातैः सार्द्ध सम्प्रलग्नश्चाप्यभूयोद्धमिति शेषः, तच्छब्दवाक्यं यच्छब्दवाक्यमपेक्षत इत्याहियते यदिति, यत् किंविशिष्टमित्याहकुवलयदलश्यामलं नीलोत्पलदलसहशमित्यर्थः,चःसमुच्चये, रजनिकरमण्डलं-चन्द्रबिम्बंतस्य निभं-सध्शं परिभ्राम्यमाणं यद्वर्तुलिततेजस्कत्वेन नीलोत्पलदलसद्दशमित्यर्थः, चः समुच्चये, रजनिकरमण्डलं-चन्द्रबिम्बंतस्य निभं-सद्दशं परिभ्राम्यमाणंयद्वर्तुलिततेजस्कत्वेन चन्द्रमण्डलाकारं दृश्यतेइत्यर्थः, अथवा रजनिकरमण्डलनिभं मुखे इतिशेषः, शत्रुजनविनाशनं, कनकरत्नमयो दण्डो-हस्तग्रहणयोग्यो मुष्टिय॑स्यतत्तथा, नवमालिकानामकं यत्पुष्पंतद्वत् सुरभिगन्धो यस्य तत्तथा, नानामणिमय्यो लता-वल्लयाकारचित्राणि तासां भक्तयो-विविधरचनास्ताभिश्चित्रं-आश्चर्यकृत, चः विशेषणसमुच्चये,प्रधौता-शाणोत्तारेण निष्किट्टीकृताअतएव 'मिसिमिसेंति'त्ति दीप्यमाना तीक्ष्णा धारा यस्य तत्तथा, दिव्यंखङ्गरत्नं-खगजातिप्रधानं लोकेऽनुपमानं अनन्यसध्शत्वात्, तच्च पुनर्बहुगुणमस्तीति शेषः, कीशं?
वंशा-वेणवः रूक्षा-वृक्षाः श्रृङ्गाणि महिषादीनां अस्थीनि प्रतीतानि दन्ता हस्त्यादीनां कालायसं-लोहं विपुललोहदण्डकश्च-वरवजं हीरकजातीयं तेषां भेदकं, अत्र वज्रकथनेन दुर्भेद्यानामपि भेदकत्वंकथि, किंबहुना?-यावत्सर्वत्राप्रतिहतं, दुर्भेदेऽपिवस्तुनिअमोघशक्तिकमित्यर्थः, किं पुनर्जङ्गमानां-चराणांपशुमनुष्यादीनांदेहेषु, अत्र यावच्छब्दो नसंग्राहकः किन्तु भेदकशक्तिप्रकर्षोक्तयेऽवधिवचनः, अथ तस्य मानमाहमू. (८२) पन्नासंगुलदीहो सोलस से अंगुलाई विच्छिण्णो।
अद्धंगुलसोणीको जेट्ठपमाणो असी भणिओ॥ वृ. पञ्चाशदङ्गुलानि दीर्घो यः षोडशांगुलानि विस्तीर्ण अर्धांगुलप्रमाणा श्रोणि-बाहल्यं
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org