________________
वक्षस्कारः - ३
२२५
फलान्येकः श्वेतसर्षपः षोडश श्वेतसर्पषा एकं धान्यमाषफलं द्वे धान्यमाषफले एका गुञ्जा पञ्च गुञ्जाएकः कर्ममाषकः षोडश कर्ममाषकाः एक सुवर्ण' इति, एताशैरष्टभि सुवर्णे काकणीरलं निष्पद्यते इति, अत्र चाधिकारे ।
“एतानि च मधुरतृणफलादीनि भरतचक्रवर्त्तिकालसम्भवीन्येव गृह्यन्ते, अन्यथा कालभेदेन तद्वैषम्यसम्भवे काकणीरत्नं सर्वचक्रिणां तुल्यं न स्यात्, तुल्यं चेष्यते तदि" त्येतस्मादनुयोगद्वारवृत्तिवचनात् एतद्देशीयादेव स्थानाङ्गवृत्तिवचनात् ।
119 11
"चउरंगुलो मणी पुण तस्सद्धं चेव होइ विच्छिन्नो । चउरंगुलप्पमाणा सुवण्णवरकागणी नेया ।।
इहाङ्गुलं - प्रमाणाङ्गुलमवगन्तव्यं, सर्वचक्रवर्त्तिनामपि काकण्यादिरत्नानां तुल्यप्रमाणत्वादिति” मलयगिरिकृतबृहतसंग्रहणीबृहद्वृत्तिवचनाच्च केचनास्य प्रमाणाङ्गुलनिष्पन्नत्वं, केचच्च " एगमेगस्स णं रन्नो चाउरंतचक्कवट्टिणो अट्ठसोवण्णिए कागणिरयणे छत्तले दुवालसंसिए अट्ठकण्णिए अहिगरणिसंठाणसंठिए पन्नत्ते, एगमेगा कोडी उस्सेहंगुलविक्खम्भा तं समणस्स भगवओ महावीरस्स अद्धंगुलं" इत्यनुयोगद्वारसूत्रबलादुत्सेधाङ्गुलनिष्पन्नत्वं, केऽपि च एतानि सप्तैकेन्द्रियरत्नानि सर्वचक्रवर्त्तिनामात्माङ्गुलेन ज्ञेयानि शेषाणि तु सप्त पञ्चेन्द्रियरत्नानि तत्कालीन पुरुषोचितमानानीति प्रवचनसारोद्धारवृत्तिबला - दात्माङ्गुलनिष्पन्नत्वमाहुः, अत्र च पक्षत्रये तत्वनिर्णयः सर्वविद्वेद्यः, अत्र तु बहु वक्तव्यं तत्तु ग्रन्थगौरवभिया नोच्यते इति ।
अस्य परामर्शानन्तरं यच्चक्रे तदाह - 'तएण 'मित्यादि, ततः परामर्शानन्तरं तत्काकणीरलं राजवरो गृहीत्वा यावदेकोनपञ्चाशतं मण्डलान्यालिखन्नालिखन् अनुप्रविशतीत्युत्तरेण सम्बन्धः, . कथम्भूतमित्याह-चतुरङ्गुलप्रमाणमात्रं, अस्यैकैका अश्रिश्चतुरङ्गुलप्रमाणविष्कम्भा द्वादशाप्यश्रयः प्रत्येकं चतुरङ्गुलप्रमाणा भवन्तीत्यर्थः, अस्य समचतुरम्नत्वादायामो विष्कम्भश्च प्रत्येकं चतुरङ्गुलप्रमाण इत्युक्तं भवति, यैवानिरूवकृता आयामं प्रतिपद्यते सैव तिर्यग्व्यवस्थापिता विष्कम्भभाग् भवतीत्यायामविष्कम्भयोरेकतरनिर्णयेऽप्यपरनिर्णयः स्यादेवेति सूत्रेविष्कम्भस्यैव ग्रहणं, तदग्रहणे चायामोऽपि गृहीत एव, समचतुरस्रत्वात्तस्येति, तदेवं सर्वतश्चतुरङ्गुलप्रमाणमदं सिद्धं ।
यत्तु 'तस्स णं एगमेगा कोडी उस्सेहंगुलविक्खंभा तं च समणस्स भगवओ महावीरस्स अर्द्धगुलं इत्यनुयोगद्वारसूत्रे उक्तं तन्मतान्तरमवसेयं तथाऽष्टभि सुवर्णैर्निष्पन्नमष्टसुवर्णं, अष्टसुवर्णमूलद्रव्येण निष्पन्नमित्यर्थः, चकारो विशेषणसमुच्चये सर्वत्र, तथा विषं जङ्गमादिभेदभिन्नं तस्य हरणं, स्वर्णाष्टगुणाना मध्ये विषहरणस्य प्रसिद्धत्वात्, अस्य च तथाविधस्वर्णमयत्वादिति, अतुलं - तुलारहितमनन्यसध्शमित्यर्थः, चतुरम्नसंस्थानसंस्थितमिति तु विशेषणं पूर्वोक्ताधिकरणिध्ष्टान्तेन भाव्यमिति, ननु अधिकरणिद्दष्टान्ते भाव्यमाने नास्य पूर्वोक्ता चतुरंगुलतोपपद्येत अधिकरणेरधः संकुचितत्वेन विषमचतुरस्रत्वादित्याह - समानि न न्यूनाधिकानि तलानि षडपि यस्य तत्तथा, अथैतदेव यच्छब्दगर्भितवाक्यद्वारा विशिनष्टि-यतः काकणीरत्नात् मानोन्मान [ प्रमाण] योगा :- एते मानविशेषव्यवहारा लोके चरन्ति प्रवर्त्तन्ते इत्यर्थः, तत्र मानं धान्यमानं सेतिकाकुडवादि, रसमानं चतुःषष्टिकादि, उन्मानं कर्षपलादि खण्डगुडादिद्रव्यमानहेतुः, उपलक्षणात् सुवर्णादिमानहेतुः प्रतिमानमपि ग्राह्यं गुआदि, किंविशिष्टास्ते व्यवहाराः ?
13 15
Jain Education International
"
For Private & Personal Use Only
www.jainelibrary.org