________________
वक्षस्कारः - ३
२१९
'तओ महानइ' न्ति तत इति कथान्तरप्रस्तावनायां महानदीं सिन्धुमुत्तीर्याप्रतिहतशासनः - अखण्डिताज्ञः सेनापति - सेनानीः क्वचिद् ग्रामाकरनगरपर्वतान् सूत्रे क्लीबत्वं प्राकृतत्वात्, खेडेत्यादि, सिंहावलोकनन्यायेन क्वचिच्छब्दोऽत्रापि ग्राह्यस्तेन क्वचित् खेटमडम्बानि क्वचित्पत्तनानि तथा सिंहलकान् - सिंहलदेशोद्भवान् बर्बरकाश्च - बर्बरदेशोद्भवान्, सर्वं च अङ्गलोकं बलावलोकं च परमरम्यं, इमे च द्वे अपि म्लेच्छजातीयजनाश्रयभूते स्थाने, यवनद्वीपं - द्वीपविशेषं अत्र चकाराः समुच्चयार्था एवमग्रेऽपि, त्रयानामप्यमीषां साधारणविशे, नमाह-प्रवरमणिरत्नकनकानां कोशागाराणि - भाण्डागाराणि तैः समृद्धं भृशं भृतं, आरबकान्-आरबदेशोद्भावान् रोमकांश्च- रोमकदेशोद्भवान् अलसण्डविषयवासिनश्च पिक्खुरान् कालमुखान् जोनकांश्च- म्लेच्छविशेषान् 'ओअवेऊण 'त्ति पदेन योगः, अथैतैः साधितैरशेषमपि निष्कुटं साधितमुत नेत्याह
उत्तरः- उत्तरदिग्वर्त्ती वैताढ्यः, इदं हि दक्षिणसिन्धुनिष्कुटान्तेन, अस्माद्वैताढ्य उत्तरस्यां दिशि वर्त्तते इत्यर्थः तं संश्रिताः - तदुत्पत्तिकायां स्थिताश्च म्लेच्छजातीर्बहुप्रकाराः उक्तव्यतिरिक्ता इत्यर्थः, अत्र सूत्रे क्वचिद् विभक्तिव्यत्ययः प्राकृतत्वात्, दक्षिणापरेण - नैऋतकोणेन यावत् सिन्धुसागरान्त इति - सिन्धुनदीसङ्गतः सागरः सिन्धुसागरः मध्यपदलोपे साधुः स एवान्तःपर्यवसानं तावदवधि इत्याशयः, सर्वप्रवरं कच्छंच-कच्छदेशं 'ओअवेऊण 'त्ति साधयित्वा स्वाधीनं कृत्वा प्रतिनिवृत्तः - पश्चाद्वलितो बहुसमरमणीये च भूमिभागे तस्य कच्छदेशस्य सुखेन निषण्णः - सुस्थस्तस्थी, स सुषेण इति प्रकरणाल्लभ्यते, ततः किं जातमित्याह
'ताहे ते जनवयाण' इत्यादि, 'ताहे' तस्मिन् काले ते इति तच्छब्दस्योत्तरवाक्ये 'सव्वे 'घेत्तूणे' त्यत्र योजनीयत्वेन व्यवहितः सम्बन्धः आर्षत्वात् जनपदानां - देशानां नगराणां पत्तनानां प्रतीतानां ये च 'तहिं' तत्र निष्कुटे स्वामिकाः- चक्रवर्त्तिसुषेणसेनान्योरपेक्षया अल्पर्द्धिकत्वेनाज्ञातस्वामिन इत्यज्ञातार्थे कप्रत्ययः, येच प्रभूता-बहवः आकराः - स्वर्णाद्युत्पत्तिभुवस्तेषां पतयः मण्डलपतयो – देशकार्यनियुक्ताः पत्तनपतयश्च, ते गृहीत्वा प्राभृतानि - उपायनानि आभरणानि - अङ्गपरिधेयानि भूषणानि - उपाङ्गपरिधेयानि रत्नानि च वस्त्राणि च महार्घाणि च - बहुमूल्यानि अन्यञ्च यद्वरिष्ठं–प्रधानं वस्तु हस्तिरथादिकं राजार्हं - राजप्राभृतयोग्यं यच्च एष्टव्यं -अभिलषणीयं सेनापतेरुपनयन्ति-उपढौकयन्ति मस्तककृताञ्जलिपुटाः, ततस्ते किं कृतवन्त इत्याह
'पुनरवि' इत्यादि, ते - तत्रत्यस्वामिनः प्राभृतोपनयनोत्तरकाले प्रकृताञ्जलिपरित्यागान्निवर्त्तनावसरे पुनरपि मस्तकेऽञ्जलिं कृत्वा प्रणता-नम्रत्वमुपागताः यूयमस्माकमत्र स्वामिनः प्राकृतत्वात् स्वार्थे कप्रत्ययस्तेन देवतामिव शरणामताः स्मो वयं युष्माकं विषयवासिन इति विजयसूचकं वचो जल्पन्तः सेनापतिना यथार्हं - यथौचित्येन स्थापिताः - नगराद्याधिपत्यादिपूर्वकार्येषु नियोजिताः पूजिता वस्त्रादिभिः विसर्जिताः - स्वस्थानगमनायानुज्ञाताः निवृत्ताः - प्रत्यावृत्ताः सन्तः स्वकानि निजानि नगराणि पत्तनानि चानुप्रविष्टाः । विसर्जनानन्तरं सेनापति
कार तदाह - तस्मिन् काले सेनापति सविनयोऽन्तर्धृतस्वामिभक्तिको गृहीत्वा प्राभृतानि आभरणानि भूषणानि रत्नानि च पुनरपि तां सिन्धुनामधेयां महानदीमुत्तीर्ण अणहशब्दोऽक्षतपर्याय देश्यस्तेनाहं - अक्षतं कचिदप्यखण्डितं शासनं - आज्ञा बलं च यस्य स तथा, तथैव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org