________________
२३४
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ३/८१ कशा-चर्मदण्डस्तेषां निपातैस्तथा अंकेल्लणप्रहारैः- तर्जनकविशेषाघातैश्च परिवर्जितं अशववारमनोऽनुकूलचारित्वात् अङ्गं यस्य तत्तथा, तपनीयमयाः स्थासका-दर्पणाकारा अश्वालङ्कारविशेषायत्रतदेवंविधंअहिलाणं-मुखसंयमनविशेषो यस्यतत्तथा, वरकनकमयानि सुष्टु-शोभनानि पुष्पाणि स्थासकाश्च तैर्विचित्रा रत्नमयी रज्जु पार्श्वयोः- पृष्ठोदरान्तवर्त्यवयवविशेषयोर्यस्यतत्तथा, वध्यन्तेहिपट्टिकाः पर्याणध्दीकरणार्थमश्वानामुभयोः पार्वयोरिति, काञ्चनयुतमणिमयानि केवलकनकमयानिचप्रतरकाणि-पत्रिकाभिधानभूषणानिअन्तरान्तरा येषु तानि तथाभूतानि नानाविधानि घण्टिकाजालानि मौक्तिकजालकानि च तैः परिमण्डितेन पृष्ठेनशोभमानेनशोभमानंकतनादिरलमयं मुखमण्डनार्थं रचितंआविद्धमाणिक्यं प्रीतमाणिक्यं सूत्रकं-हयमुखभूषणविशेषस्तेन विभूषिकं कनकमयपद्मेन सुष्टु कृतं तिलकं यस्य तत्तथा, देवमत्या स्वर्गिचातुर्येण विविधप्रकारेण कल्पितं-सज्जितंसुरवरेन्द्र-वाहनम्-उच्चैःश्रवा हयस्तस्य योग्या-मण्डलीकरणाभ्यासस्तस्या 'व्रज गता वित्यस्याचप्रत्यये व्रजं-प्रापकं।
ये गत्यस्तेि प्राप्तया इति वचनात् अयं भावः-याद्दशं खुरलीश्रममुचैःश्रवाः करोति ताशमयमपि,अत्रषष्ठयर्थे द्वितीयाप्राकृतत्वात्, तथासुरूपं-सुन्दरंद्रवन्ति-इतस्ततोदोलायमानानिसहजचञ्चलाङ्गत्वाद् गलभालमौलिकर्णद्वयमूलविनिवेशितत्वेनपञ्चसङ्ख्याकानि यानि चारूणि चामराणितेषांमेलक-एकस्मिन्मूर्द्धनि सङ्गमस्तंधरद्-वहत्, चामरा इत्यत्र स्त्रीनिर्देशःसमयसिद्ध एव, गौडमतेन वा चामरा इत्यावन्तःशब्दः, अत्रापीडशब्दे व्याख्यायमाने मूर्द्धालंकार एवोक्तो भवति, नतुकर्णाधलङ्कारः, श्यन्तेचलोके एकंचामरं मूर्द्धालङ्कारभूतंचामरद्वयंचकर्णालङ्कारभूतं एकं च भालालङ्कारभूतं एकं च कंठालङ्कारभूतमिति, तेन यथोक्तव्याख्यानमेव सुन्दरं, अथ देवमतिविकल्पितादिविशेषणविशिष्ट उच्चैःश्रवानाम शक्रहयोऽपि स्यादित्याह-अनभ्रवाहअनभ्रचारी अभ्रवाहः अश्वः उच्चैःश्रवास्तदन्यं अदब्मवाह मिति पाठे तु अदभ्रं-भूरि वहतीति अदभ्रवाहस्तत्, अभेले-दोषादिना असंकुचिते नयने यस्य तत्तथा।
अतएव कोकासिते-विकसितेबहले-ढे अनश्रुपातित्वात्पत्रले-पक्ष्मवतीनतुऐन्द्रलुप्तिकरोवगशाद्रोमरहितेअक्षिणी यस्य तत्तथा, सदावरणे-शोभार्थदंशमशकादिरक्षार्थवाप्रच्छादनपटे नवकनकानि-नव्यस्वर्णानियस्यतत्तथा स्वर्णतन्तुव्यतप्रच्छादनपटमित्यर्थः, तप्तपनीयंतद्वदरुणे तालुजिह्ने यत्रतदेवंविधमास्यं यस्यतत्तथा, ततः पूर्वविशेषणेन कर्मधारयः, श्रीकाया-लक्ष्मया अभिषेकः-अभिषेचनं नाम शारीरलक्षणं घोणायां-नासिकायां यस्य तत्तथा, कवचित्पाठान्तरे तु सिरिसातिसेअघोणमिति दृश्यते, तत्र शिरीषं-शिरीषपुष्पं तद्वदतिश्वेता घोणा यस्येति, तथा पुष्करपत्रमिव-कमलदलमिव सलिलस्य बिन्दवो यत्र तदेवंविधं, कोऽर्थः ?-यथा पुष्करपत्रं जलान्तरस्थं वाताहतजलबिन्दुयुतं भवति तथेदमपि सलिलं-पानीयं लावण्यमित्यर्थः तस्य बिन्दवः-छटास्तैर्युतं, बिन्दुग्रहणेनात्र प्रत्यङ्गं लावण्यं सूचितं, लोकेऽपि प्रसिद्धमेतत् मुखेऽस्य पानीयमिति, अचंचलं-स्वामिकार्यकरणे स्थिरं, साधुवाहित्वात्, चञ्चलशरीरं जातिस्वभावात्
अथ यदि चञ्चलाङ्गस्तदाऽमेध्यवस्तुष्वपि स्वाङ्गप्रवर्तको भविष्यतीत्याह-चोक्षःकृतस्नानश्चरको घाटिभिक्षाचरः परिव्राजको-मस्करीततश्चरकसहितः परिव्राजकश्चरकपरिव्राजकः, प्रथमा द्वितीयार्थे, तेन चरपरिव्राजकमिव प्राकृतशैल्या अकारप्रश्लेषादभिलीयमानं २
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org