________________
२१८
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ३/७६ पश्चात्पदद्वयस्य कर्मधारयः, गृहीतान्यायुधानि प्रहरणानि च येन स तथा, आयुधप्रहरणयोस्तु क्षेप्याक्षेप्यकृतो विशेषो बोध्यः, तत्र क्षेप्यानि बाणादीनि अक्षेप्यानि खगादीनि अथवा गृहीतानि आयुधानि प्रहरणाय येन स तथेति । 'तएण'मित्यादि, प्राग्व्याख्यातार्थं, नवरं वाक्यायोजनायां ततःसुषेणश्चर्मरलंपरामृशति-स्पृशति, इत्यन्तंसम्बन्ध इति, एतप्रस्तावाचर्मरत्नवर्णनमाह'तएणंत'मित्यादि, तच्चर्मरत्नं उक्तविशेषणविशिष्टंभवतीत्यन्वयः, ततो-विस्तीर्णो विस्तृतनामक इत्यर्थः एवंविधः इनः-स्वामिचक्रवर्तिरूपोयस्य तत्ततेनं, यस्य हस्तस्पर्शतः इच्छया वा विस्तृणाति सस्वामीत्यर्थः,श्रीवत्ससशं-श्रीवत्साकारं रूपंयस्य तत्तथा, नन्वस्य श्रीवत्साकारत्वेचत्वारोऽपि प्रान्ताः समविष-मा भवन्तितथा चास्य किरातकृतवृष्टयुपद्रवनिवारणार्थतिर्यगविस्तृतेन वृत्ताकारण छत्ररत्नेन सह कथं सङ्घटना स्यादिति? उच्यते।
स्वतः श्रीवत्साकारमपि सहनादेवाधिष्ठितत्वाद्यथावसरं चिन्तिताकारमेव भवतीति न काप्यनुपपत्ति, मुक्तानां-मौक्तिकानां ताराणां-तारकाणांअर्द्धचन्द्राणां चित्राणि-आलेख्यानि यत्र तत्तथा, अचलं अकम्पं-द्वौसध्शार्थको शब्दावतिशयसूचकावित्यत्यन्तध्ढपरिनामंचक्रिसकलसैन्याक्रान्तत्वेऽपि न मनागपि कम्पते, अभेद्यं दुर्भेदं कवचमिवाभेद्यकवचं लुप्तोपमा, वज्रपञ्जरमिवदुर्भेदमित्याशयः, सलिलासु–नदीषुसागरेषुचोत्तरणयन्त्र पारगमनोपायभूतं दिव्यंदेवकृतप्रातिहाथय चर्मरत्नं-चर्मसु प्रधान, अनलजलादिभिरनुपधात्यवीर्यत्वात्, यत्र शणंशणधान्यं सप्तदशं-सप्तदशसङ्ख्यापूरकं येषुतानिशणसप्तदशानि सर्वधान्यानि रोहन्ते-जायन्ते एकदिवसेनोप्तानि, अयं सम्प्रदायः-गृहपतिरत्नेनास्मिंश्चर्मणि धान्यानि सूर्योदये उप्यन्ते अस्तमनसमये च लूयन्ते इति, सप्तदश धान्यानि त्विमानि। साली १ जव २ वीहि ३ कुद्दव ४ रालय ५ तिल ६ मुग्ग ७ मास ८ चवल ९ चिणा १०। तूअरि ११ मसूरि १२ कुलत्था १३ गोहुम १४ निप्फाव १५ अयसि १६ समा १७॥"
प्रायोबहूपयोगिनीमानीतीयन्त्युक्तानि,अन्यत्रचतुर्विंशतिरप्युक्तानि, लोकेचक्षुद्रधान्यानि बहून्यपि, पुनरस्यैव गुणान्तरमाह-वर्ष-जलदवृष्टिं ज्ञात्वा चक्रवर्तिना परामृष्टं दिव्यं चर्मरत्नं द्वादशयोजनानि तिर्यक् प्रविस्तृणाति-वर्द्धते, तत्रोत्तरभरतमध्यखण्डवर्तिकिरातकृतमेघोपद्रवनिवारणदिकार्येसाधिकानि-किञ्चिदधिकानि, ननु द्वादशयोजनावधि तस्थुषश्चक्रिस्कन्धावारस्यावकाशाय द्वादशयोजनप्रमाणमेवेदं विस्तृतंयुज्यते किमधिकविस्तारेण?, उच्यते, चर्मच्छत्रयोरन्तरालपूरणायोपयुज्यते साधिकविस्तार इति, यच्चात्र प्रकरणाद्यच्छब्देनैव विशेष्यप्राप्ती सूत्रे पुनरपि दिव्वे चम्मरयणे इति ग्रहणं तदालापकान्तरव्यवधानेन विस्मरणशीलस्य विनेयस्य स्मारणार्तं, अथ प्रकृतं प्रस्तूयते-'तए ण'मित्यादि, ततस्तद्दिव्यं चर्मरत्नं सुषेणसेनापतिना परामृष्टं-स्पृष्टं तत् क्षिप्रमेव-निर्विलम्बमेव नौभूतं-महानद्युत्ताराय नौतुल्यं जातं चाप्यभवत्, नावाकारेण जातमिमित्यर्थः, 'तए णमित्यादि, ततः-चर्मरत्ननौभवनानन्तरं सुषेणः सेनापति-सेनानीः स्कन्धावारस्य-सैन्यस्य ये बलवाहने-हस्त्यादिचतुरङ्गशिबिकादिरूपे ताभ्यां सह वर्तते यः सः स्कन्धावारबलवाहनः नौभूतं चर्मरलमारोहति, सिन्धुमहानदीं विमलजलस्य तुङ्गा-अत्युच्चा वीचयः-कल्लोला यस्यांसा तथा तां नौभूतेन चर्मरत्नेन बलवाहनाभ्यां सह वर्तते यः स सबलवाहनः, एवं सशासनो-भरताज्ञासहितः समुत्तीर्ण इति।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org