SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ वक्षस्कारः-३ २२७ द्वितीययोजनादावालिखति, एवमेकस्यां भित्तौ पञ्चविंशतिरपरस्यां चतुर्विंशतिरित्येकोनपञ्चाशत्मण्डलानि भवन्ति, एतानि च किल गुहायां तिर्यग् द्वादश योजनानि प्रकाशयन्ति, ऊर्ध्वाधोभावेन चाष्टौ योजनानि, गुहाया विस्तरोच्चत्वस्य च क्रमेण एतावत एव भावात, अग्रतः पृष्ठतश्च योजनं प्रकाश-यन्तीति, ननु गोमूत्रिकाविरचनक्रमेण मण्डलालिखने कथमेषां योजनान्तरितत्वं ?, यद्येकभित्ति-गतमण्डलापेक्षया तर्हि योजनद्वयान्तरितत्वमापद्येत अन्यथा द्वितीयमण्डलस्यैकभित्तिगतत्वप्रसङ्गःतथा च सति गोमूत्रिकाभङ्गः, अन्यभित्तिगतमण्डलापेक्षया तु तिर्यक् साधिकद्वादशयोजनान्त- रितत्वमिति, उच्यते, पूर्वभित्तौ प्रथमं मण्डलमालिखति, ततस्तत्सम्मुखप्रदेशापेक्षया योजनातिक्रमे द्वितीयमण्डलमालिखति, ततस्तत्सम्मुखप्रदेशापेक्षया योजनातिक्रमे पूर्वभित्तौ तृतीयमण्डलमालिख-तीत्यादिक्रमेण मण्डलकरणात् गोमूत्रिकाकारत्वं योजनान्तरितत्वंच व्यक्तमेवेति सर्वं सुस्थं, अथ पञ्चाशद्योजनायामायां गुहायामेकोनपञ्चाशता मण्डलैर्यप्रकाशकरणमुक्तमि तथा-एवंषटकोष्ठकपरिकल्पित-षडूयोजनक्षेत्रे एकस्मिन् पक्षे त्रीणि अन्यत्र तु द्वे इत्युभयमीलने पञ्च मण्डलानि भवन्ति। एवमनेन गोमूत्रिकामण्डलकविरचनक्रमेणपञ्चाशदयोजनायामायांगुहायामेकोनपञ्चाशतोऽपि मण्डलकानां स्थापना स्वयं ज्ञेयेति, अन्ये तु पूर्वदिक्कपाठे आदौ योजनं मुक्त्वा प्रथम मण्डलंकरोति, ततः पश्चिमदिक्कपाटेतत्सम्मुखं द्वितीय, ततः पूर्वदिक्कपाटगतप्रथममंडलादुत्तरतो योजनं मुक्त्वा पूर्वदिक्कपाटतोड्डके तृतीयं, ततः पश्चिमदिक्कपाटतोड्डके तत्सम्मुखं चतुर्थं, ततः पूर्वदिक्कपाटतोड्डके तृतीयान्मंडलायोजनं मुक्त्वा पञ्चमं, ततस्तत्सम्मुखं पश्चिमदिक्कपाटतोडके षष्ठं, पुनस्तावतैवान्तरालेन पूर्वदिग्भित्तौ सप्तमं, ततस्तत्सम्मुखं पश्चिमदिग्भित्तौ अष्टमं, ततः पूर्वदिग्भित्तौ सप्तमान्मंडलायोजनान्तरे नवम, ततः पश्चिमभित्तौ अष्टमात् तावतैवान्तरालेन दशममित्येवं पूर्वभित्तौ पश्चिमभित्तौ च मंडलान्यालिखंस्तावद् गच्छति यावच्चरममष्टनवतितमं मंडलमुत्तरद्वारसत्कपश्चिमदिक्कपाटे, एवं चैकैकस्यांभित्तावेकोनपञ्चाशत् मंडलानिउभयमीलने चाष्टनवतिरिति, अत्रचोभयोः पक्षयोर्मध्ये आद्यः आवश्यकबृहदृत्तिटिप्पनकप्रवचनसारोद्धारबृहदृत्यादावुक्तो द्वितीयस्तु मलयगिरिकृतक्षेत्रविचारवृत्यादाविति। अथ प्रकृतं प्रस्तूयते-'तएण'मित्यादि, ततो-मंडलालिखनान्तरं सातमिस्रगुहा भरतेन राज्ञा तैर्योजनान्तरितैर्यावद्योजनोद्योतकरैरेकोनपञ्चाशता मंडलैरालिख्यमानैः क्षिप्रमेवालोकंसौरप्रकाशं भूता-प्राप्ता, एवमुद्योतं-चान्द्रप्रकाशं भूता, किंबहुना?, दिवसभूता-दिनसध्शी जाता चाप्यभवत्, चःसमुच्चये, अपि सम्भावनायां, तेन नेयंगुहा मंडलप्रकाशपूर्णा किन्तुसम्भाव्यते आलोकभूता,एवमग्रेतनपदद्वयमपि, कचिद्दिवसभूअ इत्यस्य स्थाने दीवसयभूया इति पाठस्तत्र दीपशतानि भूतेति व्याख्येयं अथान्तर्गुहं वर्तमानयोः परपारं जिगमिषूणां प्रतिबन्धकभूतयोरुन्मग्नानिमग्नानामकनद्योः स्वरूपं प्ररूपयितुकामः प्राह मू. (७९) तीसे णं तिमिसगुहाए बहुमज्झदेसभाए एत्थ णं उम्मग्गनिमग्गजलाओ नामं दुवे महानईओ पन्नत्ताओ, जाओ णं तिमिसगुहाए पुरच्छिमिल्लाओ मित्तिकडगाओ पवूढाओ समाणीओ पञ्चत्थिमेणं सिंधुंमहानइ समप्पेति, सेकेणटेणं भंते! एवं वुच्चइ उमग्गनिमग्गजलाओ महानईओ? गोअमा! जण्णं उम्मग्गजलाए महानईए तण वा पत्तं वा कटुं वा सक्करं वा आसे वा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003317
Book TitleAgam Suttani Satikam Part 13 Jambudwip pragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy