________________
२२८
जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् ३ / ७९
हत्थी वा रहे वा जोहे वा मणुस्से वा पक्खिप्पइ तण्णं उम्मग्गजलामहानई तिक्खुत्तो आहुणिअ २ एगंते थलंसि एडेइ, जण्णं निमग्गजलाए महानईए तणं वा पत्तं वा कट्टं वा सक्करं वा जाव मणुस्से वा पक्खिप्पर तण्णं निमग्गजलामहानई तिक्खुत्तो आहुणिअ २ अंतो जलंसि निमज्जावेइ, से तेणट्टेणं गोअमा ! एवं वुबइ - उम्मगणिमग्गजलाओ महानईओ ।
तणं से भरहे राया चक्करयणदेसिअमग्गे अनेगराय० महया उक्तिट्ठसीहणाय जाव करेमाणे २ सिंधूए महानईए पुरच्छिमिल्ले णं कूडे णं जेणेव उम्मग्गजला महानई तेणेव उवागच्छइ २ त्ता वद्धइरयणं सद्दावेइ २ त्ता एवं वयासी
खिप्पामेव भो देवाणुष्पिआ ! उम्मग्गनिमग्गजलासु महानईसु अनेगखंभसयसण्णिविट्टे अयलमकंपे अभेज्जकवए सालंबणबाहाए सव्वरयणामए सुहंकमे करेहि करेत्ता मम एअमाणत्तिअं खिप्पामेव पचप्पिणाहि, तए णं से वद्धइरयणे भरहेणं रन्ना एवं वृत्ते समाणे हट्ठतुट्ठचित्तमाणंदिए जाव विणएणं पडिसुणेइ २ ता खिप्पामे उम्मगनिमग्गजलासु महानईसु अनेगखंभसयसण्णिविट्टे जाव सुहसंक करेइ २ त्ता जेणेव भरहे राया तेणेव उवागच्छइ २ त्ता जाव एअमात्तिअं पञ्चप्पिणइ
तए णं से भरहे राया सखंधावारबले उम्मग्गनिमग्गजलाओ महानईओ तेहिं अनेगखंभसयसण्णिविद्वेहिं जाव सुहसंकमेहिं जाव सुहसंकमेहिं उत्तरइ, तएणं ती से तिमिस्सगुहाए उत्तरिल्लस्स दुवारस्स कवाडा सयमेव महया २ कोंचारवं करेमाणा सरसरस्सगगाई २ ठाणाई पञ्च्चोसक्कित्था ।
वृ. 'तीसे ण' मित्यादि, तस्यास्तमिस्रागुहायाः बहुमध्यदेशभागे दक्षिणद्वारतस्तोड्डकसमेनैकविंतियोजनेभ्यः परतः उत्तरद्वारतस्तोड्डकसमेनैकविंशतियोजनेभ्योऽर्वाक् च उन्मग्नजलानिमग्नजलानाम्न्यौ महानद्यौ प्रज्ञप्ते, ये तमिस्रगुहायाः पौरस्त्यात् भित्ति कटकाद्-भित्तिप्रदेशात् प्रव्यूढे निर्गते - सत्यौ पाश्चात्येन कटकेन विभिन्नेन सिन्धुमहानदीं समाप्नुतः प्रविशत इत्यर्थः, नित्यप्रवृत्तत्वाद्वर्त्तमानानिर्देशः, अथानयोरन्वर्थं पृच्छन्नाह - 'से केणट्टेण' मित्यादि, अथ केनार्थेन भदन्त ! एवमुच्यते उन्मग्नजलनिमग्नजले महानद्यौ ?, गौतम ! यत् णमिति प्राग्वत् उन्मग्नजलायां महानद्यां तृणं वा पत्रं वा काष्ठां वा शर्करा वा - ध्षत्खण्डः, अत्र प्राकृतत्वाल्लिङ्गव्यत्ययः, अश्वो वाहस्ती वा रथो वा योधो वा - सुभटः सेनायाः प्रकरणाच्चतुर्णां सेनाङ्गानां कथनं मनुष्यो वा प्रक्षिप्यते तत् तृणादिकं उन्मग्नजला महानदी त्रिकृत्व-त्रीन् वारान् आधूय २ - भ्रमयित्वा २ जन सदाऽऽ हत्या हत्येत्यर्थ एकान्ते - जलप्रदेशाद्दवीयसि स्थाने निर्जलप्रदेशे 'एडेइ' त्ति छर्द्दयति, तीरे प्रक्षिपतीत्यर्थः, तुम्बीफलमिव शिला उन्मग्नजले उन्मज्जतीत्यर्थः, अत एवोन्मज्जति शिलादिकमस्मादिति उन्मग्नं, 'कृद् बहुल' मिति वचनात् अपादाने क्तप्रत्ययः, उन्मग्नं जलं यस्यां सा तथा, अथ द्वितीयाया नामान्वर्थ-तत्पूर्वोक्तं वस्तुजातं निमग्नजला महानदी त्रिकृत्वः आधूयाधूय अन्तर्जलं किं ? मज्जयति शिलेव तुम्बीफलं निमग्नाजले निमज्जतीत्यर्थः, अत एव निमज्जयत्यस्मिन् तृणदिकमखिलं वस्तुजातमिति निमग्नं, बहुलवचनादधिकरणे क्तप्रत्ययः, निमग्नं जलं यस्यां सा तथा, अथैतन्निगमयति- 'से तेणट्टेणं०, सुगमं, अनयोश्च यथाक्रममुन्मज्जकत्वे निमज्जकत्वे वस्तुस्वभाव एव शरणं, तस्य चातर्कणीयत्वात्, इमे च द्वे अपि त्रियोजनविस्तरे गुहाविस्तारायामे अन्योऽन्यं द्वियोजनान्तरे बोध्ये, अथ दुरवगाहे नद्यौ विबुध्य भरतो यच्चकार तदाह
'तएण 'मित्यादि, ततः स भरतो राजा चक्ररत्नदेशितमार्गः 'अनेगराये' त्यादि सूत्रं व्याख्या
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International