________________
वक्षस्कारः-३
२३५
अशुचिसंसर्गशङ्कयाआत्मानंसंवृण्वन्तं २,आभीक्ष्णयेचात्र द्विवचनं, एवमग्रेऽपिभाव्यं, अथास्य क्रियाविशेषैर्जात्यत्वं लक्षयति-खुरप्रधानश्चरणाः खुरचरणास्तेषां चच्चपुटाःआघतविशेषास्तैर्धरणितलमभिघ्नदभिघ्नद्, ननु भूतलविलिखनं सामान्यः पुंस इवाश्वस्यापलक्षणमिति, न, एतस्य लक्षणत्वेन शालिहोत्रे प्रतिपादनाद्, यतः “खुरैः खनेद्यः पृथिवीमश्वो लोकोत्तरः स्मृत" इति, अश्ववारप्रयोगनर्त्तितो हि हयोऽग्रपादावुदस्यति, तत्रास्यशक्ति विशेषणद्वारेणदर्शयतिद्वावपि च चरणौ यमकसमकं-युगपत् मुखाद्विनिर्गमदिव-निस्सारयदिव, कोऽर्थः ?
इदमग्रपादादूवँनयत्तथा मुखान्तिकंप्रापयतियथाजन उप्रेक्षते इमौमुखाद्विनिर्गमयति, पुनः क्रियान्तरदर्शनेनैतद्विशिनष्टि-शीघ्रतया-लाघवविशेषेण मृणालं-पद्मनालं तस्य तन्तुःसूत्राकारोऽवयवविशेषः स च उदकं च ते अपि निश्राय-अवलंब्य आस्तामन्यद् दुर्गादिकं प्रक्रामत्,सञ्चरत्, अयमर्थयथा अन्येषां सञ्चरिष्णूनां मृणालतंतूदके पादावष्टम्भके न भवतः तथा नास्येति, सूत्रेचैकवचनमार्षत्वात्, तथाजति–मातृपक्षःकुलं-पितृपक्षः रूपं-सदाकारसंस्थानं तेषांप्रत्ययो-विश्वासोयेभ्यस्तेचतेप्रशस्ताः प्रदक्षिणाबहत्वात् शुभस्थानस्थितत्वाच्च ये द्वादशावतस्तेि यत्रतत्तथा, बहुव्रीहिलक्षणः कप्रत्ययः, विशुद्धानि-दोषामिश्रितानि लक्षणानिअश्वशास्त्रप्रसिद्धानि यस्य तत्तथा, ततः पदद्वयस्य कर्मधारयः, द्वादशावर्ताश्च इमे वराहोक्ताः॥१॥ ये प्रपाणगलकर्णसंस्थिताः, पृष्ठमध्यनयनोपरिस्थिताः ।
ओष्ठसक्थिभुजकुक्षिपार्श्वगास्ते ललाटसहिताः सुशोभनाः॥ 'अत्रवृत्तिलेशः-प्रपाणं-उत्तरोष्ठतलंगलः कण्ठः यत्रस्थित आवर्तोदेवमणिनामाहयानां महालक्षणतया प्रसिद्धः कर्णौ-प्रतीतौ एतेषु स्थानेषु संस्थिताः तथा पृष्ठ-पर्याणस्थानं मध्यं प्रतीतंनयनेअपि तथैव तदुपरिस्थिताः, तथा ओष्ठौप्रतीतौ सक्थिनी-पाश्चात्यपादयोर्जानूपरिभागः भुजौ-प्राकपादयोर्जानूपरिभागः कुक्षि-अत्र वामो दक्षिणकुक्ष्यावर्तस्य जात्यपेक्षया द्वादशैव स्थानानि, स्थानभेदानुसारेण स्थानिभेदा अपि द्वादशैवेति, तथा सुकुलप्रसूतं-हयशास्त्रत्वेऽपि जात्यपेक्षया द्वादशैवस्थानानि, स्थानभेदानुसारेण स्थानिभेदाअपिद्वादशैवेति, तथा सुकुलप्रसूतंहयशास्त्रोक्तक्षत्रियाश्वपितृकंमेधावि-स्वामिपदसंज्ञादिप्राप्तार्थधारकं भद्रकं-अदुष्टं विनीतंस्वामीष्टकारित्वात्अणुकतनुकानां-अतिसूक्ष्माणां सुकुमालानां लोम्नां स्निग्धाछविर्यत्र तत्तथा, सुष्टु यातं-गमनं यस्य तत्तथा, अमरमनःपवनगरुडाः प्रतीताः तान् वेगाधिक्येन जयतीति अमरमनःपवनगरुडजयित, अतएव चपलशीग्रगामिच-अतिशीघ्रगतिकंपश्चात्पदद्वयकर्मधारयः क्षान्त्या-क्रोधाभावेन न त्वसामथ्येन या क्षमा तया ऋषिमिव–अनगारमिव ।
क्षमाप्रधानत्वात्तस्य, न चरणैर्लत्तादायकं न च मुखेन दशकं न च पुच्छाघातकरणिति, सुशिष्यमिव प्रत्यक्षताविनीतं, अत्र ताकारः प्राकृतशैलीभवस्तेन प्रत्यक्षविनीतं, उदकंहुतवहःअग्निपाषाणः पांसू-रेणुः कर्दमः सशर्करं-सलघूपलखण्डंस्थानंसवालुकं-अत्रस्वार्थेइल्लप्रत्ययः बहुलसिकताकणं स्थानं तट-नदीतटं कटको-गिरिनितम्बः विषमप्राग्भारौ प्राग्वद् गिरिदर्यः प्रतीतास्तासुलंघनं अतिक्रमणंप्रेरणं आरूढस्य पुंसोऽभिमुखदर्शनमुखदर्शनधावनादिना संज्ञाकरणपूर्वकं प्रवर्त्तनं निस्तारणा-तत्पारप्रापणा तत्र समर्थं, न चण्डैः-उग्रैः सुभटैः रणे पातितं दण्डवत् पततीत्येवंशीलं दण्डपाति अतर्कितमेव प्रतिपक्षस्कन्धावारे पतनशीलं, अनेनास्योत्पतनस्वभावोऽपि सूचितः, मार्गादिखेदमेदस्व्यपि नाथु पातयतीत्येवंशीलमनश्रुपाति, तथा
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only