________________
वक्षस्कारः-३
२३३
तत इति क्रियाक्रमसूचकं वचनं तं प्रसिद्धगुणं नाम्ना कमलामेकं अश्वरत्न सेनापति क्रमेण-सन्नाहादिपरिधानविधिना समभिरूढ-आरूढः, किंविशिष्टमित्याह-अशीत्यङ्गुलानि उच्छ्रितं, अंगुलंचात्र मानविशेषः, नवनवत्यंगुलानि-एकोनशतांगुलप्रमाणपरिणाहो-मध्यपरिधिर्यस्य तत्तथा, अष्टोत्तरशतांगुलान आयतं-दीर्घ, सर्वत्र मकारोऽलाक्षणिकः, तुरगाणां तुङ्गत्वं खुरतःप्रारभ्य कर्णावधि परिणाहः पृष्ठपार्बोदरान्तरावधि आयामो मुखादापुच्छमूलं, यदाह ॥१॥ "मुखादापेचकं दैर्ध्य, पृष्ठपार्बोदरान्तरात्।
आनाह उच्छ्रयः पादाद, विज्ञेयो यावदासनम् ॥१॥" तत्रोच्चत्वसङ्ख्यामेलनाय साक्षादेव सूत्रकृदाह-'बत्तीस मित्यादि, द्वात्रिंशदंगुलोच्छ्रितशिरस्कंचतुरंगुलप्रमाणकर्णकं, ह्रस्वकर्णत्वस्यजात्यतुरगलक्षणत्वात्, अनेन कर्णयोरुन्चत्वेनास्य स्थिरयौवनत्वमभिहितंशंकुकर्णत्वात्, हयानांयौवनपाते वनितास्तनयोरिव अनयोः पातः स्यात्, दीर्घत्वंचार्षत्वात्, अत्रयोजनायाःक्रमप्राधान्येनपूर्वकर्णविशेषणंज्ञेयं पश्चाच्छिरसः,अश्वश्रवसो मून उच्चतरत्वात्, विंशत्यङ्गुलप्रमाणा बाहा-शिरोभागाधोवर्तीजानुनोरुपरिवर्तीप्राक्चरणभागो यस्यतत्तथा, चतुरंगुलप्रमाणंजानु-बहुजंघसंधिरूपोऽवयवो यस्यतत्तथा, तथाषोडशांगुलप्रमाणा जंघाजान्वधोवर्ती खुरावधिरवयवोयस्य तत्तथा, चतुरंगुलोच्छ्रिताः खुराः-पादतलरूपाअवयवा यस्य तत्तथा, एषामवयवा- नामुच्चत्वमीलने सर्वसङ्ख्या पूर्वोक्ता अशीत्यंगुलरूपा, मकारः सर्वत्रालाक्षणिकः, यत्तु श्रेष्ठाश्वमा-नमाश्रित्य लौकिकपारासरग्रन्थे ।
'जघन्यमध्यश्रेष्ठानामश्वानामायतिर्भवेत।
अंगुलानां शतं हीनं, विंशत्या दशभिस्त्रिभिः॥ ॥२॥ परिणाहोऽङ्गुलानि स्यात्, सप्तति सप्तसप्ततिः।
एकाशीति समासेन, त्रिविधं स्याद् यथाक्रमम् ॥ ॥३॥ तथा षष्टिश्चतुःषष्टिरष्टषष्टि समुच्छ्रयः।
द्विपञ्चसप्तकयुता, विंशति स्यान्मुखायति ॥ . इत्यत्र सप्तनवत्यंगुलान्यायतिः एकाशीत्यंगुलानि परिणाहः अष्टषष्टयंगुलानि समुच्छ्रयः सप्तविंशत्यंगुलानि मुखायतिरित्युक्तमस्ति तदपरश्रेष्ठहयानाश्रित्य नतुहयरत्नमाश्रित्य, दृष्टश्चायं विशेषः पुरुषोत्सेधेसामुद्रिके उत्तमपुरुषाणामष्टोत्तरशतांगुलान्युत्सेधः उत्तमोत्तमानांतुविंशत्युत्तरशतांगुलानि, अनेनास्य प्रमाणोपेतत्वं सूचितं, सम्प्रत्यवयवेषुलक्षणोपेतत्वंसूचयति-मुक्तोलीनाम अधउपरिच सङ्कीर्णामध्ये त्वीषद्विशालाकोष्ठिका तद्वत् संवृत्तं-सम्यग्वर्तुलंवलितं-वलनस्वभावं नतु स्तब्धं मध्यं यस्य तत्तथा परिणाहस्य मध्यपरिधिरूपस्यात्रैव चिन्त्यमानत्वादुचितेयमुपमा, ईषदंगुलं यावत् प्रणतं-नन्तुमारब्धं अतिप्रणतस्योपवेष्टुर्दुखावहत्वात् पृष्ठं-पर्याणस्थानं यस्य तत्तथा आरोहकसुखावहपृष्ठकमित्यर्थः, सम्यग्-अधोऽधःक्रमेण नतंपृष्ठं यस्य तत्तथा, सङ्गतं-. देहप्रमाणोचितं पृष्ठं यस्य तत्तथा, सुजातं-जन्मदोषरहितं पृष्ठं यस्य तत्तथा, प्रशस्तं-शालिहोत्रलक्षणानुसारि पृष्ठं यस्य तत्तथा, किं बहुना ? विशिष्टपृष्ठं-प्रधानपृष्ठमितियावत्, उक्तं पृष्ठे पर्याणस्थानवर्णनं, अथ तत्रैवावशिष्टभागं विशिनष्टि-एणी-हरिणी तस्या जानुवदुन्नतं उभयपार्श्वयोर्विस्तृतं च चरमभागे स्तब्धंसुदृढं पृष्ठं यस्य तत्तथा, वेत्रो-जलवंशः लता-कम्बा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org