SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ वक्षस्कारः-३ २२९ चप्राग्वत् सिन्ध्वा महानद्याः पौरस्त्ये कूले–पूर्वतटे उभयत्रापिणंशब्दो वाक्यालङ्कारे, अयमर्थःतमिनाया अधो वहन्ती सिन्धुस्तमिनपूर्वकटकमवधीकृत्यैवेति, उन्मग्नाऽपि पूर्वकटकानिर्गताऽस्तीत्युभयोरेकस्थानतासूचनार्थकमिदं सूत्रं, यत्रैवोन्मग्नजला महानदी तत्रैवोपागच्छति, उपागत्यच वर्द्धकिरवंशब्दयतिशब्दयित्वाचैवमवादीदिति, यदवादीत् तदाह-'खिप्पामेव'त्ति क्षिप्रमेव भो देवानुप्रिय! उन्मग्ननिमग्नजलयोर्महानद्योः अनेकानिस्तम्भशतानितेषु सन्निविष्टौसुसंस्थिती अत एवाचलौ महाबलाक्रान्तत्वेऽपिनस्वस्थानाच्चलतः अकम्प्रौ-ढौ, सकम्पसेतुबन्धे तु तितीषूणांसशकंचलनस्यादिति बढतरनिर्माणावित्यर्थः, अथवाअचलो-गिरिस्तद्वत् अकम्प्रौ, मकारोऽलाक्षणिकः, अभेद्यकवचाविवाभेद्यकवचौ अभेद्यसन्नाहाविति, जलादिभ्यो न भेदं यात इत्यर्थः, नन्वनन्तरोक्तविशेषणाभ्यामुत्तरतां तदुपरिपातशङ्कान स्यात्तथापिउभयपार्श्वयोर्जलपातशङ्का नापनीता भवतीत्याह-सालम्बने-उपरिगच्छतामवलम्बनभूतेन ईढतरभित्तिरूपेणालम्बनेन सहितेबाहे-उभयपाश्र्वीययोस्तौतथा, सर्वात्मनारलमयौ आदिदेवचरित्रप्रवचनसारोद्धारवृत्योस्तु क्रमेण पाषाणमयकाष्ठमयौ तावुक्तौ स्त इति, तथा सुखेन संक्रमः-पादविक्षेपो यत्र तौ तथा, ईशौ संक्रमौ-सेतू कुरुष्व कृत्वा च मामेतामाज्ञप्तिकां क्षिप्रमेव प्रत्यर्पयेति। अथसकिंचकारेत्याह-'तएण'मित्यादि, अनुवादसूत्रत्वात्सर्वंप्राग्वत्, ननु उन्मग्नजलाजलस्योन्मजकत्वस्वभावत्वेन कथं तत्र संक्रमार्थकशिलास्तम्भादिन्यासः सुस्थितो भवति?, स च दीर्घपट्टशालाकारोनचजलोपरिकाष्ठादिमयः सम्भवति, तस्यासारत्वेन भारासहत्वात्, उच्यते, वर्द्धकिरत्नकृतत्वेन दिव्यशक्तेरचिन्त्यशक्तिकत्वात्, अनेन चा विराज्यपरिसमाप्तेः सर्वोऽपि लोक उत्तरति गुहा च तावंतं कालमपावृतैवास्ते मण्डलान्यपि तथैव तिष्ठन्ति, उपरते तु चक्रिणि सर्वमुपरमत इति प्रवचनसारोद्धारवृत्तेरभिप्रायः, त्रिषष्टीयाजितचरित्रे तु। ॥१॥ "उद्घाटितं गुहाद्वारं, गुहान्तमण्डलानि च । तावत्तान्यपि तिष्ठन्ति, यावज्जीवति चक्रभृत्॥" इत्युक्तमस्ति 'तए ण'मित्यादि, ततः स भरतो राजा स्कन्धावाररूपबलसहितस्ताभ्यां सङ्क्रमाभ्यांउन्मग्ननिमग्नजले महानद्यौउत्तरति-परपारंगच्छति, एवं उत्तरतो गच्छति राजराजे उत्तरद्वारे यज्जातं तदाह-'तए ण'मित्यादि, ततो-नद्यतिक्रमणानन्तरं तस्यास्तमिस्रागहाया उत्तराहस्य द्वारस्य कपाटौ स्वयमेव सेनानीदण्डरलाघातमन्तरेणेत्यर्थ :महया २ इति सूत्रदेशेन पूर्वसूत्रस्मरणं तेन महया २ सद्देणमिति बोध्यं क्रौञ्चारवं कुर्वाणौ सरस्सरति कुर्वन्तौ च स्वके स्वके स्थाने प्रत्यवाष्वष्किषातां व्याख्या तु प्राग्वत्, ननु यदि दाक्षिणात्यद्वारकपाटौ सेनापतिप्रयोगपूर्वकमुद्घटेते तथा इमावपि कथं न तथा ?, उच्यते, एकशः सेनापतिसत्यापितकपाटोद्घाटनविधिसन्तुष्ट- गुहाधिपसुरानुकूलाशयेन द्वितीयपक्षकपाटौ स्वयमेवोद्घटेते इति । अथोत्तरभरतार्द्धविजयं विवक्षुस्तत्रत्यविजेतव्यजनस्वरूपमाह मू. (८०) तेणंकालेणंतेणंसमएणंउत्तरड्डभरहेवासेबहवे आवाडाणामंचिलायापरिवसंति अड्डा दित्ता वित्ता विच्छिण्णविउलभवणसयणासणजाणबाहणाइन्ना बहुधणबहुजायस्वरयया आओगपओगसंपउत्ताविच्छड्डिअपउरभत्तपाणा बहुदासीदासगोमहिसगवेलगप्पभूआ बहुजनस्स Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003317
Book TitleAgam Suttani Satikam Part 13 Jambudwip pragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy