________________
वक्षस्कारः ३
२३१
बहुषुसमरेषु-सम्परायेषु, अनेन चातिभयानकत्वं सूचितं, समयरूपेषुसंपरायेषु-युद्धेषु लब्धलक्षा-अमोधहस्ताश्चाप्य भवन, सामान्यतो युद्धेषु च वल्गनादिरूपेषु केचन लब्धलक्षा भवेयुः परं तदव्यवच्छेदाय समरेष्वित्युक्तं, अथ यत्तेषां मंडले जातं तदाह-'तए णमित्यादि, तत इति-कथान्तरप्रबन्धे तेषामापातकिरातानां अन्यदा कदाचित्-चक्रवत्यार्गमनकालात्पूर्व, अत्र तेषामित्येतावतैवोक्तेनप्रकरणाद्विशेष्यप्राप्तौयदापातकिरातानामित्युक्तं तद्विस्मरणशीलानां विनेयानां व्युत्पादनायेति, विषये-देशे बहूनि औत्पातिकशतानि-उत्पातसत्कशतानि, अरिष्ठसूचकनिमित्तशतानीत्यर्थः, प्रादुरभूवन्-प्रकटीबभूवुः, तद्यथा-अकाले प्रावृट् कालव्यतिरिक्तकाले गर्जितं अकाले विद्युतः अकाले-स्वस्वपुष्पकालव्यतिरिक्तकाले पादपाः पुष्यन्ति अभीक्ष्णं २-पुनः २ आकाशे देवता-भूतविशेषा नृत्यन्ति, अथ ते किं चक्रुरित्याह
'तए ण'मित्यादि, ततः-उत्पातभवानन्तरं ते आपातकिराता विषये बहूनि औत्पादिकशतानि प्रादुर्भूतानिपश्यन्ति, दृष्ट्वा चान्योऽन्यंशब्दयन्ति-आकारयन्ति, शब्दयित्वा चैवमवादिषुः, किमवादिषुः कीशाश्वतेऽभूवन्नित्याह-“एवं खलु'इत्यादि, एवं-वक्ष्यमाणप्रकारेण खलुनिश्चये देवानुप्रिया-ऋजुस्वभावा अस्माकं विषये बहूनि औत्पातिकशतानि प्रादुर्भूतानि, तद्यथा-अकाले गर्जितं इत्यादि प्राग्वत्, तन ज्ञायते देवानुप्रिया ! अस्माकं विषयस्य को मन्ये इति वितर्कार्थे निपातः, तेन मन्ये इति सम्भावयामः उपद्रवो भविष्यति इतिकृत्वा अपहतमनःसंकल्पा-विमनस्काः चिन्तया-राज्यभ्रंशधनापहारादिचिन्तनेन यः शोक एव दुष्पारत्वात् सागरस्तत्र प्रविष्टाः करतले पर्यस्तं-विमनस्काः चिन्तया-राज्यभ्रंशधनापहारादिचिन्तनेन यः शोक एव दुष्पारत्वात् सागरस्तत्र प्रविष्टाः करतले पर्यस्तं-निवेशितं मुखं यैस्ते तथा आर्तध्यानोपगताः भूमिगतदृष्टिका ध्यायन्ति, आपतिते सङ्कटे किं कर्तव्यमिति चिन्तयन्तीति, अथ प्रस्तूयमानं भरतस्य चरितमाह
'तए णमित्यादि, ततस्तेषामुत्पातचिन्तनानन्तरं स भरतो राजा चक्ररलादेशितमार्गो यावत् समुद्ररवभूतामिव गुहां कुर्वन् २ तमिस्रागुहातः औत्तराहेण द्वारेण निरेति-निर्यादिशशीव मेघान्ध-कारनिवहात् । 'तए णं०' ततो गुहातो निर्गमानन्तरं ते आपातकिराता भरतस्य राज्ञः अग्रानीकं-सैन्याग्रभागं एजमाणंतिइयत्, आगच्छत्पश्यतिदृष्ट्वाच आसुरुत्ताइत्यादि पदपंचकं प्राग्वत् अन्योऽन्यं शब्दयन्ति शब्दयित्वा चैवमवादिषुरिति, -'तए णं' एष देवानुप्रियाः ! कश्चिदज्ञातनामकोऽप्रार्थितप्रार्थकादिविशेषणविशिष्टो वर्ततेयोऽस्माकं विषयस्य-देशस्योपरि वीर्येणात्मशक्या 'हव्वं ति शीघ्रमागच्छति, तत्तस्मात्तथा णमिति-इमं भरतराजानमित्यर्थ 'धत्तामो'ति क्षिपामो दिशो दिशि विकीर्णसैन्यं कुर्म इत्यर्थः, यथा एषोऽस्माकं विषयस्योपरि वीर्येण नो शीघ्रमागच्छेत्, सूत्रे सप्तम्यर्थे वर्तमानानिर्देसः एतस्मिन् समये किं जात मित्याह___इतिकट्ठ'इत्यादि, इति-अनन्तरोदितं कृत्वा-विचिन्त्यान्योऽन्यस्यान्तिके एतमर्थं प्रतिश्रृण्वन्ति-ओमिति प्रतिपद्यन्ते, प्रतिश्रुत्य च सन्नद्दबद्धेत्यादिपदानि प्राग्वत् यत्रैव भरतस्य राज्ञोऽग्रानीकंतत्रैवोपागच्छन्ति, उपागत्यच भरतस्य राज्ञोऽग्रानीकेन साधूसंप्रलग्नाश्चाप्यभूवन्, यो मितिशेषः, युद्धायप्रवृत्ता इत्यर्थः, अथ तेकिं कुर्वन्तीत्याह-'तेणंतेआवाडचिलाया इत्यादि, ततो युद्धप्रवृत्यनन्तरंतेआपातकिराता भरतस्य राज्ञोऽग्रानीकंहताः केचन प्राणत्याजनेन मथिताः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org