________________
२२४
जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् ३ / ७८
जाया यावि होत्था ।
वृ. 'तए णं से भरहे राया मणिरयण' मित्यादि, ततः स भरतो राजा मणिरत्नं परामृशति, किंविशिष्टंइत्याह- ‘तोत’मिति सम्प्रदायगम्यं चतुरङ्गुलप्रमाणा मात्र दैर्घ्येण यस्य तत्तथा, चशब्दाद् द्व्यङ्गुलपृथुलमिति ग्राह्यं, यदाह-- "चतुरंगुलो दुअंगुलपिहुलो अ मणी' इति, अनर्धितं - अमूल्यं न केनापि तस्यार्धः, कर्तुं शक्यते इत्यर्थः तिस्रोऽनयः - कोट्यो यत्र तत्तथा, ईशं सत् षडनं - षट्कोटिक, लोकेऽपि प्रायो वैडूर्यस्य मृदङ्गाकारत्वेन प्रसिद्धत्वान्मध्ये उन्नतवृत्तत्वेनान्तरितस्य सहजसिद्धस्योभयान्तवर्त्तिनोऽसत्रयस्य सत्वात्, अत्राह - षडनमित्यनेनैव सिद्धे त्र्यनंषडनमिति किमर्थं ?, उच्यते, उभयोरन्तयोर्निरन्तरकोटिषटकभवनेनापि षडम्नता सम्भवति ततस्तदव्यवच्छेदार्थं त्र्यनं सत् षडनमित्युक्तं, तथा अनुपमद्युति दिव्यं मणिरत्नेषु - पूर्वोक्तेषु पतिसमं सर्वोत्कृष्टत्वात्, वैडूर्यं वैडूर्यजातीयमित्यर्थः, सर्वेषां भूतानां कान्तं - काम्यं, इदमेव गुणान्तरकथनेन वर्णयन्नाह
'जेण य मुद्धागएण 'मित्यादि, येन मूर्द्धगतेन - शिरोधृतेन हेतुभूतेन न किञ्चिद्दुःखं जायते आरोग्यं च सर्वकालं भवति, तिर्यङ्देवमनुष्यकृताः चशब्दस्य व्यवहितसम्बन्धादुपसर्गाश्च सर्वे न कुर्वन्ति तस्य दुःखं, संग्रामेऽपि च-बहुविरोधिसमरे आस्तामल्पविरोधिसमरे अशस्त्रवध्यः, अत्र न शस्त्रवध्योऽशस्त्रवध्य इति, नञ्समासोवा, 'अः स्वल्पार्थेऽप्यभावेऽपी' त्यनेकार्थवचनात्
इति पृथगेव नञ्समानार्थनिपातो वा ज्ञेयस्तेन न शस्त्रैर्वध्यो भवित, नरो मनिवरं धरन् स्थितं विनश्वरभावमप्राप्तं यौवनं यस्य स तथा स्थायियौवन इत्यर्थः, केशैः सहावस्थिता - अवर्द्धिष्णवो नखा यस्य स तथा पश्चात् पदद्वयस्य कर्मधारयः, भवति च सर्वभयविप्रमुक्तः, अत्र 'सर्व भाजनस्थं जलं पीत' मित्यादाविव एकदेशेऽपि सर्वशब्दप्रयोगस्य सुप्रसिद्धत्वाद्देवमनुष्यादिप्रतिपक्षोत्थं भयमिह ज्ञेयं, अन्यथाऽश्लोकादिभयानि महतामेव भवेयुरिति, अथैतद् गृहीत्वा नृपतिर्यच्चकार तदाह
'तं मणि' न्ति तन्मणिरत्नं गृहीत्वा स नरपतिर्भरतो हस्तिरत्नस्य दाक्षिणात्ये कुम्भे निक्षिपति - निबध्नाति, 'कुंभीए' इत्यत्र स्त्रीत्वं प्राकृतत्वात्, 'तएण 'मित्यादि, ततः स भरताधिपो नरेन्द्रो हारावस्तृतेत्यादिविशेषणकदम्बकं प्राग्वत् मणिरत्नकृतोद्योतश्चक्ररनदेशितमार्गे यावत् समुद्ररवभूतामिव गुहामिति गम्यं कुर्वन् २ यत्रैव तमिस्प्रगुहाया दाक्षिणात्यं द्वारं तत्रैवोपागच्छति, उपागत्य च तमिस्प्रगुहा दाक्षिणात्येन द्वारेणात्येति - प्रविशति, शशीव मेधान्धकारनिवहं । प्रवेशानन्तरं यत्कृत्यं तदाह
'तएण’'मित्यादि, ततः स भरतो राजा काकणीरत्नं परामृशतीत्युत्तरेण सम्बन्धः, किंविशिष्टमित्याह - चत्वारि चतसृषु दिक्षु द्वे तूर्ध्वमधश्चेत्येवं षटसङ्ख्याङ्कानि तलानि यत्र तत्तथा, तानि चात्र मध्यखण्डरूपाणि, यैर्भूमावविषमतया तिष्ठन्तीति, द्वादश अध उपरि तिर्यक् चतसृष्वपि दिक्षु प्रत्येकं चतसृनापश्रीणां भावात् अश्रयः - कोट्यो यत्र तत्तथा, कर्णिकाः - कोणाः यत्र अश्रित्रयं मिलति तेषां चाध उपरि प्रत्येकं चतुर्णां सद्भावादष्टकर्णिकं, अधिकरणि- सुवर्णकारोपकरणं तद्वत् संस्थितं - संस्थानं यस्य तत्तथा, तत्सध्शाकरं समचतुरस्नत्वात्, आकृतिस्वरूपं निरूप्यास्य तौल्यमानमाह- अष्टसुवर्णा मानमस्येत्यष्टसौवर्णिकं तत्र सुवर्णमानमिदं चत्वारि मधुरतॄण
"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org